Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 292
________________ पदं-३६, उद्देशकः, द्वार २८९ समुद्घातसमुद्घताः, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्घाता; असङ्ख्येयगुणाः, सप्तस्वपि पृथिवीषु प्रत्येकंबहूनांपरस्परवेदनो दीरणायनिरन्तरमुत्तरवैक्रियसमारम्भसम्भवात्, तेभ्योऽपि कषायसमुद्घातेन समुद्धताः सङ्खयेयगुणाः, कृतोत्तरवैक्रियाणामकृतोत्तरवैक्रियाणांतच सर्वसङ्खयेयोतत्रवैक्रियारम्भकेभ्योऽसङ्खयेयगुणानांकषायसमुद्घातसमुद्धतत्वेनप्राप्यमाणत्वात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, यथायोगक्षेत्रजपरमाधार्मिकोदीरितपरस्परोदीरितवेदनाभिः प्रायो बहूनां सदा समुद्धतत्वेन प्राप्यमाणत्वात्, तेभ्योऽप्येकेनापि समुद्घातेनासमवहताः सङ्ख्येयगुणाः, वेदमनासमुद्घातमन्तरेणाप्यतिबहूनां सामान्यतो वेदनामनुभवतां सम्भवात् । सम्प्रत्यसुरकुमाराणामल्पबहुत्वमाह-'एएसि ण'मित्यादिप्रश्नसूत्रं सुगम, भगवानाहगौतम ! सर्वस्तोकाः असुरकुमारास्तैजससमुद्घातेन समुद्धताः, तैजसो हि समुद्घातो महति कोपावेशे क्वचित् कदाचित्केषाञ्चिद्भवति, ततस्तेन समुद्घातेन समुद्धताः सर्वस्तोकाः, तेभ्यो मारणान्तिकसमुद्घातेन समुद्धताःअसङ्ख्येयगुणाः, तेभ्योवेदनासमुद्घातेन समुद्धताःअसङ्ख्येयगुणाः, परस्परंयुद्धादौबहूनांवेदनासमुद्घातेन समुद्घतानां प्राप्यमाणत्वात्, तेभ्योऽपिकषायसमुद्घातेन समुद्घाताः सङ्ख्येयगुणाः, येनतेनवा कारणेन बहूनांकषायसमुद्घातगमनसम्भवात्, तेभ्योऽपिवैक्रियसमुद्घातेनसमुद्धताः सङ्खयेयगुणाः,परिचारणाद्यनेकनिमित्तमतिबहूनामुत्तरवैक्रियकरणारम्भसम्भवात्, तेभ्योऽप्यसमवहता असङ्खयेयगुणाः, बहूनामुत्तमजातीनां सुखसागरावगाढानां पूर्वोक्तेभ्योऽसङ्ख्येयगुणानां केनापि समुद्घातेनासमवहतानां सदा लभ्यमानत्वात्, ‘एव'मित्यादि, यथा असुरकुमाराणामल्पबहुत्वमुक्तमेवं सर्वेषां भवनपतीनां द्रष्टव्यं यावत् स्तनितकुमाराणामिति । सम्प्रतिपृथिवीकायिकगतमल्पबहुत्वमाह-एएसिण'मित्यादि, अत्र कषायसमुद्घातसमुद्धतानां वेदनासमुद्घातसमुद्धतानांच सङ्ख्येयगुणत्वेअसमवहतानांचासक्येयगुणत्वे भावना स्वयंभावनीया, सुगमत्वात्, ‘एव'मित्यादि, पृथिवीकायिकगतेन प्रकारेणाल्पबहुत्वंतावद्वक्तव्यं वयावद्वनस्पतिकायिकाः, वायुकायिकान् प्रति विशेषमभिधित्सुराह-'नवर'मित्यादि, नवरं वातकायिकानामल्पबहुत्वचिन्तायामेवं वक्तव्यं-सर्वस्तोका वातकायिका वैक्रियसमुद्घातेन समुद्धताः, बादरपर्याप्तसङ्ख्येयभागस्य वैक्रियलब्धेःसम्भवात, तेभ्योऽपिमारणान्तिकसमुद्घातेन समुद्धताअसङ्ख्येयगुणाः, पर्याप्तपर्याप्तसूक्ष्मबादरभेदभिन्नानां सर्वेषामपिवातकायिकानांमरणसमुद्घातसम्भवात्, तेभ्योऽपि कषायसमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता विशेषाधिकाः, तेभ्योऽसमवहता असङ्ख्येयगुणाः, सकलसमुद्घातगतवातकायिकापक्षया स्वभावस्थानांवातकायिकानांस्वभावतएवासङ्ख्येयगुणतया प्राप्यमाणत्वात् द्वीन्द्रियसूत्रे सर्वस्तोकाः द्वीन्द्रिया मारणान्तिकसमुद्घातेन समुद्धताः, प्रतिनियतानामेव प्रश्नसमयेमरणसद्भावात, तेभ्यो वेदनासमद्घातेन समुद्धताअसङ्खयेयगुणाः,शीतातपादिसम्पकतोऽतिप्रभूतानां वेदनासमुद्घातभावात्, तेभ्यः कषायसमुद्घातेन समुद्धता असङ्खयेयगुणाः, अतिप्रभूततारणां लोभादिकषायसमुद्घातभावात्, तेभ्योऽप्यसमवहताः सङ्खयेयगुणाः, “एव'मित्यादि, एवं द्वीन्द्रियगतेन प्रकारेण तावद् वक्तव्यं यावच्चतुरिन्द्रियाः। तिर्यक्पञ्चेन्द्रियसूत्रेसर्वस्तोकास्तैजससमुद्घातेन समुद्धताः, कतिपयानामेव तेजोलब्धि[11/19 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342