________________
२१०
उत्तराध्ययन-मूलसूत्रम्-२-३२/१३४५ 'समुवेंति सव्वं'ति स्पष्टं, यदि रूपदर्शनाद्वेषमुपगच्छन् दु:खमुपैति ततस्तथाविध-रूपदोषेणैवास्य दुःखावाप्तिरिति प्राप्तमित्याशङ्कयाह-दुष्टं दमनं दुर्दान्त तच्च प्रक्रमाच्चक्षुषस्तदेव दोषो दुर्दान्तदोपस्तेन 'स्वकेन' आत्मीयेन ‘जन्तुः' प्राणी, न 'किञ्चित्' स्वल्पमपि रूपं प्रक्रमादमनोज्ञम् 'अपराध्यति' दुष्यति 'से' तस्य, यदि हि रूपमेवापराध्येन्न कस्यचिद्देषाभावः स्यात्, तथा च मुक्त्यभावादयो दोषा इति भावः । इत्थं रागद्वेषयोर्द्वयोरप्यनर्थहेतुत्वमुक्तमिदानीं तु द्वेषस्यापि रागहेतुकत्वात्स एव महाऽनर्थमूलमिति दर्शयंस्तस्य विशेषतः परिहर्त्तव्यतां ख्यापयितुमाह-'एकान्तरक्तो' यो न कथञ्चिद्विरागं याति 'रुचिरे' मनोरमे रूपे, किमित्याह
"अतालिसी'त्ति मागधदेशीभाषया 'अतादृशे' अन्यादशे, तथा च तल्लक्षणं-'रशयोर्लसौ मागधिकाया'मिति, 'से' इति करोति 'प्रदोषं' द्वेषं सुन्दरीनन्द इव सुरसुन्दरीरागतः, सून्दर्यां चथा च दुःखस्य 'संपीडनं' सङ्घातं, यद्वा समिति-भृशं पीडा-दुःखकृताबाधा संपीडा तामुपैति 'बालः' अज्ञः उक्तमेवार्थव्यतिरेकमुखेनाह-न लिप्यत इव लिप्यते, श्लिष्यत इत्यर्थः, तेन' द्वेषकृतदुःखेन मुनिः 'विरागः' रागविरहितः, तस्यैव तन्मूलत्वादिति भावः ॥
सम्प्रति रागस्यैव पापकर्मोपचयलक्षणमहाऽनर्थहेतुतां ख्यापयितुं हिंसाद्याश्रवनिमित्ततां पुनरीह च तद्धारेण दुःखजनकत्वंच सूत्रषटेकनाह-रूपं प्रस्तावान्मनोज्ञमनुगच्छति रूपानंगमा स चासावाशा च रूपानुगाशा, रूपविषयोऽभिलाष इति योऽथः, तदनुगतश्च जीवः, पठन्ति च-'रूवाणुवायाणुगए य जीवे'त्ति तत्र रूपाणां-मनोज्ञानामुपायैः-उपार्जनहेतुभिरनुगतो-युक्त उपायानुगतः स च प्राणी जीवान् ‘चराचरान्' त्रसस्थावरान् 'हिनस्ति' विनाशयति 'अनेकरूपान्' जात्यादिभेदतोऽनेकविधान्, कांश्चित्तु 'चित्रैः' अनेकप्रकारैः स्वकायपरकायशस्त्रादिभिरुपायैरिति गम्यते सुब्ब्यत्ययाद् यथासम्वभं चित्तेषु वा तानिति-चराचरजीवान् परीतिसर्वतस्तापयति-दुःखयति परितापयति बाल इव बालः-विवेकविकलतयाऽपरांश्च पीडयति एकदेशदुःखोत्पादनेनात्मार्थं गुरुः-स्वप्रयोजननिष्ठः 'क्लिष्टः' रागबाधितः ॥ ___ अन्यच्च-रूपानुपातो रूपविषयोऽनुपात: अनुगमनमनुराग इतियावत् तस्मिंश्च सति प्ररिग्रहणे' मूर्छात्मकेन हेतुना 'उत्पादने' उपार्जने रक्षणंच-अपायविनिवारणं सन्नियोगश्च-स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् ‘वये'त्ति 'व्यये' विनाशे 'वियोगे' विरहे सतोऽप्यनेककारणजनिते, सर्वत्र रूपस्येतिप्रक्रमः, क्व सुखं ?, न क्वचित्, किन्तु सर्वत्र दुःखमेवेति भावः, 'से' इति तस्य जन्तोः, इयमत्र भावना-रूपमूर्छितो हिरूपवत्करितुङ्गमकलत्रादीनामुत्पादनरक्षणार्थं तेषु तेषु क्लेशहेतुषूपायेषु जन्तुः प्रवर्त्तते, तथा नियोज्यापि तथाविधप्रयोजनोत्पत्तौ रूपवत्कलत्रादि तदपायशङ्कया पुनः पुनः परितप्यत एवेति सिद्धिमेवास्योत्पादनरक्षणसंनियोगेषु दुःखम्, एवं व्ययवियोगयोरपि भावनीयम्, अन्ये तु पठन्ति-'रूवानुरागेण परिग्गहेणं'ति, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन, शेषु प्राग्वत्, स्यादेतत्मा भूदुत्पादनादिषु रूपस्य सुखं, सम्भोगकाले तु भविष्यतीत्याशङ्कयाह-'सम्भोगकाले च' उपभोगप्रस्तावे च 'अतित्तलाभे'त्ति तर्पणं तृप्तं तृप्तिरितियावत्तस्स लाभः-प्राप्तिस्तृप्तलाभो न तथाऽतृप्तलाभः, किमुक्तं भवति?-बहुधाऽपि रूपदर्शने रागिणां न तृप्तिरस्ति, यतोऽन्यैरप्युक्तम्
"न जातु कामः कामानामुपभोगेन शाभ्यति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org