________________
अध्ययनं-३२,[नि. ५३०]
२११ हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ।।" तथा 'यथाऽभ्यासं विवर्द्धन्ते विषयाः कौशलानि चेन्द्रियाणा" मिति, तस्मिन् सति क्व सुखमिति सम्बन्धः, उत्तरोत्तरेच्च्छया हि परितप्यात एव जन्तुरिति, पठन्ति च-'अतित्तिलाभे'त्ति तृप्तिप्राप्त्यभावे। आह-एवं परिग्रहाद्दुःखमनुभवतस्तद्भीरुतया ततो निवृत्तिर्दोपान्तरानारम्भणं वा किमस्य संभवतीत्याशङ्कयाह-रूपेऽतृप्तश्च परिग्रहे च-तद्धिषयमूर्छात्मके सक्तः-सामान्येनैवासक्तिमान् उपसक्तश्च-गाढमासक्तस्ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तः 'नोपैति' नोपगच्छति ‘तुष्टिं' परितोषं सन्तोषमितियावत्, तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन दुःखीयदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान्, सकिं कुरुत इत्याह-- 'परस्य' अन्यस्य सम्बन्धि रूपवद्वस्त्विति गम्यते 'लोभाविलः' लोभकलुषः, यद्वा परेषां स्वं परस्वंप्रक्रमाद् यद्रूपवद्वस्तु तस्मिन् लोभो-गायं तेनाविल: परस्वलोभाविल: 'आदत्ते' गृह्णाति 'अदत्तम्' अनिसृष्ट परकीयमेव रूपवद्वस्त्विति गम्यते, अनेन रागस्यातिदुष्टतां ख्यापयितुं परिग्रहाद्दोष-दर्शनेऽपि विशेषतस्तत्रासक्तिर्दोषान्तरारम्भणं चाभिहितं ॥ __ तत्किमस्यैतावानेव दोष उतान्योऽपि ? इत्याशङ्कायोक्तदोषानुवादेन दोषान्तरमप्याह'तृष्णाभिभूतस्य' लोभामिभूतस्य तत एवादत्तं हरति-गृह्णातीत्येवंशीलोऽदत्तहारी तस्य, तथा रूपे-रूपविषयो यः परिग्रहस्तस्मिन्निति योगः, चस्य भिन्नक्रमत्वादतृप्तस्य च तत्रासन्तुष्टस्य मायाप्रधानं मोसंति-मृषाऽलीकभाषणं मायामृषा 'वर्द्धते' वृद्धि याति, कुतः पुनरिदमित्थम्
'लोभदोषात्' लोभापराधात्, लुब्धो हि परस्वमादत्ते आदाय च तद्गोपनपरो मायामृषा वक्ति, तदनेन लोभ एव सर्वाश्रवाणामति मुख्यो हेतुरित्युक्तं, तथा रागप्रक्रमेऽपि सर्वत्रलोभाभिधानं रागेऽपिलोभांशस्यैवातिदुष्टतावेदनार्थं, तत्रापि को दोपः? इत्याह-'तत्रापि' मृषाभाषणेऽपि दुःखात्' असातात् 'न विमुच्यते' न विमुक्तिमाप्राप्नोति सः; किन्तुः?, दुःखभाजनमेव भवतीति भावार्थः ॥दुःखाविमुक्तिमेव भावयति-'मोसस्स'त्ति मृषा, कोऽथ:?-अनृतभाषणस्य पश्चाच्च पुरस्ताच्च 'प्रयोगकाले च' तद्भाषणप्रस्तावे च दुःखी सन् तत्र पश्चादिदमिदं चन मया सुसंस्थापितमुक्तमिति पश्चात्तापतः पुरस्ताच्च कथमयं मया वञ्चनीय इति चिन्ताव्याकुलत्वेन प्रयोगकाले च नासौ ममालीकभाषितां लक्षयिष्यतीति क्षोभतः तथा दुष्टोऽन्तःपर्यवसानं तज्जन्मन्येकविडम्बनातो विनाशेन अन्यजन्मनि च नरकादिप्राप्त्या यस्यासौ दुरन्तो भवति जन्तुरिति गम्यते, तदेवं मृषाद्वारेणादत्तादानस्य् दुःखहेतुत्वमुक्तं, यदा च 'मोसस्स'त्ति 'मोषस्य' स्तेयस्येति व्याख्या तदा साक्षादेव तस्य दुःखहेतुत्वाभिधानम्,
उपसंहारमाह-'एवम्' अमुनोक्तप्रकारेणादत्तानि समाददान:' गृह्णन् रूपेऽतृप्तः सन्दुःखितो भवति, कीदृशः सन्? इत्याह-'अनिश्रः' दोषवत्तया सर्वजनोपेक्षणीय इति कस्य-चित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतदिति, प्रसिद्धत्वाच्च रागिणां तस्य साक्षादनभिधानं, यद्वा रूपसम्भोगोऽपि मिथुनकर्मकत्वाद्देवानामिव मैथुनमेव, तथा च रागिवचनम्
"आलोए च्चिय सा तेन पिययमा नेहनिब्भरमनेनं ।
आभासियव्व अवगूहियव्व रमियव्व पीयव्व।" त्ति, स च प्रकान्तः, एवमुत्तरत्रापि स्त्रीगतशब्दादिसम्भोगानां मैथुनत्वं सम्भावनीयम्। उक्तमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org