Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१९२
प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/२/-/५४१
पूर्वकोटित्रिभागरूपाया अबाधायाश्चालभ्यमानत्वात्,
__"तिरियगइनामाएजहानपुंसगवेयस्स' इति, जघन्यतोद्वौ सागरोपमस्य सप्तभागौपल्योपमासङ्घयेयभागहीनौ, उत्कर्षतोविंशतिःसागरोपमकोटीकोट्यइत्यर्थः, मनुष्यगतिनाम्मि 'जहन्नेणं सागरोवमस्स दिवड्डसत्तभागंपलिओवमस्सअसंखेज्जइभागेणऊणगं'तिअत्र भावना स्त्रीवेदवद् भावनीया, 'दिवद्धसत्तभाग'मित्यादौ तु नपुंसकनिर्देशः प्राकृतत्वात्, नरकगतिनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागौ, किमुक्तं भवति ? -सागरोपमस्य द्वौ सप्तभागी सहस्रेण गुणिताविति, तदुत्कृष्टस्थितेर्विशतिसागरोपमकोटाकोटीप्रमाणत्वात्, तबन्धस्य च सर्वजघन्यस्यासंज्ञिपञ्चेन्द्रियस्य भावात्,
असंज्ञिपञ्चेन्द्रियकर्मबन्धस्य च जघन्येनैकेन्द्रियजघन्यकर्मबन्धापेक्षया सहस्रगुणत्वात्, भावयिष्यतेचायमर्थोवैक्रियचिन्तायां, देवगतिनाम्नोजघन्यतःसागरोपमसहस्रस्यैकः सप्तभागः, एकः सागरोपमस्य सप्तभागः सहस्रगुणित इति भावः तस्य हि उत्कृष्टा स्थितिदर्श सागरोपमकोटीकोट्यः, ततः प्रागुक्तकरणवशादेकः सागरोपमस्य सप्तभागो लब्धः, बन्धोऽपि चास्य जघन्यतोऽसंज्ञिपञ्चेनद्रियस्येति सहस्रगुणितः, देवगतिनामसूत्रे 'उक्कोसेणं जहा पुरिसवेयस्स' इति 'दस सागरोवमकोडीओ दसवाससयाई अबाहा, अबाहूणिया कम्मठिई कम्मनिसेगो' इति वक्तव्यमिति भावः,
द्वीन्द्रियजातिनामसूत्रे 'जहन्नेणं नव पणतीसइभागा पलिओवमस्स असंखेज्जइभागेण ऊणगा' इति, द्वीन्द्रियजातिनाम्नो ह्युत्कृष्ट स्थितिरष्टादश सागरोपमकोटीकोट्यः,
'अट्ठारस सुहुमविगलतिगे'त्ति वचनात्, ततोऽष्टादशानां सागरोपमकोटीकोटीनां मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागो हिते, भागश्चनपूर्यते, ततःशून्यं शून्येन पात्यते, जाता उपरि अष्टादश अघस्तात् सप्ततिस्तयोर्द्धनापवर्तनाल्लब्या नव पञ्चत्रिंशद्भागास्ते पल्योपमासङ्ख्येयभागोनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणमिति, एवं त्रिचतुरिन्द्रियजातिनामसूत्रे अपि भावनीये,
वैक्रियशरीरनामसूत्रे जहन्नेणंसागरोवमस्स दोसत्तभागापलिओवमस्सअसंखेजइभागेणं ऊणगा' इति, इह वैक्रियशरीरनाम्न उत्कृष्टाविंशतिःसागरोपमकोटीकोट्यः स्थितिस्ततः प्रागुक्तकरणवशेन जघन्यस्थितिचिन्तायां तस्यां द्वौ सागरोपमस्य सप्तभागौ लभ्येते, परं वैक्रियषट्कमेकेन्द्रिया विकलेन्द्रियाश्चनबध्नन्ति, किन्त्वसंज्ञिपञ्चेन्द्रियादयः,असंज्ञिपञ्चेन्द्रियाश्चजघन्यतोऽपि बन्धं कुर्वाणा एकेन्द्रिबन्धापेक्षया सहस्रगुणं कुर्वन्ति, पणवीसा पन्नासासयंसहस्संचगुणकारो' इति वचनात्, ततो यौ द्वौ सागरोपमस्य सप्तभागौ प्रागुक्तकरणवशाल्लब्धौ तौ सहस्रेण गुण्येते ततःसूत्रोक्तं परिमाणं भवति, सागरोपमस्य द्वौ सहस्रौ सप्तभागानां सागरोपमसहस्रस्य द्वौ सप्तभागावितिह्येकोऽर्थः,आहारशरीरनाम्नोःजघन्यतोऽप्यन्तःसागरोपमकोटीकोटीउत्कर्षतोऽप्यन्तःसागरोपमकोटीकोटी, नवरंजघन्यादुष्कृष्टं सङ्ख्येयगुणांद्रष्टव्यं, अन्ये त्वाहारकचतुष्कस्य जघन्यतोऽप्यन्तर्मुहूर्तमिच्छन्ति, (तथा च) तद्ग्रन्थः ॥१॥
“परुंवेयअट्ठवासा, अट्ठमुहुत्ता जसुच्चगोयाणं । साए बारस आहारविग्घावरणाण किंचूणं ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342