Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 216
________________ अध्ययनं - ३२, [ नि. ५३० ] गृहीतो महिप इवारण्ये, वसति हि कदाचित्केनचिदन्मोच्येतापीत्यरण्यग्रहणम् ५ । 'मनसः' चेतसो भावः-अभिप्राय: स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्तीन्द्रियाविषयत्वात्तस्य, ‘मनोज्ञं' मनोज्ञरूपादिविषयम् 'अमनोज्ञं' तद्विपरीतविषयम्, एवमुत्तरग्रन्थोऽपि भावविषयरूपाद्यपेक्षया व्याख्येयः, यद्वा स्वप्नाकामदशादिषुभावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः, स्वप्नकामदशादिषु हि मनस एव केवलस्य व्यापार इति, 'कामगुणेषु' मनोज्ञरूपादिषु ‘गृद्धः' आसक्तः 'करेणुमग्गावहिए व नागे' इति इवार्थस्य चय भिन्नक्रमत्वात् करेण्वाकरिण्या मार्गेण निजपथेनापहृतः - आकृष्टः करेणुमार्गापहृतः 'नाग इव' हस्तीव स हि मदान्धोऽप्यदूरवर्त्तिनीकरेणुमुपदर्श्य तद्रूपादिमोहितस्तन्मार्गानुगामितया च गृह्यते संग्रामादिषु च प्रवेश्यते तथा च विनाशमाप्नोतीति दृष्टान्तत्वेनोक्तः, आह २१३ एव चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्यात्र दृष्टान्तत्वेनाभीधानम् ?, उच्यते, एवमेतत्, मनः प्राधान्यविवक्षया त्वेतन्नेयं, यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावे मनसः प्रवृत्तिरिति न दोष:, इह चानानुपूव्यपि निर्देशाङ्गमितीन्द्रियाणामित्थमुपन्यास इत्यष्टसप्ततिसूत्रावयवार्थः ॥ उक्तमेवार्थं सङ्क्षेपत उपसंहारव्याजेनाह मू. (१३४६ )एविंदियत्था य मनस्स अत्था, दुक्खस्स हेडं मनुयस्स रागिणो । ते चेव थेवंपि कयाइ दुक्खं, न वीयरागस्स कर्रिति किंचि ॥ वृ.‘एवम्' उक्तन्यायेन 'इन्द्रियार्थाः ' चक्षुरादिविषया रूपादयः चशब्दो भिन्नक्रमस्ततो मनसोऽर्थाश्च-उक्तरूपा उपलक्षणत्वादिन्द्रियमनांसि च दुःखस्य 'हेउं 'त्ति हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च, विपर्यये गुणमाह-'ते चेव' इन्द्रियमनोऽर्थाः 'स्तोकमपि' स्वल्पमपि कदाचिद्दुःखं 'न' चैव वीतरागस्य उपलक्षणत्वाद्वीतद्वेषस्य कुर्वन्ति 'किञ्चिदि 'ति शारीरं मानसं चेति सूत्रार्थः ॥ ननु कश्चन कामभोगेषु सत्सु (न) वीतरागः संभवति, तत्कथमस्य दुःखाभाव ?, उच्यतेमू. (१३४७ ) न कामभोगा समयं उविंति, न यावि भोगा विगई उर्विति । Jain Education International - जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगइं उवेइ ॥ वृ. 'न' नैव 'कामभोगाः' उक्तरूपाः 'समतां' रागद्वेषाभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत्, न चापि 'भोगाः ' भुज्यमानतया सामान्येन शब्दादयः ‘विकृति' क्रोधादिरूपाम्, इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात्, कोऽनयोस्तर्हि हेतुः ?, इत्याह-य: 'तत्प्रदोषी च ' तेषु विषयेषु प्रद्वेषवान् 'परिग्रही च' परिग्रहबुद्धिमान्, तेष्वेव रागीत्युक्तं भवति, स 'तेषु' विषयेषु 'मोहात्' रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तम्, उक्तं हि पूर्व - 'सतोरेव रागद्वेषयोरुदीरकत्वेन शब्दादयो हेतव' इति, आह- "समो य जो तेसु स वीयरागो" इत्यनेन गतार्थमेतत्, सत्यं, तस्यैव त्वयं प्रपञ्चः, उक्तं हि 'त एव विधयः सुसंगृहीता भवन्ती येषां लक्षणं प्रपञ्चश्चोच्यते' इति सूत्रार्थः । किंस्वरूपाः पुनरसौ विकृतिर्यां रागद्वेषाशादुपैतीत्वाहमू. ( १३४८ ) कोहं च मानं च तहेव मायं, लोभं दुर्गुछं अरई रई च । हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316