Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 312
________________ पदं-३६, उद्देशकः, द्वार ३०९ तत्सदशं परिपूर्णमित्यर्थः, जम्बूद्वीपं द्वीषं त्रिभिः अप्सरोनिपातो नाम-चप्पुटिका ततस्तिसृभिः चप्पुटिकाभिरिति द्रष्टव्यं, चप्पुटिकाश्चकालोपलक्षणं, ततोऽयमर्थः-यावता कालेन तिम्रश्चप्पुटिकाः पूर्यन्ते तावत्कालमध्ये इति, त्रिसप्तकृत्वः-एकविंशतिवारान्अतिपरिवत्त्य-सामस्त्येनपरिभ्रम्य 'हव्वं' शीघ्रमागच्छेतः-समागच्छेत् ‘से नूनं'इत्यादि, सेशब्दो मगधदेशप्रसिद्धया अथशब्दार्थे, अथशब्दस्य चार्यो वाक्योपन्यासादयः उक्तंच-'अथप्रक्रियाप्रश्नानन्तर्यमङ्गलाधिकारवाक्योपन्यासेषु तत्रायवाक्योपन्यासे, तद्भावनाच एवं-उक्तस्तावविवक्षितार्थप्रतिपत्तिहेतोष्टान्तस्य पीठिकाबन्धः, सम्प्रति विवक्षितार्थप्रतिपत्तिहेतुष्टदृष्टान्तवाक्यमुपन्यस्यते, नूनं-निश्चितं, गौतम! सकेवलकल्पोजम्बूद्वीपस्तैर्गन्धसमुद्रकाद्विनिर्गतैः घ्राणपुद्गलैः-गन्धपुद्गलैः स्पृष्टो-व्याप्तः, काक्वा चेदं सूत्रमधीयते तत; प्रश्नोऽवगम्यते, अथवा प्रश्नार्थः सेशब्दस्ततोऽअसा प्रश्नयतीति, गौतम ! आह-हंत ! स्पृष्टो गन्धपुद्गलानां सर्वतोऽगिसर्पणशीलत्वात्, पुनरपि भगवानाह "छउमत्थे णमित्यादि सुगमम् एष चात्र भावार्थः-यथा ते सकलजम्बूद्वीपव्यापिनो गन्धपुद्गलाः सूक्ष्मत्वात्नछद्मस्थानांचक्षुरादीन्द्रियगम्यास्तथासकललोकव्यापिनोनिर्जरापुद्गला अपीति, उपसंहारमाह-एसुहुमाणं'ति एतावत्सूक्ष्माः अथ यनिमित्तं केवली समुद्घातमारभते तत्पिपृच्छिषुरिदं प्रश्नसूत्रमाह-- मू. (६१५) कम्हा णं भंते ! केवली समुग्घायां गच्छति ?, गो० ! केवलिस्स चत्तारि कम्मंसा अक्खीणाअवेदिया अनिजिण्णा भवंति, तं०-वेदणिजे आउएनामेगोए, सनब्बबहुप्पएसे से वेदणिज्जे कम्मे हवति सव्वत्थोवे आउए कम्मे हवइ, विसमं समं करेति बंधणेहिं ठितीहि य, विसमसमीकरणयाए बंधणेहिं ठितीहि य एवं खलु केवली समोहणति, एवं खलु समुग्घायं गच्छति, सव्वेवि णं भंते ! केवली समोहणंति सव्वेवि णं भंते ! केवली समुग्घातं गच्छंति?, गो० ! नो इणढे समढे, वृ. 'कम्हाणमित्यादि, कस्मात् कारणात्णमिति वाक्यालङ्कारे भदन्त! 'केवली' केवलज्ञानोपेतः समुद्घातं गच्छति-आरभते, कृतकृत्यत्वात् किल तस्येति भावः, भगवानाह'गोयमे' त्यादि, गौतम ! केवलिनश्चत्वारः ‘कर्माशाः' कर्मभेदाः ‘अक्षीणाः' क्षयमनुपगताः, कुत इत्याह-अवेदिताः, अत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् हेतौ प्रथमा, ततोऽयमर्थः-यतोऽवेदिताः ततोऽक्षीणाः, कर्मणांहिक्षयोनियमतःप्रदेशतोविपाकतो वा वेदनाद् भवति, 'सव्वं च पएसतया भुज्जइ कम्ममणुभावतो भइय' मित्यादि वचनात्, ते चत्वार; कर्मांशाअपिअवेदिताअतोऽक्षीणाः, एतदेव पर्यायेणव्याचष्टे–'अनिर्जीर्णाः' सामस्त्येनात्मप्रदेशेभ्योऽपरिशाटिताः भवन्ति' तिष्ठन्ति, तानेव नामग्राहमभिधित्सुराह ___'तंजहे' त्यादि सुगम, तत्र यदा ‘से' तस्य केवलिनः सर्वबहुप्रदेशं वेदनीयमुपलक्षणमेतत् नामगोत्रे च तथा सर्वस्तोकप्रदेशमायुःकर्म तदा स 'बंधणेहिं ठिइहिन्ति बध्यते-भवचारकांत् विनिर्गच्छन् प्रतिबध्यते यैस्ते बन्धनाः, 'करणाधारे' इति करणेऽनट्प्रत्ययः, अथवा बध्यन्तेआत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियन्तेयोगवशात्येत बन्धनाः 'कृबहुल मिति वचनात् कर्मणिअनट्, उभयत्रापि करर्मपरमाणवोवाच्याः,स्थितयो-वेदनाकालाः, तथाचोक्तंभाष्यकृता ___www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342