________________
३०८
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-1६१४
भगवानाह-गौतम ! नायमर्थः समर्थः उपपन्न इत्यर्थः, पुनर्गौतमः प्रश्नयति
'सेकेणटेणं भंते!' इत्यादि, उत्तानार्थ, भगवानाह-गौतम ! 'अयण्ण'मित्यादि, अयंप्रत्यक्षत उपलभ्यमानः, णमिति वाक्यालङ्कारे, अष्टयोजनोच्छ्रितयारत्नमय्याजम्ब्बा उपलक्षितो द्वीपोजम्बूद्वीपोद्वीपः, सर्वाभ्यन्तरक' इति सर्वेषामभ्यन्तरो-मध्यवर्तती सर्वाभ्यन्तरःसर्वाभ्यन्तर एव सर्वाभ्यन्तरकः “जातौ वा स्वार्थे क" इति प्राकृतलक्षणवशात्स्वार्थे कप्रत्ययः, केषां सर्वेषामभ्यन्तर इत्याह-सर्वद्वीपसमुद्राणां, तथाहि-सर्वे-अशषा द्वीपसमुद्रा जम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगणविस्तारा व्यवस्थिताः ततो भवति द्वीपसमुद्राणामेवजम्बूद्वीपोऽभ्यन्तरः, तथा सव्वखुड्डागे' इति सर्वेभ्योद्वीपसमुद्रेभ्यः क्षुल्लको-इस्वःसर्वक्षुल्लकः, तथाहि सर्वे लवणादयः समुद्राः सर्वेचधातकीखण्डादयो द्वीपाः अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणचक्रवालवितताःततःशेषद्वीपसमुद्रापेक्षयाऽयं सर्वलघुरिति, तथावृत्तो-वर्तुलो, यतस्तैलापूपसंस्थानसंस्थितः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव संस्थानसंस्थितः, तथा वृत्तोजम्बूद्वीपोद्वीपोयतोरथचक्रवालसंस्थानसंस्थितः, रथस्य-रथाङ्गस्य चक्रस्य चक्रवालं-मण्डलं तस्येवयत्संस्थानतेन संस्थितः, एवंसूत्रोक्तमन्यदपि पदद्वयंभावनीयं, 'आयामविक्खंभेणं तिआयामश्चविष्यकम्भश्चेति समाहारोद्वन्द्वः तेनआयामेन विष्कम्भेनच प्रत्येकमेकंयोजनशतसहस्रमित्यर्थः, परिधिपरिमाणानयनगणितंचजम्बूद्वीपप्रज्ञप्तयादावनेकशोभावितमिति ततोऽवधार्य
'देवेण'मित्यादि, देवश्च णमिति वाक्यालङ्कारे 'महर्द्धिक' इतिमहतीऋद्धी:-विमानपरिवारादिका यस्या सौ महर्द्धिकः ‘जाव महासोक्खे' इति यावत्शब्दकरणात् ‘महज्जुइए महाबले महायसे' इति द्रष्टव्यं,तत्र महती द्युतिः-शरीराभरणविषयायस्यसमहाद्युतिः, महद्वबां-शारीरः प्राणो यस्य स महाबलः महत् यशः-ख्यातिर्यस्य स महायशाः, तथा महत-प्रभूतं सौख्यं यस्य प्रभूतसवैद्यकर्मोदयभावादिति महासौख्यः, कवचित्-'महेसक्खे' इति पाठः, तत्र महान् ईश-ईश्वरइत्याख्या-शब्दप्रथा यस्य लोकेस महेशाख्यः,अथवा ईशनमीशो, भावेधप्रत्ययः, ऐश्वर्यमित्यर्थः ईशऐश्वर्ये' इति वचनात्, तत ईशं-ऐश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयतिप्रकाशयतितथापरिवारादिस्फीत्यावर्तते इतिईशाख्यःमहांश्वासावीशाख्यश्चमहेशाख्यः अन्यत्र 'महासक्खें इति वा पाठः, तत्रैवं वृद्धव्यख्या-आशुगमनादश्चं-मनः अक्षाणि-इन्द्रियाणि स्वस्व-विषयव्यापकत्वात, अक्षशब्दोहि प्रायेणाशुव्याप्तावित्यस्यवातोर्निष्पाद्यते, अश्वश्चाक्षाणि च अश्वाक्षाणि, महान्ति-स्फीतिमन्ति अश्वाक्षाणि यस्यासौ महाश्वाक्षः, स्फीतमनाः स्फूर्तिमचक्षुरादीन्द्रियश्चेत्यर्थः, एकंमहान्तं-अतिगुरुकमन्यथा स्तोकतया तद्वतैर्गन्धपुद्गलैः सकलस्य जम्बूद्वीपस्य व्याप्तुमशक्यत्वात्,
'सविलेवणमिति सह विशष्टं-अतिसूक्ष्मरंध्राणामपिस्थमनात्लेपनं लेपो-जत्वादिकृतं पिधानमुपरिवर्ततेयेन सतथातं, विशिष्टलेषप्रदानाबावेहि बहवः सूक्ष्मरन्त्रैर्गन्धपुद्गला निर्गच्छन्ति तत उद्घाटनवेलायां तेषां स्तोकीभावेन सकलजम्बूद्वीपापूरणं नोपपद्यते, ‘गंधसमुग्गयं'तिगन्धद्रव्यैरतिविशिष्टैः परिपूर्ण भृतः समुद्गको गन्धसमुद्गकस्तं 'अवदालेइ'त्ति अवदालयति उत्पाटतीत्यर्थः, 'इणामेवेतिएवमेवेत्यर्थः 'केवलकप्पं तिकेवलं केवलज्ञानंतत्कल्पंपरिपूर्णतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org