SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २९, [ नि. ५१३] १७१ अट्ठविहस्स कम्मस्स कम्मगंठिविमोयणयाइ, तप्पढमयाए जहाणुपुव्विं अट्ठावीसइविहं मोहनिज्जं कम्मं उग्घाएइ, पंचविहं नाणावरनिज्जं नवविहं दंसणावरनिज्जं पंचविहं अंतरायं, एए तिनि कम्मसे जुगवं खवेइ, तओ पच्छा अनुत्तरं अनंतं कसिणं पडिपुत्रं निरावणं वितिमिरं विसुद्धं लोगालोगप्पभासगं केवलवरनाणदंसणं समुप्पाडेइ जाव सजोगी हवइ ताव य इरियावहियं कम्मं निबंधइ - सुहफरिसं दुसमयद्विईयं, तं पढमसमए बद्धं बिइयसमए वेइयं तईयसमए निज्जन्नं, तं बद्धं पुढं उदीरियं वेइयं निज्जन्निं, सेयाले अकम्मं चावि भवइ ॥ वृ. एतज्जयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विनाऽतः स उच्यते- 'पिज्ज'त्ति प्रेम राग इत्यर्थः स च द्वेषश्च-अप्रीतिरूपो मिथ्यादर्शनं च-सांशयिकादि प्रेमद्वेषमिथ्यादर्शनानि तद्विजयेन 'नाणदंसणचरित्ताराहणयाए 'त्ति ज्ञानदर्शनचारित्राराधनायाम् 'अभ्युत्तिष्ठते' उद्यच्छति प्रेमादिनिमित्तत्वात्तद्विराधनायाः, ततश्चाष्टविधस्य कर्मणो मध्य इति गम्यते, 'कम्मगंठिविमोयणयाए'त्ति कर्मग्रन्थिः- अतिदुर्भेदघातिकर्मरूपतस्य विमोचना - क्षपणा कर्मग्रन्थिविमोचना तस्यैच, चस्य गम्यमानत्वात्तदर्थं चाभ्युत्तिष्ठते इत्यनुवर्त्य योज्यते, पठन्ति च-'अट्ठविहकम्मविमोयणा' त्ति स्पष्टम्, अभ्युत्थाय च किं करोतीत्याह- 'तत्प्रथमतया' तत्पूर्वतया, न हि तेन तत्पुरा क्षपितमासीदिति, आनुपूर्व्या अनतिक्रमेण यथानुपूर्वीम (विअ)ष्टाविंशतिविधं मोहनीयं कर्म ' उद्घातयति' क्षपयति, अत्र चेयं क्षपणानुपूर्वि प्रथममनन्तानुबन्धिनः क्रोधादीन् युगपदन्तर्मुहूर्तेन क्षपयति, तदनन्तभागं च मिथ्यात्वे प्रक्षिपति, ततस्तेन सहैव मिथ्यात्वं क्षपयति, प्रवर्द्धमानातितीव्रशुभपरिणामत्वात्, अतिसंभृतदवानल इवार्द्धदग्धेन्धन इन्धनान्तरं, ततो मिथ्यात्वांशं सम्यग्मिथ्यात्वे प्रक्षिप्त तत्क्षपयति, ततोऽपि तदंशसहितं सम्यक्त्वं, तदनु सम्यक्त्वावशिष्टदलिकसहितमप्रत्याख्यानप्रत्यख्यानावरणकषायाष्टकं युगपदेव क्षपिततुमारभते, तत्क्षपणं च कुर्वनेता: प्रकृतिः क्षपयति, तद्यथा "गइआनुपुव्वि दो दो जाईणामं च जाव चउरिंदी । आयावं उज्जीवं थावरनामं च सुहुमं च ॥ १ ॥ साहारमपज्जत्तं निद्दानिद्दं च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जं च अट्ठण्हं ॥ २ ॥ " - ततोऽपि किञ्चित्सावशेषं नपुंसकवेदमध्ये प्रक्षिप्य तत्समन्वितं क्षपयति, एवं तदुद्धरितसहितं स्त्रीवेदं, तदवशिष्टान्वितं च हास्यादिषट्कं, तदंशसहितं च पुरुषवेदखण्डद्वयं यदि पुरुष: प्रतिपत्ता, अथ स्त्री नपुंसकं वा ततः स्वस्ववेदखण्डद्वयं, ततः क्षिप्यमाणवेदतृतीयखण्डसहितं संज्वलनकोपं क्षपयति, एवं पूर्वपूर्वाशसहितमुत्तरोत्तरं क्षपयति यावत् संज्वलनलोभः, तत्तृतीयखण्डं तु सङ्ख्येयानि खण्डानि कृत्वा पृथक्कालभेदेन क्षपयति, तत्र च तत्क्षपणाकाल: प्रत्येकं सर्वत्र चान्तर्मुहूर्त्तमेव, इत्थं चैतदर्न्तर्मुहूर्त्तस्या सङ्ख्यभेदत्वात्, ततस्तच्चरमखण्डपि पुनरसङ्ख्येयसूक्ष्मखण्डानि कृत्वा तथैव क्षपयति, एवं च मोहनीय क्षपयित्वाऽन्तर्मुहूर्त्तं यथाख्यातचारित्रमनुभवंश्छद्मस्थवीतरागताद्विचरमसमययोः प्रथमसमये निद्राप्रचले नाम प्रकृतीश्च देवगत्याद्याः क्षयपति, यत उक्तम् "वीसमिऊण नियंठो दोहि उ समएहि केवले सेसे। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy