________________
३१०
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६१५
॥१॥ "विसमंस करेइ समंसमोहओ बंधणेहि ठिइए य।
कम्मद्दव्वाइं बंधणाति कालो ठिई तेसिं॥" ततश्च तैर्बन्धनैः स्थितिभिश्च विषमं सत् वेदनीयादिकं समुद्घातविधिना सममायुषा सह करोति, स एवं खलु केवली बन्धनैः स्थितिभिश्च विषमस्य सतो वेदनीयादिकस्य कर्मणः 'समीकरणयाए' इति अत्र ताप्रत्ययः स्वार्थिकः, ततोऽयमर्थः-समकरणाय 'समोहन्नई' इति समवहन्ति-समुद्घातय प्रयतते, एवं खलु समुद्घातं गच्छति, उक्तं च॥१॥ "आयुषि समाप्यमाने शेषाणं कर्मणां च यदि समाप्तिः ।
न स्यात् स्थितिवैषम्यात् गच्छति स ततः समुद्घातम् ।। स्थित्या च बन्धनेन च समीक्रियार्थ हि कर्मणां तैषाम्।
___अन्तर्मुहूर्त्तशेषे तदायुषि समुजिघांसति सः॥" ननुप्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणार्थं समुद्घातभारभतेइति यदुक्तं तन्नोपपन्नं, कृतनाशादिदोषप्रसङ्गात्, तथाहि-प्रभूतकालोपभोग्यस्य वेदनीयादेरारत एवापगमसम्भवात् कृतनाशः, वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्य पुनर्नाशसम्भवान्मोक्षेऽप्यनाश्चसप्रसङ्गः, तदसत्, कृतनाशादिदोषाप्रसङ्गात्, तथाहि-इहयथाप्रतिदिवसंसेतिकापरिभोगेन वर्षशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यात् स्तोकजिवसैनिःशेषतः परिभोगान कृतनाशोपगमःतथा कर्मणोऽपि वेदनीयादेः तथाविधशुभागध्यवसायानुबन्धादुक्रमेण साकल्यतो भोगान्न कृतनाशरूपदोषप्रसङ्गः, द्विविधोहि कर्मणोऽनुभवः-प्रदेशतो विपाकतश्च, तत्र प्रदेशतः सकलमपि कर्मानुभूयते, न तदस्ति किञ्चित् कर्म यप्रदेशतोऽप्यननुभूतं सत् क्षयमुपयाति, ततः कथं कृतनाशदोषापत्तिः?,
विपाकतस्तु किश्चिदनुभूयते किञ्चिन्न, अन्यथा मोक्षाभावप्रसङ्गात्, तथाहि-यदि विपाकानुभूतित एव सर्वं कर्म क्षपणीयमिति नियमः तमुसङ्ख्यातेषुभवेषु तथाविधविचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं तस्य नैरस्मिन् मनुष्यादावेव भवेऽनुभवः, स्वस्वभवनिबन्धनत्वात् तथाविधविपाकानुभवस्य, क्रमेण चस्वस्वभवानुघमनेन वेदने नारकादिभवेषुचारित्राभावनप्रभूततरकर्मसन्तानोपचयात्तस्यापि स्वस्वभवानुगमनेनानुभवोपगमात् कुतो मोक्षः?,
तस्मात् सर्वं कर्म विपाकतो भाज्यं प्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यं, एवंच न कश्चिद्दोषः, नन्वेवमपि दीर्घकालभोग्यतया तद्वेदनीयादिकंकर्मोपचितंअथ च परिणामविशेषादुपक्रमेणारादेवतदनुभवतिततः कथं न कृतनाशदोषापत्तिः?, तदप्यसम्यक्, बन्धकाले तथाविधाध्यवसायवशादादावुपक्रमयोग्यस्यैव तेन बन्धनात्, अपिच-जिनवचनप्रामाण्यादपि वेदनीयादिकर्मणामुपक्रमो मन्तव्यः, यदाह भाष्यकृत्॥१॥ "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया।
___दव्वाइं पंचगं पइ जुत्तमुवक्कमणमेत्तोवि॥" न चैवं मोक्षोपक्रमहेतुः कश्चिदस्ति येन तत्रानाश्वासप्रसङ्गः, यथा च न मोक्षोपक्रमहेतुः कश्चिदस्तितथाऽन्तिमसूत्रे भावयिष्यते, ततोयदुक्तं वेदनीयादिवञ्च कृतस्यापिकर्मक्षयस्ये' त्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org