________________
१७०
उत्तराध्ययन-मूलसूत्रम्-२-२९/११७५ अशैलेशस्य वा शैलेशीभवनं शैलेशीभावः, इत्यादिरनेकधा व्युत्पत्तिः, उक्तं हि
"सेलेसो किर मेरू सेलेसी होइ तहाऽचलया। होउं व असेलेसो सेलीसी होइ थिरयाए ।।१।। अहवा सेलोव्व इसी सेलेसी होइ सो हु थिरयाते। सेव असेली होई सेलीसी होअलोवाओ॥२॥ सीलं व समाहाणं निच्छयतो सव्वसंवरो सो य।
तस्सेसो सीलेसो सेलेसी होइ तयवत्था ॥३॥" तमेवंविधं शैलेशीभावं जनयति, तज्जननाच्च शैलेशीप्रतिपन्नो 'विहरति' आस्तेऽन्तर्मुहूर्त्तमिति शेषः, पठन्ति च-'सेलेसी पडिपन्ने अनगारे चत्तारि केवलिकम्मंसे खवेति, ततो पच्छा सिज्झति बुज्झइ' इत्यादि प्राग्वत्।
मू. (११७६ ) सोइंदियनिग्गहेणं भंते०?, मणुनामणुनेसु सद्देसु रागद्दोसनिग्गहं जणेइ तप्पच्चइयं च णं कम्मं न बंधइ पुव्वबद्धं न निज्जरेइ॥
वृ. चरित्रं चेन्द्रियनिग्रहादेव जायत इति प्रत्येकं तन्निग्रहमाह-श्रोत्रेन्द्रियस्य निग्रहःस्वविषयाभिमुखनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु' अभिमतेतरेषुशब्देषु यथाक्रम रागद्वेषयोनिग्रहो रागद्वेषनिग्रहस्तं जनयति, तथा च तत्प्रत्यिकं-रागद्वेषनिमित्तं कर्म न बन्धाति पूर्वबद्धं च निर्जरयति, तन्निग्रहे शुभाध्यवसायप्रवृत्तेरिति भावः। मू.(११७७)
एवं चक्खिदिय० मू.(११७८)
घाणिदिय०॥ मू.(११७९)
जिभिदिय० ॥ मू.(१९८०)
फासिंदिय० ॥ वृ.एवं चतक्षुरिन्द्रियनिग्रहेण, घ्राणेन्द्रियनिग्रहेण, जिह्वेन्द्रियनिग्रहेण, स्पर्शनेन्द्रियनिग्रहेण च इदमेव वाच्यं, नवरं चतक्षुरिन्द्रियेष्वित्युपचाराच्चतक्षुरिन्द्रियग्राह्येषु रूपेष्विति योऽर्थः, यथाप्रधानं चात्रेन्द्रियनिर्देशः, प्राधान्यं च पाटवाद्यपेक्षमिति भावनीयम्।
मू.(११८१)कोहविजएणं भंते?, खंतिंजणेइ कोहवेयनिजंकम्मनबंधइ पुवनिबद्धं चनिज्जरेइ॥
वृ. एतन्निग्रहोऽपि कषायविजयाद्भवत्यतः क्रमेण तद्विजयमाह-तत्र क्रोधस्य विजयोदुरन्तादिपरिभावेनोदयनिरोधः क्रोधविजयस्तेन क्रोधेन-कोपाध्यवसायेन वेद्यत इति क्रोधवेदनीयं-तद्धेतभूतपुद्गल रूपं कर्म न बन्धाति "जं वेएइ तं बंधइ"त्ति वचनात्, तथा पूर्वबद्धं प्रक्रमात्तदेव निर्जरयति, तत एव विशिष्टजीवविर्योल्लासात् । मू.(११८२)
एवं मानविज० मद्दवं॥ मू.(११८३)
माया० अज्जवं॥ मू.(११८४)
लोभ० संतोसं॥ वृ. एवं मानविजयेन, मायाविजयेन, लोभविजयेन, चाभिधेयम्। मू. (११८५)पिज्जदोसमिच्छादसणविजएणं भंते०? नाणदंसणचरित्ताराहणयाए अब्भु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org