________________
२००
उत्तराध्ययन- मूलसूत्रम् - २ - ३२ / १२४८ नन्वस्तु ज्ञानादिभिर्दुःखप्रमोक्षः, अमीषां तु कः प्राप्तिहेतुः ?, उच्यतेमू. ( १२४९ ) तस्सेव मग्गो गुरुविद्धसेवा, विवज्जणा बालजनस्स दूरा। सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य ॥
वृ. तस्येति योऽयमनन्तरं मोक्षोपाय उक्तः 'एषः' अनन्तरवक्ष्यमाणः 'मार्गः' पन्थाः प्राप्तिहेतु:, यदुत गुरवो यथावच्छस्त्राभिधायका वृद्धाश्च श्रुतपर्यायादिवृद्धास्तेषां सेवापर्युपासना गुरुवृद्धसेवा, इयं च गुरुकुलवासोपलक्षणं, तत्र च सुप्रापान्येव ज्ञानादीनि, यदुक्तम्"नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य ।
-
धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥" त्ति,
सत्यपि च गुरुकुलवासे कुसंसर्गतो न स्यादेव तत्प्राप्तिरित्याह- 'विवर्जना' विशेषण परिहारः ‘बालजनस्य' पार्श्वस्थादेः 'दूरात्' दूरेण, तत्सङ्गस्याल्पीयसोऽपि महादोषनिबन्धत्वेनाभिहितत्वात्, तत्परिहारेऽपि च न स्वाध्यायतत्परतां विना ज्ञानाद्यवाप्तिरित्याह- स्वाध्याये - उक्तरूपे एकान्तेन- इतरव्यासङ्गपरिहारात्मकेन निवेशना - स्थापना स्वाध्यायैकान्तनिवेशना सा च मनोवाक्कायानामिति गम्यते, पठन्ति च- 'सज्झायएगंतणिसेवणाए 'त्ति, स्वाध्यायस्यैकान्तनिवेषणा - निश्चयेनानुष्ठानं स्वाध्यायैकान्तनिषेवणा, सा तत्रापि 'वृथा श्रुतचिन्तित'मितिकृत्वाऽनुप्रेक्षैव प्रधानेत्यभिप्रायेणाह - सूत्रस्यार्थः - अभिधेयः सूत्रार्थस्तस्य 'संचितणय'त्ति सूत्रत्वात्संचिन्तना सूत्रार्थसंचिन्तना, अस्यामपि न चित्तख्यास्थ्यं विना ज्ञनादिलाभ इत्याह'धृतिश्च' चित्तस्वास्थ्यमनुद्विग्नत्वमित्यर्थः इति सूत्रार्थः ॥
यतश्चैवंविधो ज्ञानादिमार्गस्तत एतान्यभिलषता प्राक् किं विधेयमित्याह
मू. ( १२५० ) आहारमिच्छे मियमेसनिज्जं, सहायमिच्छे निउणत्थबुद्धिं । निकेयमिच्छज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ॥
-
वृ.‘आहारम्' अशनादिकम् 'इच्छेत्' अभिलषेन्मितमेषणीयम्, अपेर्गम्यमानत्वादिच्छेदप्येवंविधमेव, दानभोजने तु दूरोत्सारिते एव अनेवंविधाहार (स) एव ह्यनन्तरोक्तं गुरुवृद्धसेवाज्ञानादिकारणमाराधयितुं क्षम:, तथा 'सहायं' सहचरमिच्छेद्गच्छान्तर्वर्त्ती सन्निति गम्यते, अ निपुणा - कुशला अर्थेषु - जीवादिषु बुद्धिः - मतिस्येति निपुणार्थबुद्धिस्तं, पठ्यते च- 'निउणेहबुद्धि' तत्र निपुणा - सुनिरूपिता ईहा चेष्टा बुद्धिश्च यस्य स तथा, अनीदृशो हि सहाय: स्वाच्छन्द्योपदेशनादिना ज्ञानादिकारणगुरुवृद्धसेवादिभ्रंशमेव कुर्यादिति, तथा 'निकेतम्' आश्रयमिच्छेद् विवेकः-पृथग्भावः स्त्र्यादिसंसर्गाभाव इतियावत्तस्मै योग्यम् - उचितं तदापाताविवेकयोग्यम्, विविक्ताश्रये हि स्त्र्यादिसंसर्गाच्चित्तविप्लवोत्पत्तौ कुतो गुरुवृद्धसेवादिज्ञानादिकारणं संभवेत् ?, समाधिं कामयते-अभिलषति समाधिकामः, अत्र च समाधिर्द्रव्यभावभेदाद्विभेदः, तत्र द्रव्यसमाधिः क्षीरशर्करादिद्रव्याणां परस्परमविरोधेनावस्थानं भावसमाधिस्तु ज्ञानादीनां परस्परमबाधयाऽवस्थानं तदनन्यत्वाच्च ज्ञानादीनामयमेवेह गृह्यते, तथा च ज्ञानाद्यवाप्तुकाम इत्युक्तं भवति, श्रमणस्तपस्वीति प्राग्वदिति सूत्रार्थः ॥
कालादिदोषत एवंविधसहायाप्राप्तौ यत्कृत्यं तदाह
मू. (१२५१ ) न वा लभिज्जा निउणं सहायं, गुणाहिमं वा गुणओ समं वा ।
For Private & Personal Use Only
Jain Education International
=
www.jainelibrary.org