Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१८
प्रज्ञापनाउपाङ्गसूत्रम्-२-३६/-/-/६२१
_ 'आन्तर्मुहूर्तिकी शैलेशी मिति, शीलं-चारित्रं तच्छेह निश्चयतः सर्वसंवररूपं तद् ग्राह्यं, तस्यैव सर्वोत्तमत्वात्, तस्येशः शीलेशः तस्य याऽवस्था सा शैलेशी तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्तंच॥१॥ “सीलं व समाहाणं निच्छयओ सव्वसंवरो सोय ।
तस्सेसो सीलेसो सेलेसी होइ तदवत्था॥ ॥२॥ बहस्सक्खराइंमज्झेण जेण कालेण पंच भण्णंति ।
अच्छइ सेलेसिगतो तत्तियमित्तं तओ कालं ॥ तनुरोहारंभाओ झायइ सुहुमकिरियानियट्टि सो।
वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥" न केवलं शैलेशी प्रतिपद्यते पूर्वरचितगुणश्रेणीकं च वेदनीयादिकं कर्म अनुभवितुमिति शेषः,प्रतिपद्यतेच तत्पूर्वं काययोगनिरोधगतेचरमेऽन्तर्मुहूर्ते रचिता गुणश्रेणयः-प्राग्वनिर्दिष्टस्वरूपा यस्य तत्तथा, ततः किं करोतीत्यत आह
"तीसे सेलेसिअद्धाए' इत्यादि, तस्यांशैलेश्यद्धायां वर्तमानोऽसद्ध्येयाभिर्गुणश्रेणीभिः पूर्वनिर्वतिताभिः प्रापिता ये कर्मत्रयस्य पृथक् प्रतिसमयसमवयेयाः कर्मस्कन्धास्तान् ‘क्षपयन्' विपाकतः प्रदेशतो वा वेदनेन निर्जरयन् चरमे समये वेदनीयमायुर्नाम गोत्रमित्येतान् चतुरः 'कर्मांशान्' कर्मभेदान् युगपत् क्षपयति, युगपच्च क्षपयित्वा ततोऽनन्तरसमये औदारिकतैजसकार्मण-रूपाणि त्रीणि शरीराणि
___ 'सव्वाहिं विप्पजहणाहिं' इतिसर्विप्रहानैः, सूत्रेस्त्रीत्वंप्राकृतत्वात्, विप्रजहाति, किमुक्तं भवति? -यथाप्राक् देशतस्त्यक्तवान् तथा न त्यजति, किन्तु सर्वैः प्रकारैः परित्यजतीति, उक्तं
“ओरालियाइ चयइ सव्वाहिं विप्पजहणाहिं जं भणियं ।
निस्सेस तहान जहा देसच्चाएण सो पुट्विं ॥" परित्यज्य च तस्मिन्नेव समये कोशबन्धविमोक्षलणसहकारिसमुत्थस्वभावविशेषादेरण्डफलमिव भगवानपिकर्मसम्बन्धविमोक्षणसहकारिसमुत्थस्वभावविशेषदूर्ध्व लोकान्ते गत्वेति सम्बन्धः, उक्तंच॥१॥ “एरण्डफलंच जहा बंधच्छे देरियं दुयं जाति।
तएकम्म बंधणछेदणेरितो जाति सिद्धोवि॥" कथं गच्छतीत्यतआह-'अविग्रहेण' विग्रहस्याभावोऽविग्रहः तेन एकेनसमयेनास्पृशन्, समयान्तरप्रदेशान्तरास्पर्शनेनेत्यर्थः, ऋजुश्रेणिंचप्रतिपन्नः, एतदुक्तंभवति-यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानूर्ध्वमृजुश्रेण्याऽवगाहमानो विवक्षित्ताच्च समयादन्यत्समयान्तरमस्पृशन् गत्वा, तथा चोक्तमावश्यकचूर्णो-“जत्तिए जीवोऽवगाढो तावइयाए ओगाहणाए उड्डू उज्जुगं गच्छतिन वंकं, बिइयं च समयं न फुसइ" इति, भाष्यकारोऽप्याह ॥१॥ "रिउसेढिं पडिवन्नो समयपएसंतरं अफुसमाणो।
- एगसमएणं सिज्झइ अह सागरोवउत्तो सो॥" इत्थमूर्ध्वं गत्वा किमित्याह-साकारोपयुक्तः सन् सिध्यति-निष्ठितार्थो भवति, सर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342