SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २९, [नि. ५१३ ] चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात्, एतच्चैवंविधविशेषणान्वितं सातकर्मैवासौ बन्धाति, यत उक्तम् 412 'अप्पं बायर मउयं बहुं च रुक्खं च सुक्किलं चेव । मंद महव्वयंति य सायाबहुलं च तं कम्मं ॥" मू. ( ११८६ ) अहाउयं पालइत्ता अंतोमुहुत्तद्धावसेसाए जोगनिरोहं करेमानो सुहुमकिरिय अप्पडिवाई सुक्कज्झाणं झायमाणे तप्पढमयाएमणजोगं निरंभइ वयजोगं निरंभइ आणापाननिरोहं करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं अनगारे समुच्छिन्नकिरियं अनियट्टिसुक्कज्झाणं झियायमानो वेयनिज्जं आउयं नामं गुत्तं च एए चत्तारिवि कम्मंसे जुगवं खवेइ || वृ. अयं च देशोनपूर्वकोटीमन्तर्मुहूर्त्तादिप्रमाणं वा कालं विहृत्य यथा शैलेशीमवाप्याकर्मतां लभते तथा दर्शयन् शैलेश्यकर्मताद्वारमर्थतो व्याचिख्यासुराह-'अथे 'ति केवलावाप्त्यनन्तरम् 'आयुष्कं जीवितमन्तर्मुहूर्त्तादिपरिमाणं पालयित्वा अन्तर्मुहूर्तपरिमाणाऽद्धा- कालोऽन्तर्मुहूर्त्ताद्धा साऽवशेषम्-उद्धरितं यस्मिंस्तदन्तर्मुहूर्त्ताद्धावशेषं तथाविधमायुरस्येत्यन्तमुहूर्ताद्धावशेषायुष्कः सन् पाठान्तरतश्चान्तर्मुहूर्त्तावशेषायुष्कः, पठन्ति च - 'अंतोमुहुत्तअद्धावसेसाए'त्ति प्राकृतत्वादन्तर्मुहूर्त्ताशेषाद्धायां 'योगनिरोहं करेमाणे 'त्ति योगनिरोधं करिष्यमाणः सूक्ष्मा क्रिया- व्यापारो यस्मिंस्तत्सूक्ष्मक्रियमप्रतिपतनशीलमप्रतिपाति अध: पतनाभावात्, शुक्लं ध्यानं 'समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्त' इति शुक्लध्यानतृतीयभेदं ध्यायन् 'तत्प्रथमतया' तदाद्यतया मनसो योगो मनोयोगः - मनोद्रव्यसाचिव्यजनितो व्यापारस्तं निरुणद्धि, तत्र च पर्याप्तमात्रस्य सञ्ज्ञिनो जघन्ययोगिनो यावन्ति मनोद्रव्याणि तज्जनितश्च यावद्यापारस्तदसङ्ख्यगुणविहीनानि मनोद्रव्याणितद्यापारं च प्रतिसमयं निरुन्धन्नसंख्येयसमयैस्तत्सर्वनिरोधं करोति, यत उक्तम् "पज्जत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होंति मनोदव्वाईं तव्वावारो य जम्मेत्तो ॥ १ ॥ तयसंखगुणविहीणे समए समए निरुंभमानो सो । मनसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ||२||" १७३ तदनन्तरं च वाचो वाचि वा योगो भाषाद्रव्यसाचिव्यजनितो जीवव्यापारस्तन्निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्येयगुणविहीनांस्तत्पर्यायान् समये समये निरुन्धन्नसंख्येयसमयैः सर्ववाग्योगं निरुणद्धि, यत उक्तम् - "पज्जत्तमित्तबिंदिय जहन्नवइजोगपज्जवा जे उ । तदसंखगुणविहीणं समए समए निरंभंतो || ३ || सव्ववइजोगरोहं संखाईएहि कुणइ समएहिं ।" 'आनापाणुनिरोह'ति आनापानौउच्छ्वासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत्, तं च कुर्वन् प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतोऽसङ्ख्येयगुणहीनं काययोगेनैकैकसमये निरुन्धन् देहत्रिभागं च मुञ्चनसङ्ख्येयसमयैरेव सर्वं निरणद्धि, यत उक्तं च "तत्तो य सुहुमपणयस्स पढमसमओववन्नस्स ||४|| For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy