________________
अध्ययनं-२९,[ नि.५१३]
१६७ वृ.एवंगुणस्यापि न विनयं विना समग्रफलावाप्तिः, सच मार्दवादेवेति तदाह-'मद्दवयाए'त्ति मार्दवेन गम्यमानत्वादभ्यस्यमानेन 'मिउमद्दवसंपन्ने'त्ति मृदुः-द्रव्यतो भावतश्चावनमनशीलस्तस्य मार्दवं यत्सदा मार्दवोपेतस्यैव भवति तेन संपन्न:-तदभ्यासात्सदा मृदुस्वभावो मृदुमार्दवसंपन्नः सन् 'अष्टौ मदस्थानानि' जातिकुलबलरूपतपऐश्वर्यश्रुतलाभावलेपरूपाणि, उक्तं हि-"जातीकुलबलरूवे तवईसरिएसुएलाभे'त्ति, 'निष्ठापयति' विनाशयति, पठन्ति च"मद्दवयाए णं जीवे अनुस्सियत्तं जनेति, अनुस्सिए णं जीवे मिउमद्दवसंपन्ने अट्ठ मयट्ठानाणि निट्ठवेति' अत्र चानुत्सिक्तत्वम्-अनुद्धतत्वमन्यत्प्राग्वत्।
मू.(११६३) भावसच्चेणं भंते०, भावविसोहिंजणेइ, भावविसोहीए वट्टमाणे अरहंतपन्नतस्स धम्मस्स आराहणयाए अन्भुढेइ, अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अन्भुद्वित्ता परलोगधम्मस्स आराहए भवइ॥
वृ. एतदपि तत्त्वतः सत्यव्यवस्थितस्यैव भवति, तत्रापि च भावसत्यं प्रधानमिति तदाह'भावसत्येन' शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेन भावविशुद्धि' विशुद्धाध्यवसायात्मिकां जनयति, भावविशुद्धौ वर्तमानो जीवोऽर्हत्प्रज्ञप्तस्य धर्मस्य 'आराहणयाए'त्ति 'आराधनया' अनुष्ठानेन अभ्युत्तिष्ठते' मुक्त्यर्थमुत्सहते, यदिवाऽऽराधनायै-आवर्जनार्थमभ्युत्तिष्ठति, अर्हत्प्रज्ञप्तस्य धर्मस्याराधनयाऽऽराधनायै वाऽभ्युत्थाय परलोके-भवान्तरूपे धर्मः परलोकधर्मस्तस्य, पाठान्तरतः परलोके वाऽऽराधको भवति, प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः।
मू. (११६४ ) करणसच्चेणं भंते ?, करणसत्तिं जणेइ, करणसच्चे वट्टमाणे जहावाई तहाकारी भवइ ।
वृ.भावसत्येन करणसत्यं संभवतीति तदाह-करणेसत्यं करणसत्यं यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते तेन करणशक्तिं तन्माहात्म्यात् पुराऽनध्यवसितक्रियासामर्थ्यरूपां जनयति, तथा करणसत्यें वर्तमानो जीवो यथावादी तथाकारी चापि भवति, स हि सूत्रमधीयानो यथैव क्रियाकालपवदनशीलः करणशीलोऽपि तथैवेति।
मू.(११६५) जोगसच्चेणं भंते ! णं जीवे?, जोगेविसोहेइ॥
वृ.एवविधस्यैव योगसत्यमपि भवतीति तदाह-योगा-मनोवाक्कायास्तेषां सत्यम्-अवितथत्वं योगसत्यं तेन योगान् ‘विशोधयति' क्लिष्टकर्मबन्धकत्वाभावतो निर्दोषान् करोति ।
मू.(११६६) मनगुत्तयाए णं भंते? एगग्गंजणेइ, एगग्गचित्तेणं मनगुत्ते संजमाराहए भवइ॥
वृ. एतच्च सत्यं गुप्त्यन्वितस्यैव भवत्यतो यथाक्रमं तदभिधानं, तत्र च 'मनोगुप्ततया' मनोगुप्तिरूपया जीवः 'एकाग्र्यं' प्रस्तावाद्धमॆकतानिचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो गुप्तम्-अशुभाध्यवसायेषु गच्छद्रक्षितुं मनो येनासौ गुप्तमनाः सन्, निष्ठान्तस्य परनिपातः प्राग्वत्, संयमधारको भवति, तत्र मनोनिरोधस्य प्रधानत्वादिति भावः ।
मू. (११६७) वयगुत्तयाए णं भंते?, निम्विकारत्तं जणेइ, निम्विकारेणं जीवे वइगुत्ते जोगे अज्झप्पजोगसाहणजुत्ते यावि भवइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org