Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 226
________________ पदं-२८, उद्देशकः-२, द्वारं-१ __ २२३ हारए, एवं नेरइए जाव असुरकुमारे जाव वैमाणिए, सिद्धे णं भंते ! किं आहारए अनाहारए?, गो०! नो आहारए अनाहारए, जीवाणं भंते! किं आहारया अनाहारया? गो०! आहारयाविअनाहारयावि, नेरइयाणं! पुच्छा, गो०! सब्वेवि ताव होजा आहारया १ अहवा आहारगा य अनाहारए य २ अहवा आहारगा य अनाहारगाय ३, एवं जाव वेमाणिया, नवरं एगिदिया जहा जीवा, सिद्धाणं पुच्छा, गो०! नो आहारगा अनाहारगा वृ. 'जीवे णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-'गौतमे'त्यादि, गौतम ! स्यात-कदाचिदाहारकः कदाचिदनाहारकाः, कथमितिचेत्?,उच्यते, विग्रहगतौकेवलिसमुद्घाते शैलेश्यवस्थायां सिद्धत्वे चानाहारकाः, शेषास्ववस्थास्वाहारकः, उक्तंच॥१॥ “विग्गहगइमावन्ना केवलिणो समोहया अजोगीय। सिद्धा य अनाहारा सेसा आहारगा जीवा ।।" तदेवं समामान्यतो जीवचिन्तां कृत्वेदानीं नैरयिकादिचतुर्विंशतिदण्डकक्रमेणाहारकानाहारकचिन्तां करोति-'नेरइएणंभंते! किं आहारए' इत्यादि सुगम, तदेवंसामान्यतोजीवपदे नैरयिकादिषुचैकवचनेन आहारकानाहारकत्वचिन्ता कृता, सम्प्रतिबहुवचनेनतांचिकीर्षुराह_ 'जीवाणंभंते!' इत्यादिप्रश्नसूत्रंसुगम, भगवानाह-गौतम! आहारकाअपिअनाहारका अपि, सदैव बहुवचनविशिष्टा उभयेऽपि लभ्यन्ते इति भावः, तथाहि-विग्रहगतिव्यतिरेकेण शेषकालं सर्वेऽपि संसारिणो जीवा आहारकाः", विग्रहगतिस्तु क्वचित् कदाचित् कस्यचित्तु भवतीति सर्वकालमपि लभ्यमाना सा प्रतिनियतानामेव लभ्यते तत आहारकेषु बहुवचनं, अनाहारका अपि सिद्धाः सदैव लभ्यन्ते,तेचाभव्येभ्योऽनन्तगुणाः, अन्यच्च-सर्वकालमेकैकस्य निगोदस्य प्रतिसमयमसङ्खयेयभागो विग्रहगत्यापन्नो लभ्यते, ततोऽनाहारकेष्वपि बहुवचनं, नैरयिकसूत्रे सर्वेऽपि तावद्भवेयुराहारकाः १, किमुक्तं भवति?-कदाचिनैरयिकाः सर्वेप्याहारका एव भवन्ति, न त्वेकोऽप्यनाहारकः, कथमिति चेत्, उच्यते, उपपातविरहात्, तथाहि-नैरयिकाणामुपपातविरहोद्वादशमुहूर्ताः, एतावतिचान्तरेपूर्वोत्पन्नविग्रहगत्यापन्नाअपि आहारका जाताः, अन्यस्त्वनुत्पद्यमानत्वात्अनाहारको न सम्भवतीति, अथवा आहारका अनाहारकाश्च २ ___ आहारकपदे बहुवचनंअनाहारकपदे एकवचनमिति भावः, कथमेष भङ्गोघटामियतीति चेत्, उच्यते, इहनरकेषुजन्तुः कदाचिदेक उत्पद्यतेकदाचिदद्वौ कदाचित्त्रयश्चत्वारोयावत्सङ्ख्याता असङ्ख्याता वा, तत्रयदा एक उत्पद्यतेसोऽपिचविग्रहगत्यापन्नोऽपि भवतिअन्येच पूर्वोत्पन्नतया आहारकाअभवन्तदा एष भङ्गो लभ्यते, तृतीयभङ्गमाह-अहवा आहारगायअनाहारगाय ३, अत्रोभयत्रापिबहुवचनं, एष च भङ्गो यदा बहवो विग्रहगत्योत्पद्यन्ते तदा द्रष्टव्यः, शेषभङ्गकास्तु न सम्भवन्ति, आहारकपदस्य नैरयिकाणां सर्वदैव बहुवचनविषयतया लभ्यमानत्वात्, एवमसुरकुमारादिषुस्तनितकुमारापर्यवसानेषुद्वीन्द्रियादिषुचवैमानिकपर्यन्तेषुप्रत्येकंभङ्गत्रिकं भावनीयं, उपपातविरहभावतःप्रथमभङ्गस्य एकादिसङ्खतयोत्पत्तेःशेषस्य च भङ्गद्वयस्य सर्वत्रापि लभ्यमा-नत्वात्, एकेन्द्रियेषुपुनःपृथिव्यप्तेजोवायुवनस्पतिरूपेषुप्रत्येकमेषएवैको भङ्गःआहारकाः अनाहारकाअपि, पृथिव्यप्तेजोवायुषुप्रत्येक्प्रतिसमयमसङ्खायातानांवनस्पतिषुप्रतिसमयमनन्तानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342