________________
१७२
उत्तराध्ययन- मूलसूत्रम् - २ - २९ / ११८५ पढमे निद्दं पयलं नामस्स इमाओ पयडीओ ॥१॥ देवगति आनुपुवी विउव्वि संघयण पढमवज्जाई । अन्नयरं संठाणं तित्थयराहारणामं च ॥ २॥ "
चरमसमये तु यत्क्षपयति तत्सूत्रकृदाह - पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधमन्तरायम्, 'एए'त्ति लिङ्गव्यत्ययादेतानि 'त्रीण्यपि' वक्ष्यमाणरूपाणि 'कम्मंसे' त्ति सत्कर्माणि 'युगपत्' एककालं क्षपयति, स्थापना चेयम् ।
'तत:' इति क्षपणातः 'पश्चाद्' अनन्तरं नास्योत्तरं प्रधानमन्यत् ज्ञानमस्तीत्यनुत्तरम्, 'अनन्तम्' अविनाशितया विषयानन्ततया च 'कृत्स्नं' कृत्स्नवस्तुविषयत्वात्, 'परिपूर्णं' सकलस्वपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् 'निरावरणम्' अशेषावरणविगमात् 'वितिमिरं' तत्र सति क्वचिदप्यज्ञानतिमिराभावात् 'विशुद्धं' सकलदोषविगमात् 'लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात्, पाठान्तरतश्च- 'लोकालोकस्वभावं' संक्रान्तलोकालोकसकलस्वरूपत्वात् केवलम् असहायं वरं शेषज्ञानापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं ततः केवलवरशब्दाभ्यां विशेषणसमासे केवलवरज्ञानदर्शनं 'समुत्पादयति' जनयत्मात्मन इति गम्यते, स च यावत्, 'सयोगी' मनोवाक्कायव्यापारवान् भवति तावच्च किमित्याह - ईरणमीर्यागतिस्तस्याः पन्था यदाश्रिता सा भवति तस्मिन् भवमध्यात्मादित्वाट्ठकि ऐर्यापथिकम् उपलक्षणं च पथिग्रहणं . तिष्ठतोऽपि सयोगस्येर्यासम्भवात्, संभवन्ति हि सयोगितायां केवलिनोऽपि सूक्ष्मा गात्रसञ्चाराः,
यत आह
"केवली णं भंते! अस्सि जेसु आगासपएसेसु हत्थं वा पायं वा ओगाहित्ताणं साहरिज्जा पभू णं भंते ! केवली तेसु चेवागासपएसेसु पडिसाहरित्तए ? नो इणमट्ठे समट्ठे, केवलिस्स णं चलाई सरीरोवगरणाई हवंति, चलोवगरणत्ताए केवली नो संचाएति तेसं चेवागासपएसेसं हत्थं वा पायं वा पडिसाहरितए" तदेवं पथिस्थस्तिष्ठच्चैर्यापथिकं कर्म बन्धाति, तच्च त्याह- सुखयतीति सुखः स्पर्शः - आत्मप्रदेशैः सह संश्लेषो यस्य तत्सुखस्पर्श द्वौ समयौ यस्याः सा द्विसमया तथाविधा स्थितिरस्येति द्विसमयस्थितिकं, द्विसमयस्थितिकत्वमेव भावयितुमाहतत् प्रथमसमये बद्धम् - आत्मसात्कृतं स्पर्शाविनाभावित्वाच्चास्य स्पृष्टंच, द्वितीयसमये वेदितम्-अनुभूतमुदयान्यथानुपपत्त्या चास्योदितं च, तृतीयसमये निर्जीर्णं परिशटितं, तदुत्तरकालस्थितेः कषायहेतुत्वात्, उक्तं हि - "जोगा पर्याडपएसं ठितिअनुभागं कसायओ कुणति "त्ति, द्विसमयस्थितिकबन्धस्य तु योगसम्भवेऽवश्यम्भावित्वादिहाभिधानं तदवश्यम्भाविता तु
"नो कम्मेहि विवरीयं जोगदव्वेहि भवति जीवस्स । तस्सावत्थाणे ननु सिद्धो दुसमयठितिबंधो ॥" इति
युक्तितोऽवसेया, अतश्च तद्वद्धं - जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् तथा स्पृष्टं मसृणमणिकुड्यपतितस्थूलशिलाशकलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदीरितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात्, 'वेदितं' तत्फलसुखानुभवनेन 'निर्जीर्णं' क्षयमुपागतं 'सेयाले य'त्ति सूत्रत्वाद् 'एष्यत्काले' चतुर्थसमयादावकर्म
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org