________________
अध्ययनं - ३२, [ नि. ५३० ]
एगोवि पावाइ विवज्जयंतो, विहरेज्ज कामेसु असज्जमानो ।।
वृ. 'न' निषेधे वाशब्दश्चेदर्थे ततश्च न चेत् 'लभेत्' प्राप्नुयात् 'निपुणम्' इति निपुणबुद्धि 'सहायं' गुणैः -- ज्ञानादिभिरधिकम्--अर्गलं गुणाधिकं वा 'गुणत:' इति ज्ञानादिगुणानाश्रित्य 'समं वा' तुल्यमुभयत्रात्मन इति गम्यते, 'वे 'ति विकल्पे, ततः किमित्याह- 'एकोऽपि ' असहायोऽपि ‘पापानि’ पापहेतुभूतान्यनुष्ठानानि 'विवर्जयन्' विशेषेण परिहरन् 'पठ्यते च‘अनायरंतो’त्ति अनाचरन् 'विहरेत्' संयमाध्यवनि यायात् 'कामेषु' विषयेषु 'असजन्' प्रतिबन्धमकुर्वन्, तथाविधगीतर्थयतिविषयं चैतद्, अन्यथैकाकिविहारस्यागमे निषिद्धत्वात्, एतदविधाने च 'मध्यग्रहणे आद्यन्तयोरपि ग्रहणं भवती 'ति न्यायादाहारवसतिविषयोऽप्यपवाद उक्त एव भवतीति मन्तव्यम् ॥ इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तम्, इदानीं तेषामपि मोहादिक्षयनिबन्धनत्वात्तत्क्षयस्यैव प्राधान्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थं यथा तेषां सम्भवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्गतस्तेषां चाभावस्तथा वि (ऽभि) धातुमाहमू. ( १२५२ ) जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खं तण्हं, मोहं च तण्हाययणं वति ॥
२०१
वृ. 'यथा चे'त्ति येनैव प्रकारेणाण्डं - प्रतीतं ततः प्रभव - उत्पत्तिर्यस्याः साऽण्डप्रभवा 'बलाका' पक्षिविशेपः, अण्डं बलाकातः प्रभवतीति बलाकाप्रभवं यथा च, किमुक्तं भवति ?यथाऽनयोः परस्परमुत्पत्तिस्थानता 'एवमेव' अनेनैव प्रकारेण मोहयति- मूढतां नयत्यात्मानमिति मोह: - अज्ञानं तच्चेह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते, उक्तं हि - "जह दुव्वयण
वयणमित्यादि, आयतनम् उत्पत्तिस्थानं यस्याः सा मोहायतना तां 'खुः' अवधारणे ततो मोहायतनामेव 'तण्ह’न्ति तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षय इति, मोहं च तृष्णाऽऽयतनं यस्यासौ तृष्णायतनस्तं वदन्ति, तृष्णा हि सति मूर्च्छा,
मू. (१२५३ ) रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभव वयंति । कम्म च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥
वृ. सा चात्यन्तदुस्त्यजेति रागप्रधाना ततस्तया रागउपलक्ष्यते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयैवाक्षिप्यते ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, एतयोश्चानन्तानुबन्धिकषायरूपयोः सत्तायामवश्यम्भावी मिथ्यात्वोदयः, अत एवोपशान्तकषायवीतरागस्यापि मिथ्यात्वगमनं, तत्र च सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भवस्तथोक्तं, सम्प्रति यथैतेषां दुःखहेतुत्वं तथा वक्तुमाह
‘रागश्च' मायालोभात्मकः 'द्वेषोऽपि च ' क्रोधमानात्मकः कर्मज्ञानावरणादि तस्य बीजंकारणं कर्मबीजं, कर्मचस्य भिन्नक्रमत्वान्मोहात्प्रभवतीति मोहप्रभवं च मोहकारणं वदन्ति । 'चः' सर्वत्र समुच्चये 'कर्म च' इति कर्म पुनर्जातयश्च मरणानि च जातिमरणं तस्य 'मूलं' कारणं ‘दुःखं' संसारमसातपक्षे तु दुःखयतीति दुःखं, कोऽर्थः ? - दुःखहेतुं, चस्य् पुनरर्थस्य भिन्नक्रमत्वात् जातिमरणं पुनर्वदन्ति, तीर्थकरादय इति गम्यते, जातिमरणस्यैवातिशयदुःखोत्पादकत्वात्, उक्तं हि
Jain Education International
" मरणास्स जं दुक्खं, जायमाणस्स जंतुणो ।
For Private & Personal Use Only
-----
www.jainelibrary.org