________________
१९८
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२४६ यथाख्यातसंयमस्तु प्रकर्षापकर्षरहीत एकरूप एवेत्येकमेव तत्स्थानम्, एवं च सामायिकादीनामसङ्खयेयभेदत्वात्समुदायात्मकस्य संयमस्थानस्याप्यसङ्खयेयभेदता, केवलमिह बृहत्तरमसङ्ख्येयं गृह्यते, असङ्ख्यातानामसङ्ख्यातभेदत्वात्, 'प्रग्रहस्थानं' तुप्रकर्षण गृह्यतेऽस्य वचनमिति प्रग्रहः-उपादेयवाक्योऽधिपतित्वेन स्थापितः, सच लौकिको लोकोत्तरतश्च तस्य स्थानं, तच्च लोकिकं पञ्चधा-राजयुवराजमहत्तरामात्यकुमारभेदात्, लोकोत्तरमपिपञ्चधैव-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदात्, 'योधस्थानम्' आलीढादि अचलस्थानं' निश्चलस्थितिरूपं, तत्र सादिसपर्यवसितादि परमाण्वादीनां, गणनास्थानम्-एककादि सन्धानस्थानं द्रव्यतः कञ्चुकादिगतं भावस्थानम्-औदयिकादिको भावस्तिष्ठन्त्यत्र जन्तव इतिकृत्वेति गाथात्रयार्थः ।। सम्प्रति येनात्र प्रकृतं तदुपदर्शयन्नुपदेशसर्वस्वमाहनि. [५२६] भावप्पमाय पगयं संखाजुत्ते अ भावठाणंमि।
. चइऊणं च (ण इइ) पमायं जइयव्वं अप्पमायंमि॥ वृ. भावप्रमादेन उक्तरूपेण प्रकृतम्-अधिकारः, तथा 'संख'त्ति सङ्ख्यास्थानं तद्युक्तेन, चस्य भिन्नक्रमत्वाद्भावस्थानेन च, कोऽथ:?-सङ्ख्यास्थानेन च, सर्वत्र सुब्ब्यत्ययने सप्तमी, अत्र हिगुरुवृद्धसेवाद्यभिधानतः प्रकामभोजनादिनिषेधतश्च भावप्रमादा निद्रादयोऽर्थात्परिहर्त्तव्यत्वेनोच्यन्ते, ते चैकादिसङ्घयायोगिन औदयिकभावस्वरूपाश्चेति भावः, 'त्यक्त्वा' विहाय 'इती'त्येवंप्रकारं प्रमाद, किमित्याह- 'यतितव्यं' यत्नो विधेयः क्व ?-'अप्रमादे' प्रमादप्रतियोगिनि धर्मं प्रत्युद्यम इति गाथार्थः । अस्यैवार्थस्य दृढीकरणार्थमुत्तमनिदर्शनमाहनि. [५२७] वाससहस्सं उग्गंतवमाइगरस्स आयरंतस्स।
जो किर पमायकालो अहोरत्तं तु संकलिअं। नि. [५२८] बारसवासे अहिए तवं चरंतस्स वद्धमाणस्स।
जो किर पमायकालो अंतमुहुत्तं तु संकलिअं। वृ.'वर्षसहस्र'मिति कालात्यन्तसंयोगे द्वितीया, ततश्च वर्षसहस्रप्रमाणं कालं यावत् 'उग्रम्'. उत्कटं तपः' अनशनादि आदिकरस्य' ऋषभनाम्नो भगवत आचरतो यः किलेंति परोक्षाप्तवादसूचक: 'प्रमादकालः' यत्र प्रमादोऽभूत् यत्तदोरभिसम्बन्धातोऽहोरात्रं 'तुः' अवधारणे ततोऽहोरात्रमेव, किमयमेकावस्थाभाविनः प्रमादस्य काल उतान्यथेत्याशङ्कयाह-सङ्कलितः, किमुक्तं भवति?-अप्रमादगुणस्थानस्यान्तमौहूर्तिकत्वेनानेकशोऽपि प्रमादप्राप्तौ तदवस्थितिविषयभूतस्यान्तर्मुहूर्तस्याङ्खयेयभेदत्वात्तेषामतिसूक्ष्मतया सर्वकालसङ्कलनायामप्यहोरात्रमेवाभूत।
तथा द्वादश वर्षाण्यधिकानि तपश्चरतो वर्द्धमानस्य यः किल प्रमादकालः प्राग्वत्सोऽन्तर्मुहूर्तस्य च बृहत्तरत्वमिति भावनीयम्, अन्ये त्वेतदनुपपत्तिभीत्या निद्राप्रमाद एवायं विवक्षित इति व्याचक्षत इति गाथाद्वयार्थः । इत्थमुत्तमनिदर्शनाभ्यामप्रमादानुष्ठाने दाढर्यमापाद्य विपर्यये दोषदर्शनद्वारेण पुनस्तदेवापादयितुमिदमाहनि. [५२९] जेसिं तु पमाएणं गच्छइ कालो निरत्थओ धम्मे।
ते संसारमनंतं हिंडंति पमायदोसेणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org