Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 322
________________ पदं- ३६, उद्देशक:-, द्वारं - ३१९ हि लब्धयः साकारोपयोगोपयुक्तस्य उपजायते नाकाकारोपयुक्तस्य, सिद्धिरप्येषा सर्वलब्ध्युत्तमा लब्धिरिति साकारोपयोगोपयुक्तस्योपजायते, आह च 119 11 "सव्वाओ लद्धीओ जं सागारोवओगलाभाओ । तेणह सिद्धिलद्धी उप्पज्जइ तदुवउत्तस्स ॥” तदनन्तरं तु क्रमेणोपयोगप्रवृकत्तिः । तदेवं यथा केवली सिद्धो भवति तथा प्रतिपादितमिदानीं सिद्धा यथास्वरूपास्तत्रावतिष्ठन्ते तथा प्रतिपादयति- 'ते णं तत्थ सिद्धा भवंती' त्यादि, ते - अनन्तरोक्तक्रमसम्भूता णमिति वाक्यालङ्कारे तत्र - लोकान्ते सिद्धा भवन्ति, अशरीरा:औदारिकादिशरीरविप्रमुक्ताः तेषां सिद्धत्वप्रथमसमये एव सर्वात्मना त्यक्तत्वात्, जीवघनानिचितीभूतजीवप्रदेशरूपाः, सूक्ष्मक्रियाऽप्रतिपातिध्यानप्रतिपत्तिकाले एव तत्सामर्थ्यतो वदनोदरादिविवराणामापूरितत्वात्, दर्शनज्ञानोपयुक्ता जीवस्वाभाव्यात्, निष्ठितार्थाः कृतकृत्यत्वात्, नीरजसो बध्यमानकर्माभावात्, निरेजनाः कम्पक्रियानिमित्तविरहात्, वितिमिराः कर्मतिरमिरवासनापगमात्, विशुद्धास्त्रिविधसम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धीभूतत्वात्, ते चेत्थंभूतास्तत्र गतास्तिष्ठन्ति शाश्वतंयथा भवत्येवं 'अनागताद्धं' अनागता - भाविनी अद्धा समस्ता यत्र सोऽनागताद्धः तं कालं यावत्, अत्रैव मन्दमतिविबोधायाक्षेपपरिहारावाह 'सेकेणणं भंते!' इत्यादि सुगमं, नवरं 'कम्मबीएसु' त्ति कर्म्मरूपाणि बीजानि - जन्मनः कारणानि कर्मबीजानि तेषु दग्धेषु-निर्मूलकाषंकषितेषु पुनरपि - भूयो जन्मन उत्पत्तिर्न भवति, कारणमन्तरेण कार्यासम्भवात्, अथ तान्येव कर्माणि भूयः कस्मान्न भवन्ति ?, उच्यते, रागादीनामभावात्, रागादयो ह्यायुःप्रभृतीनां कर्मणां कारणं, न च ते तेषां सन्ति, प्रागेव क्षीणमोहावस्थायां क्षीणत्वात् न च तेऽपि क्षीणा अपि भूयः प्रादुष्ष्यन्ति, सहकारिकारणाभावात्, रागादीनां ह्युत्पत्तौ परिणामिकारणमात्मा सहकारिकरणं रागादिवेदनीयं कर्म, न चोभयकारणजन्यं कार्यमेकतरस्याप्यभावे भवति, अन्यथा तस्याकारणत्वप्रसङ्गात्, न च सिद्धानं रागादिवेदनीयं कर्मास्ति, तस्य प्रागेव शुक्लध्यानाग्निना भस्मीकृतत्वात्, न च वाच्यमत्रापि स एव प्रसङ्गः, यथा तदपि रागादिवेदनीयं कर्म भूयः कस्मान्न भवतीति ?, तत्कारणस्य सङ्कलेशस्याभावात्, रागादिवेदनीयानां हि कर्मणामुत्पत्तौ रागादिपरिणतिरूप; सङ्कलेशः, 'जं वेयइ से बंधइ' इति, न च रागादिवेदनीयकर्मविनिर्मुक्तस्य तथाभूतं सङ्कक्लेशोत्थानमस्ति, ततस्तदभावाद्रागादिवेदनीयकर्माभावः, तदभावाच्च भूयो रागादीनामभावः, तथा च रागादीनामेव पुनरुत्पत्तिचिन्तायां धर्म्मसङ्ग्रहण्यामुक्तम् 119 11 'खीणा य ते न होंती पुनरवि सहकारिकारणाभावा । हि होइ संकिलेसो तेहिं विउत्तस्स जीवस्स ॥ ॥२॥ तयभावा न य बंधो तप्पाउग्गस्स होइ कम्मस्स । तदभावे तदभावो सव्वद्धं चेव विन्नेओ ।" इति, ततो रागादीनामभावादायुःप्रभृतीनां कर्म्मणां पुनरुत्पादाभावस्तदभावाच्च न भूयो जन्मोत्पत्तिः, अत एवोक्तमन्यत्रापि 119 11 "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342