________________
पदं-३६, उद्देशकः, द्वार
३०९ तत्सदशं परिपूर्णमित्यर्थः, जम्बूद्वीपं द्वीषं त्रिभिः अप्सरोनिपातो नाम-चप्पुटिका ततस्तिसृभिः चप्पुटिकाभिरिति द्रष्टव्यं, चप्पुटिकाश्चकालोपलक्षणं, ततोऽयमर्थः-यावता कालेन तिम्रश्चप्पुटिकाः पूर्यन्ते तावत्कालमध्ये इति, त्रिसप्तकृत्वः-एकविंशतिवारान्अतिपरिवत्त्य-सामस्त्येनपरिभ्रम्य 'हव्वं' शीघ्रमागच्छेतः-समागच्छेत्
‘से नूनं'इत्यादि, सेशब्दो मगधदेशप्रसिद्धया अथशब्दार्थे, अथशब्दस्य चार्यो वाक्योपन्यासादयः उक्तंच-'अथप्रक्रियाप्रश्नानन्तर्यमङ्गलाधिकारवाक्योपन्यासेषु तत्रायवाक्योपन्यासे, तद्भावनाच एवं-उक्तस्तावविवक्षितार्थप्रतिपत्तिहेतोष्टान्तस्य पीठिकाबन्धः, सम्प्रति विवक्षितार्थप्रतिपत्तिहेतुष्टदृष्टान्तवाक्यमुपन्यस्यते, नूनं-निश्चितं, गौतम! सकेवलकल्पोजम्बूद्वीपस्तैर्गन्धसमुद्रकाद्विनिर्गतैः घ्राणपुद्गलैः-गन्धपुद्गलैः स्पृष्टो-व्याप्तः, काक्वा चेदं सूत्रमधीयते तत; प्रश्नोऽवगम्यते, अथवा प्रश्नार्थः सेशब्दस्ततोऽअसा प्रश्नयतीति, गौतम ! आह-हंत ! स्पृष्टो गन्धपुद्गलानां सर्वतोऽगिसर्पणशीलत्वात्, पुनरपि भगवानाह
"छउमत्थे णमित्यादि सुगमम् एष चात्र भावार्थः-यथा ते सकलजम्बूद्वीपव्यापिनो गन्धपुद्गलाः सूक्ष्मत्वात्नछद्मस्थानांचक्षुरादीन्द्रियगम्यास्तथासकललोकव्यापिनोनिर्जरापुद्गला अपीति, उपसंहारमाह-एसुहुमाणं'ति एतावत्सूक्ष्माः अथ यनिमित्तं केवली समुद्घातमारभते तत्पिपृच्छिषुरिदं प्रश्नसूत्रमाह--
मू. (६१५) कम्हा णं भंते ! केवली समुग्घायां गच्छति ?, गो० ! केवलिस्स चत्तारि कम्मंसा अक्खीणाअवेदिया अनिजिण्णा भवंति, तं०-वेदणिजे आउएनामेगोए, सनब्बबहुप्पएसे से वेदणिज्जे कम्मे हवति सव्वत्थोवे आउए कम्मे हवइ, विसमं समं करेति बंधणेहिं ठितीहि य, विसमसमीकरणयाए बंधणेहिं ठितीहि य एवं खलु केवली समोहणति,
एवं खलु समुग्घायं गच्छति, सव्वेवि णं भंते ! केवली समोहणंति सव्वेवि णं भंते ! केवली समुग्घातं गच्छंति?, गो० ! नो इणढे समढे,
वृ. 'कम्हाणमित्यादि, कस्मात् कारणात्णमिति वाक्यालङ्कारे भदन्त! 'केवली' केवलज्ञानोपेतः समुद्घातं गच्छति-आरभते, कृतकृत्यत्वात् किल तस्येति भावः, भगवानाह'गोयमे' त्यादि, गौतम ! केवलिनश्चत्वारः ‘कर्माशाः' कर्मभेदाः ‘अक्षीणाः' क्षयमनुपगताः, कुत इत्याह-अवेदिताः, अत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् हेतौ प्रथमा, ततोऽयमर्थः-यतोऽवेदिताः ततोऽक्षीणाः, कर्मणांहिक्षयोनियमतःप्रदेशतोविपाकतो वा वेदनाद् भवति, 'सव्वं च पएसतया भुज्जइ कम्ममणुभावतो भइय' मित्यादि वचनात्, ते चत्वार; कर्मांशाअपिअवेदिताअतोऽक्षीणाः, एतदेव पर्यायेणव्याचष्टे–'अनिर्जीर्णाः' सामस्त्येनात्मप्रदेशेभ्योऽपरिशाटिताः भवन्ति' तिष्ठन्ति, तानेव नामग्राहमभिधित्सुराह
___'तंजहे' त्यादि सुगम, तत्र यदा ‘से' तस्य केवलिनः सर्वबहुप्रदेशं वेदनीयमुपलक्षणमेतत् नामगोत्रे च तथा सर्वस्तोकप्रदेशमायुःकर्म तदा स 'बंधणेहिं ठिइहिन्ति बध्यते-भवचारकांत् विनिर्गच्छन् प्रतिबध्यते यैस्ते बन्धनाः, 'करणाधारे' इति करणेऽनट्प्रत्ययः, अथवा बध्यन्तेआत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियन्तेयोगवशात्येत बन्धनाः 'कृबहुल मिति वचनात् कर्मणिअनट्, उभयत्रापि करर्मपरमाणवोवाच्याः,स्थितयो-वेदनाकालाः, तथाचोक्तंभाष्यकृता
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only