________________
अध्ययनं-२९,[नि.५१३]
१६९ सर्वथा ह्यसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित्सदेव यथाख्यातचारित्रं चारित्रमोहोहोदय-- मलिनितं तन्निर्जरणेन निर्मलीकुरुते, यथाख्यातचारित्रं विशोध्य चत्वारीत्यादि सर्वं प्राग्वत्।
मू. (११७२) नाणसंपन्नयाए णं भंते ?, सव्वभावाभिगमंजणेइ. नाणसंपन्ने णं जीवे संसारकंतारे न विनस्सई ।। नाणविनयतवचरित्तजोगे संपाउणइ, ससमयपरसमयविसारए य असंघायनिज्जे भवइ॥ मू.(११७३) 'जहा सूई ससुत्ता, पडिया न विनस्सई।
. तहा जीवे ससुत्ते, संसारे न विनस्सई। वृ. एवं समाधारणात्रयाद्यथाक्रमं ज्ञानादित्रयस्य शुद्धिरुक्ता, फलं पुनरस्य किमित्याशङ्कायां यथाक्रममेतत्फलमाह-ज्ञानमिह प्रस्तावत् श्रुतज्ञानं तत्संपन्नतया जीवः सर्वभावानाम्अशेषजीवादिपदार्थानामभिगमो-ज्ञानं सर्वभावाभिगमस्तं जनयति, तथा सं(तत्सं)पन्नो जीवः 'चाउरते'त्ति उक्तनीतितश्चतुरन्तसंसारकान्तारे नैव 'विनश्यति' इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवार्थं दृष्टान्तद्वारेण स्पष्टनरमाह
यथा 'सूचि' प्रतीता ससूत्रा सुप्रापतया 'न विनश्यति' कचवरादिपतिताऽपि न विशेषेण दूरीभवति तथा जीवः सह सूत्रेण-श्रुतेन वर्तत इति ससूत्रः संसारे न विनश्यति, उक्तं च
"सूई जहा ससुत्ता न नस्सई कयवरंमि पडियावि।
जीवो तहा ससुत्तो न नस्सइ गओवि संसारे।।" तत एव ज्ञानं च-अवध्यादि विनयश्च-ज्ञानविनयादिः तपश्च-वक्ष्यमाणं चारित्रयोगाःचारित्रप्रधाना व्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान् प्राप्नोति, तथा स्वसमयपरसमययोः संघातनीवः-प्रमाणपुरुपतया मीलनीयः स्वसमयपरसमयसंघातनीयो भवति, इह च स्वसमयपरसमयशब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव संशयादिव्यवच्छेदाय मीलनसंभवात् ।
मू.(११७४ ) दंसणसंपन्नयाए णं भंते?, भवमिच्छत्तछेयणं करेइ परं न विज्झायइ, अनुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरइ॥ .
वृ.'दर्शनसंपन्नतया' क्षायोपशमिकसम्यक्त्वसमन्वितया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य छेदन-क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः?-क्षायिकसम्यक्त्वमवाप्नोति, ततश्च परमिति-उत्तरकालमुत्कृष्टतस्तस्मिन्नेव भवे मध्यमजधन्यापेक्षया तृतीये तुर्ये वा जन्मन्तुत्तरश्रेण्यारोहणेन केवलज्ञानावाप्तौ 'न विध्यायति' न ज्ञानदर्शनप्रकाशभावारूपं विध्यानमवाप्नोति, किन्तु 'अनुत्तरेण' क्षायिकत्वात्प्रधानेन ज्ञानं च दर्शनं च ज्ञानदर्शनं तेन 'आत्मानं' स्वं 'संयोजयन्' प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् 'संयोजन च भेदेऽपि स्यादत आह-(सम्म सम्यक्) भावयन्' तेनात्मानमात्मसान्नयन् ‘विहरति' भवस्थकेवलितया मुक्ततया वाऽऽस्ते, पठन्ति च-"अनुत्तरेणं नानदंसणेणं विहरइ'त्ति।।
मू.(११७५) चरित्तसंपन्नयाए णं भंते?, सेलेसीभावं जणेइ, सेलेसि पडिवने अनगारे चत्तारिकम्मंसे खवेइ, तओ पच्छा सिज्झइ० ।।
वृ.चरित्रसंपन्नतया 'शैलेशीभावं'ति शिलानामिमे शैलः-पर्वतास्तेषामीशः शैलेशो-मेरुः स इव शैलेशो-मुनिर्रिरुद्धयोगतयाऽत्यन्तस्थैर्येण तस्येयमवस्था-शैलेशी तस्या भावः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org