Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
१६४
उत्तराध्ययन-मूलसूत्रम्-२-२९/११४९ वीयारायभावं पडिवन्नेऽविय णं जीवे समसुहदुक्खे भवइ ।
वृ.एतच्च प्रत्याख्यानत्रयमपि कषायाभाव एव फलवदिति तत्प्रत्याख्यानमुच्यते-कषायप्रत्याख्यानेन-क्रोधादिविनिवारेन वीतो-विगतो रागो द्वेषविगमाविनाभावित्वात्तद्विगमस्य द्वेषश्चास्येति वीतरागस्तद्भावं जनयति, 'वीतरागभावपडिवो य'त्ति, अपिचेत्यस्य पुनरर्थत्वात्प्रतिपन्नवीतरागभावः पुनर्जीवः समे-रागद्वेषाभावतस्तुल्ये सुखदुःखे यस्य स तथाविधो भवति, रागद्वेषाभ्यां हि तत्र वैषम्यसम्भवः, तदभावे तु समतैवावशिष्यते।
मू.(११५०) जोगपच्चक्खाणेणं भंते!, अजोगयंजणेइ, अजोगी णं जीवे नवं कम्मं न बन्धइ पुव्वबद्धं निज्जरेइ॥
वृ.निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तिसाधक इति तदुच्यते, तत्र योगा-मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन-तन्निरोधलक्षणेन 'अयोगत्वं' वक्ष्यमाणन्यायेनायोगिभावं जनयति, अयोगी जीवः ('नवं' प्रत्यग्रं 'कर्म' सातवेदनीयाद्यपि न बन्धाति तत्कारणयोगाभावत्,) 'पूर्वबद्धम्' इति भवोपग्रहादिकर्मचतुष्टयमन्यस्य तदाऽसंभवात् 'निर्जरयति' क्षपयति ।
मू. (११५१) सरीरपच्चक्खाणेणं भंते०, सिद्धाइसयगुणत्तणं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गभावमुवगए परमसुही भव॥ ...योगप्रत्याख्यानतः शरीरमपि प्रत्याख्यातमेव भवति, तथाऽपितदाधारत्वान्मनोवाग्योगयोस्तत्प्राधान्यख्यापनार्थं तत्प्रत्याख्यानमेवाह, तत्र शरीरम्-औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणो गमकत्वाद्बहुव्रीहिस्तद्भावस्तत्त्वम्, उक्तं हि-"से न किन्हे न नीले न हालिद्दे" इत्यादि निवर्तयति' जनयति, सिद्धातिशयगुणसंपन्नश्च जीवो लोकाग्रभवत्वात् लोकाग्रं-मुक्तिपदम् 'उपगतः' प्राप्तः 'परमसुखी' अतिशयसुखवान् भवति। ।
मू.(११५२)सहायपच्चक्खाणेणं भंते०, एगीभावंजणेइ, एगीभावभूए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आविभवइ॥
वृ.सम्भोगादिप्रत्याख्यानानि च प्राय: सहायप्रत्याख्यान एव सुकराणि भवन्तीति तदुच्यतेसहायाः-साहय्यकारिणो यतयस्तत्प्रत्याख्यानेन-तथाविधयोग्यताभाविनाऽभिग्रहविशेषरूपेण "एकभावम्' एकत्वं जनयति 'एकीभावभूतश्च' एकत्वप्राप्तश्च जीव: एकालम्बनत्वं भावयन्' अभ्यस्यन् 'अप्पझंझ'त्ति अल्पशब्दोऽभाववचनः, ततश्चाल्पझञ्झः-अविद्यमानवाक्कलहस्तथाऽल्पकषायः-अविद्यमानक्रोधादिः 'अप्पतुमंतुमि'त्ति अल्पम्-अविद्यमानं त्वं त्वमिति स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य सतथा, संयमबहुलः संवरबहुल इति प्राग्वद्, अत एव समाहीए यावित्ति'समाहितः' ज्ञानादिसमाधिमांश्चापि भवति।
मू. (११५३) भत्तपच्चक्खाणेणं भंते०, अनेगाइं भवसयाइं निरंभइ॥ वृ. एवंविधश्चान्ते भक्तप्रत्याख्याता भवतीति तत्प्रत्याख्यानमाह-'भक्तप्रत्याख्यानेन' आहारपरित्यागरूपेपा भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, तथाविधदृढाध्यव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316