________________
१६८
उत्तराध्ययन-मूलसूत्रम्-२-२९/११६७ वृ. 'वाग्गुप्ततया' कुशलवागुदीरणरूपया 'निर्विकारं' विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्त इति, प्रवीचाराप्रवीचारारूपत्वेन द्विविधत्वात्तद्गुप्तेः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिसमन्वितः सन्नध्यात्म-मनस्तस्य योगा-व्यापारा धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाग् भवेदिति भावः, अन्ये तु 'निव्वियारे णं जीवे वयगुत्तयं जनयति' इत्येतावदेव पठन्ति, तच्च स्पष्टमेव।
मू.(११६८) कायगुत्तयाए णं भंते?, संवरंजणयइ, संवरेणं कायगुत्ते णं पुनो पावासव- . निरोहं करेइ॥
वृ.'कायगुप्तः'शुभयोगप्रवृत्त्यात्मककायगुप्तिमान् 'संवरम्' अशुभयोगनिरोधरूपं जनयति, संवरेण गम्यमानत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापार: पापस्य 'पावे कम्मे वेरे' इत्यादिवचनात्कर्मण आश्रवा-उपादानहेतवो हिंसादयः पापाश्रवास्तन्निरोधं करोति, तात्त्विक्या अस्या एतत्फलत्वेन सुप्रतीतत्वात्।
मू.(११६९)मनसमाधारणयाए णं भंते?, एगग्गं जणेइ, एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपजज्जजवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं च निज्जरेइ ।।
वृ.इतश्च गुप्तित्रयाद्यथाक्रमं मनःसमाधारणादिसम्भव इति तदाह-तत्र 'मनसमाहारणयाए'त्ति मनसः समिति-सम्यग् आडिति-मर्यादयाऽऽगमाभिहितभावाभिव्याप्त्याऽवधारणा-व्यवस्थापनं मनःसमाधारणा तया एकाग्रयम्' उक्तरूपं जनयति, एकाग्रयं जनयित्वा'ज्ञानपर्यवान्' विशिष्टतरवस्तुतत्त्वावबोधरूपान् जनयति, ज्ञानपर्यवान् जनयित्वा सम्यक्त्वं विशोधयति, विशुद्धत्वं चास्य वस्तुतत्त्वावगमे तद्विषया रुचिरपि शुद्धतरैव संभवतीतिकृत्या, अत एव च मिथ्यात्वं च निर्जरयति।
मू.(११७०)वयसमाहारणयाए णं भंते?, वयसाहारणं दंसणपज्जवे विसोहेइ, वइसाहारणं दंसणपज्जवे विसोहित्ता सुलहबोहियत्तं च निव्वत्तेइ दुलहबोहियत्तं निज्जरेइ ।।
वृ. 'वइसमाहारणयाए'त्ति 'वाक्समाधारणया' स्वाध्याय एव वाग्निवेशनात्मिकया वाचा सधारणा वाक्समाधारणा, येन ते वचसोऽपि विषयाः, प्रज्ञापनीया इत्यर्थः, तेषामेवान्यथात्वसम्भवेन विशेषणसाफल्यात्, इह च तद्विषया दर्शनपर्यवा अप्युपचारतस्तथोक्तास्ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च-सम्यक्त्वभेदरूपा वाक्साधारणदर्शनपर्यवास्तान् विशोधयति, 'दविए दंसणसोधी' इति वचनाद्रव्यानुयोगाभ्यासतस्तद्विषयाशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, वाक् साधारणदर्शनपर्यवान्, विशोध्य सुलभबोधिकत्वं निवर्तयति, तत एव दुर्लभबोधिकत्वं निर्जरयति।
मू. (११७१)कायसमाधारणयाए णं भंते?, चरित्तपज्जवे विसोहेइ, विसोहित्ता अह- . क्खायचरितं विसोहेइ त्ता चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ।
वृ.'कायसमाहारणयाए'त्ति 'कायसमाधारणया' संयमयोगेषु शरीरस्य सम्यग्व्यवस्थापनरूपया चरित्रपर्यवान्' चारित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तदुन्मार्गप्रवृत्तित एव प्रायस्तेषामतीचारकालुष्यसम्भवात्, चरित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org