________________
अध्ययनं - ३२, [ नि. ५३० ]
गृहीतो महिप इवारण्ये, वसति हि कदाचित्केनचिदन्मोच्येतापीत्यरण्यग्रहणम् ५ ।
'मनसः' चेतसो भावः-अभिप्राय: स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्तीन्द्रियाविषयत्वात्तस्य, ‘मनोज्ञं' मनोज्ञरूपादिविषयम् 'अमनोज्ञं' तद्विपरीतविषयम्, एवमुत्तरग्रन्थोऽपि भावविषयरूपाद्यपेक्षया व्याख्येयः, यद्वा स्वप्नाकामदशादिषुभावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः, स्वप्नकामदशादिषु हि मनस एव केवलस्य व्यापार इति, 'कामगुणेषु' मनोज्ञरूपादिषु ‘गृद्धः' आसक्तः 'करेणुमग्गावहिए व नागे' इति इवार्थस्य चय भिन्नक्रमत्वात् करेण्वाकरिण्या मार्गेण निजपथेनापहृतः - आकृष्टः करेणुमार्गापहृतः 'नाग इव' हस्तीव स हि मदान्धोऽप्यदूरवर्त्तिनीकरेणुमुपदर्श्य तद्रूपादिमोहितस्तन्मार्गानुगामितया च गृह्यते संग्रामादिषु च प्रवेश्यते तथा च विनाशमाप्नोतीति दृष्टान्तत्वेनोक्तः, आह
२१३
एव चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्यात्र दृष्टान्तत्वेनाभीधानम् ?, उच्यते, एवमेतत्, मनः प्राधान्यविवक्षया त्वेतन्नेयं, यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावे मनसः प्रवृत्तिरिति न दोष:, इह चानानुपूव्यपि निर्देशाङ्गमितीन्द्रियाणामित्थमुपन्यास इत्यष्टसप्ततिसूत्रावयवार्थः ॥ उक्तमेवार्थं सङ्क्षेपत उपसंहारव्याजेनाह
मू. (१३४६ )एविंदियत्था य मनस्स अत्था, दुक्खस्स हेडं मनुयस्स रागिणो । ते चेव थेवंपि कयाइ दुक्खं, न वीयरागस्स कर्रिति किंचि ॥
वृ.‘एवम्' उक्तन्यायेन 'इन्द्रियार्थाः ' चक्षुरादिविषया रूपादयः चशब्दो भिन्नक्रमस्ततो मनसोऽर्थाश्च-उक्तरूपा उपलक्षणत्वादिन्द्रियमनांसि च दुःखस्य 'हेउं 'त्ति हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च, विपर्यये गुणमाह-'ते चेव' इन्द्रियमनोऽर्थाः 'स्तोकमपि' स्वल्पमपि कदाचिद्दुःखं 'न' चैव वीतरागस्य उपलक्षणत्वाद्वीतद्वेषस्य कुर्वन्ति 'किञ्चिदि 'ति शारीरं मानसं चेति सूत्रार्थः ॥
ननु कश्चन कामभोगेषु सत्सु (न) वीतरागः संभवति, तत्कथमस्य दुःखाभाव ?, उच्यतेमू. (१३४७ ) न कामभोगा समयं उविंति, न यावि भोगा विगई उर्विति ।
Jain Education International
-
जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगइं उवेइ ॥
वृ. 'न' नैव 'कामभोगाः' उक्तरूपाः 'समतां' रागद्वेषाभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत्, न चापि 'भोगाः ' भुज्यमानतया सामान्येन शब्दादयः ‘विकृति' क्रोधादिरूपाम्, इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात्, कोऽनयोस्तर्हि हेतुः ?, इत्याह-य: 'तत्प्रदोषी च ' तेषु विषयेषु प्रद्वेषवान् 'परिग्रही च' परिग्रहबुद्धिमान्, तेष्वेव रागीत्युक्तं भवति, स 'तेषु' विषयेषु 'मोहात्' रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तम्, उक्तं हि पूर्व - 'सतोरेव रागद्वेषयोरुदीरकत्वेन शब्दादयो हेतव' इति, आह- "समो य जो तेसु स वीयरागो" इत्यनेन गतार्थमेतत्, सत्यं, तस्यैव त्वयं प्रपञ्चः, उक्तं हि 'त एव विधयः सुसंगृहीता भवन्ती येषां लक्षणं प्रपञ्चश्चोच्यते' इति सूत्रार्थः । किंस्वरूपाः पुनरसौ विकृतिर्यां रागद्वेषाशादुपैतीत्वाहमू. ( १३४८ ) कोहं च मानं च तहेव मायं, लोभं दुर्गुछं अरई रई च । हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ॥
For Private & Personal Use Only
www.jainelibrary.org