Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 175
________________ १७२ उत्तराध्ययन- मूलसूत्रम् - २ - २९ / ११८५ पढमे निद्दं पयलं नामस्स इमाओ पयडीओ ॥१॥ देवगति आनुपुवी विउव्वि संघयण पढमवज्जाई । अन्नयरं संठाणं तित्थयराहारणामं च ॥ २॥ " चरमसमये तु यत्क्षपयति तत्सूत्रकृदाह - पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधमन्तरायम्, 'एए'त्ति लिङ्गव्यत्ययादेतानि 'त्रीण्यपि' वक्ष्यमाणरूपाणि 'कम्मंसे' त्ति सत्कर्माणि 'युगपत्' एककालं क्षपयति, स्थापना चेयम् । 'तत:' इति क्षपणातः 'पश्चाद्' अनन्तरं नास्योत्तरं प्रधानमन्यत् ज्ञानमस्तीत्यनुत्तरम्, 'अनन्तम्' अविनाशितया विषयानन्ततया च 'कृत्स्नं' कृत्स्नवस्तुविषयत्वात्, 'परिपूर्णं' सकलस्वपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् 'निरावरणम्' अशेषावरणविगमात् 'वितिमिरं' तत्र सति क्वचिदप्यज्ञानतिमिराभावात् 'विशुद्धं' सकलदोषविगमात् 'लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात्, पाठान्तरतश्च- 'लोकालोकस्वभावं' संक्रान्तलोकालोकसकलस्वरूपत्वात् केवलम् असहायं वरं शेषज्ञानापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं ततः केवलवरशब्दाभ्यां विशेषणसमासे केवलवरज्ञानदर्शनं 'समुत्पादयति' जनयत्मात्मन इति गम्यते, स च यावत्, 'सयोगी' मनोवाक्कायव्यापारवान् भवति तावच्च किमित्याह - ईरणमीर्यागतिस्तस्याः पन्था यदाश्रिता सा भवति तस्मिन् भवमध्यात्मादित्वाट्ठकि ऐर्यापथिकम् उपलक्षणं च पथिग्रहणं . तिष्ठतोऽपि सयोगस्येर्यासम्भवात्, संभवन्ति हि सयोगितायां केवलिनोऽपि सूक्ष्मा गात्रसञ्चाराः, यत आह "केवली णं भंते! अस्सि जेसु आगासपएसेसु हत्थं वा पायं वा ओगाहित्ताणं साहरिज्जा पभू णं भंते ! केवली तेसु चेवागासपएसेसु पडिसाहरित्तए ? नो इणमट्ठे समट्ठे, केवलिस्स णं चलाई सरीरोवगरणाई हवंति, चलोवगरणत्ताए केवली नो संचाएति तेसं चेवागासपएसेसं हत्थं वा पायं वा पडिसाहरितए" तदेवं पथिस्थस्तिष्ठच्चैर्यापथिकं कर्म बन्धाति, तच्च त्याह- सुखयतीति सुखः स्पर्शः - आत्मप्रदेशैः सह संश्लेषो यस्य तत्सुखस्पर्श द्वौ समयौ यस्याः सा द्विसमया तथाविधा स्थितिरस्येति द्विसमयस्थितिकं, द्विसमयस्थितिकत्वमेव भावयितुमाहतत् प्रथमसमये बद्धम् - आत्मसात्कृतं स्पर्शाविनाभावित्वाच्चास्य स्पृष्टंच, द्वितीयसमये वेदितम्-अनुभूतमुदयान्यथानुपपत्त्या चास्योदितं च, तृतीयसमये निर्जीर्णं परिशटितं, तदुत्तरकालस्थितेः कषायहेतुत्वात्, उक्तं हि - "जोगा पर्याडपएसं ठितिअनुभागं कसायओ कुणति "त्ति, द्विसमयस्थितिकबन्धस्य तु योगसम्भवेऽवश्यम्भावित्वादिहाभिधानं तदवश्यम्भाविता तु "नो कम्मेहि विवरीयं जोगदव्वेहि भवति जीवस्स । तस्सावत्थाणे ननु सिद्धो दुसमयठितिबंधो ॥" इति युक्तितोऽवसेया, अतश्च तद्वद्धं - जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् तथा स्पृष्टं मसृणमणिकुड्यपतितस्थूलशिलाशकलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदीरितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात्, 'वेदितं' तत्फलसुखानुभवनेन 'निर्जीर्णं' क्षयमुपागतं 'सेयाले य'त्ति सूत्रत्वाद् 'एष्यत्काले' चतुर्थसमयादावकर्म For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316