________________
अध्ययनं - ३२, [ नि. ५२९]
१९९
वृ.' येषां' प्राणिनां 'तुः ' पूरणे प्रमादेनोपलक्षितानां 'गच्छति' व्रजति कालः 'निरर्थकः ' निष्प्रयोजनः क्व ? - 'धर्मे' धर्मविषये धर्मप्रयोजनरहितः इत्यर्थः, प्रमादतो हि नश्यन्त्येव धर्मप्रयोजनानि, ते किमित्याह-संसारम् 'अनन्तम्' अपर्यवसितं 'हिण्डन्ते' भ्राम्यन्ति 'प्रमाददोषेण' हेतुनेति गाथार्थः ॥ यतश्चैवं ततः किं कर्त्तव्यमित्याह
नि. [ ५३० ]
तम्हा खलुप्पमायं चइऊणं पंडिएण पुरिसेणं । दंसणनाणचरिते कायव्वो अप्पमाओ उ ॥
-
वृ. तस्मात्, ‘खलु' निश्चयेन प्रमादं त्यक्त्वा 'पण्डितेन' बुद्धिमता पुरुषेण उपलक्षणात्वात्स्त्रायादि च दर्शनं च ज्ञानं च चारित्रं चेति समाहारस्तस्मिन् मुकितमार्गतया प्रागभिहिते ‘कर्त्तव्यः' विधेयः ‘अप्रमादः ' उद्यमः 'तुः' अवधारणार्थ इत्यप्रमाद एव न तु कदाचित्प्रमादः, तस्यैवं दोषदुष्टत्वादिति गाथार्थः । इत्यवसितो नामनिष्पन्ननिक्षेपः ।
मू. ( १२४७ ) अच्चंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे पडिपुन्नचित्ता!, सुणेह एगग्गहियं हियत्थ ॥ वृ.अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ - आरम्भक्षणः समाप्तिक्षणश्च, तथा चान्यैरप्युच्यते- "उभयान्तापरिच्छिन्ना वस्तुसत्ता नित्यते" ति, तत्रेहारम्भक्षणा ( ०णलक्षणाऽ)न्तः परिगृह्यते, तथा चात्यन्तः - अनादिः, कालो यस्य सोऽयमत्यन्तकालस्तस्य, सह मूलेनकषायाविरतिरूपेण वर्त्तत इति समूलक: (कः) प्राग्वत्तस्य, उक्तं हि - "मूलं संसारस्स उ हुंति कसाया अविरती य" 'सर्वस्य' निरवशेस्य, दुःखयतीति दुःखं - संसारस्तस्य असतं चेह दुःखं गृह्यते, अत्र च पक्षे मूलं रागद्वेषौ यः प्रकर्षेण मोक्षयति-मोचयतीति प्रमोक्षआत्मनो दुःखापगमहेतुः, पूर्वत्र तुशब्दस्यावधारणार्थस्येह सम्बन्धात्प्रमोक्ष एव, तं 'भाषमाणस्य' प्रतिपादयतः, यदिवा प्रमोक्षः - अपगमस्तं भाषमाणस्येति; कोऽर्थः ? - यथाऽसौ भवति तथा ब्रुवाणस्य 'मे' मम प्रतिपूर्ण विषयान्तरागमनेनाखण्डितं चित्तं चिन्ता वा येषां ते प्रतिपूर्णचित्ता: प्रतिपूर्णचिन्ता वा 'शृणुत' आकर्णयत, एकाग्रस्य - एकालम्बनस्यार्थाच्चेतसो भाव एकाग्र्यं-ध्यानं तच्च प्रक्रमाद्धर्म्यादि तस्मै हितमेकाग्र्यहितं, पाठान्तरत - एकान्तहितं वा हितः- तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह
मू. (१२४८ ) नाणस्स सव्वस्स पगासणाए, अन्नाणमोहस्स विवज्जणाए । रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ॥
वृ. 'ज्ञानस्य' आभिनिबोधिकादेः 'सर्वस्य' निरवशेषस्य पाठान्तरतः 'सत्यस्य वा' अवितथस्य 'प्रकाशनया' इति प्रभासनया निर्मलीकरणेनेत्यर्थः, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः, तथा अज्ञानं मत्यज्ञानादि मोहो- दर्शनमोहनीयमनयोः समाहारेऽज्ञानमोहं तस्व विवर्जनापरिहारो मिथ्या श्रुतश्रवणकुदृष्टिसङ्गपरित्यागादिना तया, अनेन स एव सम्यग्दर्शनात्मकोऽभिहित:, तथा 'रागस्य द्वेषस्य च' उक्तरूपस्य 'संक्षयेण' विनाशेन, एतेन तस्यैव चारित्रात्मकस्याभिधानं रागद्वेषयोरेव कषायरूपत्वेन तदुपघातकत्वाभिधानात्, ततश्चायमर्थ:-सम्यग्दर्शनज्ञानचारित्रैः ‘एकान्तसौख्यं' दुःखलेशाकलङ्कितसुखं समुपैति 'मोक्षम्' अपवर्गम्, अयं च दुःखप्रमोक्षाविनाभावित्यतः स एवोपलक्षित इति सूत्रार्थः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org