SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-३१,[नि.५२२] १९७ पुरतः शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु यो भिक्षुर्यतते यथायोगं सम्यक्श्रद्धानासेवनावर्जनादिनेत्येकोनविंशतिसूत्रार्थः ।। अध्ययनार्थं निगमयितुमाहमू. (१२४६) इइ एएसु जे भिक्खू, ठाणेसु जयई सया। खिप्पं से सव्वसंसारा, विप्पमुच्चइ पंडिए। तिबेमि॥ वृ. 'इती' त्यनेन प्रकारेण 'एतेषु' अनन्तरोक्तरूपेसु 'स्थानेषु' असंयमादिषु यो भिक्षुः 'यतते' उक्तन्यायेन यत्नवान् भवति सदा क्षिप्रं स सर्वसंसाराद्विप्रमुच्यते पण्डित इति सूत्रार्थः ।। 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् । अवसितश्चानुयोगे, नयाश्च प्राग्वत् ।। अध्ययनं ३१ समाप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे एकत्रिंशत्तमध्ययनं सनियुक्तिः सटीकं समाप्तम् (अध्ययनं-३२-प्रमादस्थानं वृ.व्याख्यातं चरणविधिनामकमेकत्रिंशमध्ययनम्, इदानी द्वात्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने नैकधा चरणभिहितं, तच्च प्रमादस्थानपरिहारत एवासेवितुं शक्यं, तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चत्वार्यनुयोगद्वाराणि यावन्नामनिष्पन्ननिक्षेपस्तावत्पूर्ववदेवेति मनास्याधाय नामनिष्पन्ननिक्षेपाभिधानायाह नियुक्तिकृत् नि. [५२३] निक्खेवो अपमाए चउव्वि०॥ नि. [५२४] जाणगसरीरभविए तव्वइरिते अ मज्जमाईसु। निद्दाविकहकसाया विसएसु भावओ पमाओ॥ नि. [५२५] नामं ठवणादविए खित्तद्धा उड्ड उवरई वसही। संजमपग्गहजोहे अयलगणणसंधणा भावे॥ वृ. निक्खेवेत्यादिगाथास्तिस्त्रः सुगमा एव, नवरं 'मज्जमाईसुत्ति मकारोऽलाक्षणिको मदयतीति मद्यं-काष्ठपिष्टनिष्पन्नमादिशब्दादासवादिपरिग्रह: एतानि, सुब्ब्यत्ययाच्च प्रथमार्थे सप्तमी, भावप्रमादहेतुत्वाद्रव्यप्रमादः, 'निद्राविकथाकषायाः' उक्तरूपाः "विसएस'त्ति प्राग्वद्विषयाश्च भावतः' भावमाश्रित्य प्रमादः। तथा स्थाननिक्षेपे प्रस्तावात्स्थानशब्दो नामादिभिः प्रत्येकं योज्यते, तत्र च द्रव्यस्थानंनोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यत्सचित्तादिद्रव्याणामाश्रयः, क्षेत्रस्थानं-भरतादिक्षेत्रमूर्ध्वलोकादि वा यत्र क्षेत्रे स्थानं विचार्यते, अद्धाकालः सैव तिष्ठत्यस्मिन्निति स्थानमद्धास्थानं तच्च पृथिव्यादीनां भवस्थित्यादि समयावलिकादि वा, ऊध्वस्थानं-कायोत्सर्गादि उपरतिः-विरतिस्तत्स्थानं यत्रासौ गृह्यते, वसतिः-उपाश्रयस्तत्स्थानं ग्रामारामादि संयमःसामायिकदिस्तस्य स्थानं-प्रकर्षापकर्षवदध्यवसायरूपं, यत्र संयमस्यावस्थानं, तच्चासंङ्खयेयभेदभिन्नं, तथाहि समायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकानां प्रत्येकमसङ्ख्येयलोकाशप्रदेशपरिमाणानि संयमस्थानानि, सूक्ष्मसम्परायसंयमस्त्वान्तमौहूर्तिक इत्यन्तमुहूर्तसमयपरिमाणानि तत्स्थानानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy