________________
२१२
उत्तराध्ययन- मूलसूत्रम् - २-३२/१३४५ वार्थं निगमयितुमाह-रूपानुरक्तस्य नरस्य 'एवम्' अनन्तरसूत्रकदम्बकोक्तप्रकारेण कुतः सुखं भवेत् ? कदाचित्किञ्चित्, सर्वदा दुःखमेवेति भावः, किमित्येवं ?, यतः 'तत्र' रूपानुरागे 'उपभोगेऽपि' उपभोगावस्थायामपि 'क्लेशदुःखम्' अतृप्तलाभतालक्षणबाधाजनितमसातम् उपभोगमेव विशिनष्टि-निर्वर्त्तयति' उत्पादयति यस्य- इत्युपभोगस्य कृते यदर्थं 'न' इति वाक्यालङ्कारे 'दुःखं' कृच्छ्रमात्मन इति गम्यते, उपोभगार्थं हि जन्तुः क्लिश्यति - तत्र सुखं स्यादिति यदा च तदाऽपि दुःखं तदा कुतोऽन्यदा सुखसम्भवः ? इति भावः ।
इत्थं रागस्यानर्थहेतुतामभिधाय द्वेषस्यापि तामतिदेष्टुमाह- 'एवमेव' यथाऽनुरक्तस्थैव रूपे गतः प्रदोपं-द्वेषम् 'उपैति' प्राप्नोति इहैवेति शेष: 'दुःखौधपरम्पराः ' उत्तरोत्तरदुःखसमूहरूपाः, तथा प्रदुष्टं प्रकर्षेण द्विष्टं चित्तं यस्य तथाविधः, चस्य भिन्नक्रमत्वात् 'चिनोति वा' बन्धाति कर्म, तत् शुभमपि संभवत्यत आह-यत् 'से' तस्य पुनर्भवति 'दुःखं' दुःखहेतुः 'विपाके ' अनुभवकाले इह परत्र चेति भावः, पुनर्ग्रहणमैहिकदुःखापेक्षम्, अशुभकर्मोपचयश्च हिंसाद्याश्रवाविनाभावीति तद्धेतुत्वमनेनाक्षिप्यते ।
-
इत्थं रागद्वेपयोरुद्धरणार्हतां ख्यापयितुं तदनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-इ-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च 'मनुजः' मनुष्यः 'विशोक : ' शोकरहितः संस्तन्निबन्धनयो रागद्वेषयोरभावात् ‘एतेन’ अनन्तरमुपदर्शितेन 'दुक्खोहरपंपरेणं' ति दुःखानाम्- असातानामोधाः-सङ्घातास्तेषां परम्परा - सन्ततिर्दुःखौधपरम्परा तया 'न लिप्यते' न स्पृश्यते भवमध्येऽपि ‘सन्’ भवन्, संसारवत्र्त्यपीत्यर्थः ॥ दृष्टान्तमाह- जलेनेव वाशब्दस्योपमार्थत्वात् 'पुष्करिणीपलास' पद्मिनीपत्रं जलमध्येऽपि सदिति शेषः ।
इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च स्वविषयप्रवृत्तौ रागद्वेषानुद्धरणदोषाभिधायकानि त्रयोदश सूत्राणि व्याख्येयानि, नवरं ' श्रोत्रस्ये 'ति श्रोत्रेन्द्रियस्य शब्द्यत इति शब्दो- ध्वनिस्तं 'मनोज्ञं' काकलीगीतादि 'अमनोज्ञं' खरकर्कशादि, तथा 'हरिणमियव्व मुद्धे' त्ति, मृगः सर्वोऽपि पशुरुच्यते, यदुक्तम्- "मृगशीर्ष् हस्तिजातौ, मृग: पशुकुङ्गयोः" इति, हरिणस्तु कुरङ्ग एवेति तेन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगः 'मुग्ध:' अनभिज्ञः सन् 'शब्दे' गौरिगीतात्मकेऽतृप्तः - तदाकृष्टचित्ततया तत्रातृप्तिमान् ।
'घ्राणस्य' इति घ्राणेन्द्रियस्य गन्ध्यते-घ्रायत इति गन्धस्तं 'मनोज्ञं' सूरभिम् 'अमनोज्ञम्' असुरभि, तथौषधयो-नागदमन्यादिकास्तासां गन्धस्तत्र गृद्धो-गृद्धिमानौषधिगन्धगृद्धः सन् 'सप्पबिलाओ विव'त्ति इवशब्दस्य भिन्नक्रमत्वात्सर्प इव बिलान्निष्क्रमन्, स ह्यत्यन्तप्रि(तत्प्रियतया तद्गन्धं सोढुमशक्नुवन् बिलान्निष्क्रामति ३ ।
'जिह्वयाः' जिह्वेन्द्रियस्य रस्यते - आस्वाद्यत इति रसस्तं 'मनोज्ञं' मधुरादि 'अमनोज्ञं' कटुकादि तथा बडिशं - प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नकायो - विदारितशरीरो बडिशविभिन्नकाय: 'मत्स्य:' मीनो यथाऽऽमिषस्य- मांसादेर्भोगः - अभ्यवहारस्तत्र गृद्ध आमिषभोगगृद्धः ४ | काय इहस्पर्शनेन्द्रियं सर्वशरीरगतत्वख्यापनार्थं चास्यैवमुक्तं, तस्य स्पृश्यत इति स्पर्शस्तं 'मनोज्ञं' मृदुप्रभृति 'अमनोज्ञं' कर्कशादि शीतं शीतस्पर्शवज्जलंपानीयं तत्रावसन्नः-अवमग्नः शीतजलासन्नो ग्राहै: - जलचरविशेषैर्गृहीतः - क्रोडीकृतो ग्राह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International