Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 320
________________ पदं- ३६, उद्देशक:-, द्वारं ३१७ च ण'मित्यादि, तस्मात् मनोयोगनिरोधादनन्तरं चशब्दो वाक्यसमुच्चये णमिति वाक्यालङ्कारे द्वीन्द्रियस्य पर्याप्तस्य जघन्ययोगिनः सत्कस्य वाग्योगस्येति गम्यतेऽधस्तात् वाग्योगं असङ्घयेयगुणपरिहीनं समये समये निरुन्धानोऽसङ्घत्येयैः समयैः साकल्येनेति गम्यते द्वितीयं वाग्योगं निरुणद्धि, आह च भाष्यकृत 119 11 "पज्जत्तमित्तबिंदिय जहन्नवइजोगपजवा जे उ । तदसंखगुणविहीणं समये समये निरुंभंतो ॥ सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं" "ततोऽनंतरं चण' मित्यादि, ततो वाग्योगादनन्तरं च णं प्राग्वत् सूक्ष्मस्य पनकजीवस्य अपर्याप्तकस्य प्रथमसमयोत्पन्नस्येति भावार्थः जघन्ययोगिनः- सर्वाल्पवीर्यस्य पनकजीवस्य यः काययोगस्तस्याधस्तादसङ्घयेयगुणहीनं काययोगं समये समये निरुन्धन् असङ्घयेयैः समयैः समस्तमपीति गम्यते तृतीयं काययोगं निरुणद्धि, तंच काययोगंनिरुन्धानः सूक्ष्मक्रियमप्रतिपाति ध्यानमधिरोहति, तत्सामथ्याच्च वदनोदरादिविवरपूरणेन संकुचितदेहत्रिभागवर्त्तिप्रदेशो भवति, तथा चाह भाष्यकृत 119 11 “तत्तो य सुहुमपनगस्स पढमसमयोववण्णस्स ॥ जो किर जहन्नजोगी तदसंखेज्जगुणहीणमेक्के के । समएहिं रुंभमाणो देहतिभागं च मुंचंतो ॥ रुंभइ स कायजोगं संखाईएहिं चेव समएहिं' काययोगनिरोधकालान्तरे चरमे अन्तर्मुहूर्ते वेदनीयादित्रयस्य प्रत्यकं स्थितिः सर्वापवर्त्तनया अपवत्यायोग्यवस्थासमाना क्रियते गुणश्रेणिक्रमविरचितप्रदेशा, तद्यथा-प्रथमस्थितौ स्तोकाः प्रदेशाः, द्वितीयस्यां स्थितौ ततोऽसङ्घयेयगुणाः, तृतीयस्यां ततोऽप्यसङ्ख्येयगुणाः, एवं तावद्वाच्यं यावच्चरमा स्थितिः, स्थापना, एताः प्रथम समयगृहीतदलिकनिर्वर्त्तिता गुणश्रेणयः, एवं प्रतिसमयगृहीतदलिकनिर्विर्त्तिताः कर्मत्र्यस्य प्रत्येकसमङ्घयेया द्रष्टव्याः अन्तर्मुहूर्तसमयानामसङ्ख्यायत्वात्, आयुषस्तु स्थितियथाबद्धैवावतिष्ठते, सा च गुणश्रेणिक्रमविपरीतक्रमदलिकरचना, अयं च सर्वोऽपि मनोयोगादिनिरोधो मन्दमतिसुखावबोधार्थमाचार्येण स्थूरध्ष्टया प्रतिपादितः, यदि पुनः सूक्ष्मदृष्ट्या तत्स्वरूप जिज्ञासा भवति तदा पञ्चसङ्ग्रहटीका निभालनीया, तस्यामिति निपुणंप्रपञ्चेन तस्याभिधानाद्, इह च ग्रन्थगौरवभयान्नास्माभिरभिहितः, 'सेण' मित्यादि, सोऽधिकृतः केवली णमिति पूर्ववत् एतेनानन्तरोदितेनोपायेन उपायप्रकारेण, शेषं सुगमं, यावदयोगतां 'पाउणइ'त्ति प्राप्नोति, अयोगताप्राप्तयभिमुखो भवति इति भावार्थः, अयोगतां च प्राप्य अयोगताप्राप्तयभिमुखो भूत्वा 'ईसिं' ति स्तोकं कालं शैलेशीं प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्टां इत्यत आह-ह्रस्वपञ्चारोच्चराणाद्धया, किमुक्तं भवति ? - नातिद्रुतं नातिविलम्बितं किन्तु मध्यमेन प्रकारेण यावता कालेन ञणनम इत्येवंरूपाणि पञ्चाक्षराणि उच्चार्य्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किंसमयप्रमाण इति निरूपणार्थमाह- असङ्घयेयसामयिकां- असङ्खयेयसमयप्रमाणां यच्चासङ्घयेयसमयप्रमाणं तच्च जघन्यतोऽप्यन्तर्मुहूर्त्तप्रमाणं तत एषाऽप्यन्तर्मुहूर्तप्रमाणेति ख्यापनायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342