Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 290
________________ पदं-३६, उद्देशकः-, द्वारं २८७ सम्भवासम्भवपुरस्सरं सङ्ख्याप्रमाणप्ररूपणा, सम्प्रति तेन तेन समुद्घातेन यावत् केवलिसमुद्घातेन समुद्घातनामसुद्घातानां च परस्परमल्पबहुत्वमिभिधित्सुराह मू. (६०७) एतेसिणंभंते! जीवणंवेदणासमुग्घातेणंकसायस० मारणंतिय० वेउब्वियस० तेयस० आहारगस० केवलिस० समोहयाणं असमोहयाण य कयरेशहितो अ० ब० तु० वि०?, गो०! सव्वत्थोवा जीवा आहारगसमुग्घाएणंसमोहया केवलिसमुग्घाएणंसंमोहता संखे० कतेयगसमुद्घाएणं समोहयाअसं० वेउब्वियसमुग्घाएणं समो० असं० मारणंतियसमु० समो० अनंतगुणा कसायस० स० असं० वेदनास० विसेसाहिया असंमोहया असंखिजगुणा वृ. 'एएसिण'मित्यादि, एतेषां-यथायोगंप्राक्समवहतासमहतत्वेन निरूपितानां भदन्त सामान्यतो जीवानां वेदनासमुद्घातेन यावत् केवलिसमद्घातेन समवहतानासमवहतानां च मध्ये कतरे कतरेभ्योऽल्पाः कतरे कतरेभ्यो बहुकाः-सङ्घयेयासङ्खयेयादिगुणतया प्रभूताः कतरे कतरैस्तुल्याः-समसङ्ख्याकाः, अत्रार्थे सूत्रे विभक्तिपरिणामः स्वयं योजनीयः, कतरे कतरेभ्यो विशेषाधिकाः-मनागधिकाः, वाशब्दाः सर्वेऽपिविकल्पार्थाः, भगवानाह-गौतम! सर्वस्तोका जीवाआहारकसमुद्घातेन समुद्घाताः,आहारकशरीरिणो हि कदाचिदिह लोकेषण्मासान्यावन्न भवन्त्यपि, यदापि भवन्ति तदापि जघन्यत एको द्वौ त्रयो वा उत्कर्षतः सहस्रपृथकत्वं, केवलमाहारकसमुद्घातआहारकशरीरप्राम्भकालेन शेषकालं ततःस्तोका एव युगपदाहारकसमुद्घाताः प्राप्यन्ते इति सर्वस्तोका आहारकसमुद्घोतन समुद्घाताः, तेभ्यः केवलिसमुद्घातेन समुद्घताः सञ्जयेयगुणाः, तेषामेककालंशतपृथक्तेवन प्राप्यमाणत्वात्, यद्यप्याहारकशरीरिणः सत्तया समकालं एको द्वौ वा त्रयो वा उत्कर्षतः सहस्रपृथकत्वमानाः प्राप्यन्ते तथाप्या(पिस्तोकानामा) हारकसमुद्घातसम्भवात् एककालमतिस्तोकाः प्राप्यन्ते इति न तेभ्यः केवलिसमुद्घातसमुद्घातानां सङ्घयेयगुणत्वविरोधः, केवलिसमुद्घातसमुद्घतेभ्यः तैजससमुद्घातेन समवहताः असङ्खयेयगुणाः, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां देवानामपिच तैजससमुद्घातसम्भवात्, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्घताः असङ्येयगुणाः,नारकवातकायिकानामपि वैक्रियसमुद्घातसम्भवात्, वातकायिकाश्च वैक्रियलब्धिमन्तोनस्तोकाः, किन्तुदेवेभ्योऽप्यसङ्घयेयगुणाः, कथमेतदितिचेत्, उच्यते, इह बादरपर्याप्तवायुकायिकाःस्थलचरपञ्चेन्द्रियेभ्योऽसङ्खयेयगुणाः, महादण्डके तथा पठितत्वात्, ___ स्थलचरपञ्चेन्द्रियाश्चदेवेभ्योऽप्यसङ्खयेयगुणाः, ततो यद्यपिबादरपर्याप्तवायुकायिकानां सङ्खयेयाभागमात्रस्य वैक्रियलब्धिसम्भवो, यत उक्तम्-"तिण्हंताव रासीणं वेउब्वियलद्धीचेव नत्थि, बायरपज्जत्ताणंपि संखेजइभागमेत्ताणं"ति, तथापि सङ्खयेयभागमात्रा वैक्रियलब्धिमन्तो देवेभ्योऽप्यसङ्घयेयगुणा भवन्ति, ततो नैरयिकाणां वायुकायिकानां च वैक्रियसमुद्घातसम्भवादुपपद्यन्तेतैजससमुद्घातसमुद्घतेभ्योवैक्रियसमुद्घातेन समुद्धताः असङ्खयेयगुणाः, तेभ्योऽपि मारणान्तिकसमुद्घातन समुद्घता अनन्तगुणाः, कथं?, उच्यते, इह निगोदजीवानामनन्तानामसङ्खयेयो भागः सदा विग्रहगतौ वर्तमानः प्राप्यते, तेच प्रायो मारणान्तिकसमुद्घातसमुद्घता इति पूर्वेभ्योऽनन्तगुणाः, तेभ्योऽपिकषायसमुद्घातसमुद्घता असङ्खयेयगुणाः, निगोजदीवाना Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342