SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः-, द्वार ३११ नतत्सम्यगुपपन्नमित स्थितं, अपर आह-ननु यदा वेदनीयादिकमतिप्रभूतं सर्वस्तोकंचायुस्तदा समधिकवेदनीयादिसमुद्घातार्थसमुद्घातमारभतां, वेदनीयादेः सोपक्रमत्वात्, यदा त्वधिकमायुः सर्वस्तोकंचवेदनीयादिकंतदा का वाता?,नखल्वायुषः समधिकस्यसमुद्घाताय समुद्घातः कल्प्यते, चरमशरीरिणामायुषोनिरुपक्रमत्वात् 'चरमसरीराय निरुवक्कमा' इतिवचनात्, तदयुक्तं, एवंविधभावस्य कदाचनाप्यभावात्, तथाहि सर्वदैव वेदनीयाद्येवायुषः सकाशादधिकस्थितिकंभवति, नतुकदाचिदपि वेदनीयादेरायुः, अथैवंविधो नियमः कुतो लभ्यते?, उच्यते, परिणामस्वभाव्यात्, तथाहि-इत्थंभूत एवात्मनः परिणामो येनास्यायुर्वेदनीयादेः समं भवति न्यूनं वा न तु कदाचनाप्यधिकं, यथैतस्यैवायुषः खल्वध्रुवबन्धः, तथाहि-ज्ञानावरणादीनि कर्माणि आयुर्वजानि सप्तापि सदैव बध्यन्ते, आयुस्तु प्रतिनियत एव काले स्वभवत्रिभागादिशेषरूपे, तत्र चैवंविधवैचित्र्यनियमेन स्वभावादतेऽपरः कश्चिदस्ति हेतुरेवमिहापि स्वभावविशेष एव नियामको द्रष्टव्य;, आह च भाष्यकृत्॥१॥ “असमठिईणं नियमो को थेवं आउयं न सेसंति । परिणामसहावाओ अद्भुवबंधोवि तस्सेव॥" अथ विशेषपरिज्ञानाय गौतमो भगवन्तं पृच्छति-'सव्वेविण मित्यादि, णमिति निश्चये सर्वेऽपिखलु केवलिनः समवध्नन्ति-समुद्घातायप्रयतन्ते, प्रयत्नानन्तरंचसर्वेऽपिखलुकेवलिनः समुद्घातं गच्छन्त?, इति गौतमेन प्रश्ने कृते सतिभगवान्निर्वचनमाह-'गोयमे त्यादि, गौतम! नायमर्थः समर्थः-नायमर्थः उपपन्नः, किमुक्तं भवति?-सर्वेऽपि केवलिनः समुद्घाताय न प्रयतन्ते नापि समुद्घातं गच्छन्ति, किन्तु येषामायुषः समधिकं वेदनीयादिकं, यस्यपुनःस्वभावत एवायुषा सह समस्थितिकानि वेदनीयादीनि कर्माणि सोऽकृतसमुद्घात एव तानि क्षपयित्वा सिध्यति, तथा चाह- मू. (६१६) “जस्साउएण तुल्लातिं, बंधणेहिं ठितीहि य । भवोवग्गहकम्माई, समुघातं से णं गच्छति ॥ वृ. 'जस्से'त्यादि, यस्य केवलिन आयुषासह भवे-मनुष्यभवेउप-समीपेन गृह्यते-अवष्टभ्यते यैस्तानि भवोपग्रहाणि तानि च तानि कर्माणि च भवोपग्राहकर्माणि-वेदनीयनामगोत्राणि. बन्धनैः-प्रदेशैः स्थितिभिश्चतुल्यानि-समानि भवन्ति ससमुद्घातंन गच्छति, अकृतसमुद्घात एव तानि क्षपयित्वा स सिद्धिसौधमध्यास्ते इति भावः, उक्तंच॥१॥ “जस्स उ तुलं भवइ य कम्मचउक्कं सभावतो जो य । सो अकयसमुग्धाओ सिज्झइ जुगवं खेवऊणं ॥" अथायं कदाचित्को भाव उत बाहुल्यभावः?, तत आहमू. (६१७) अगंतूणं समुग्घातं, अनंता केवली जिना। जरामरणविप्पमुक्का, सिद्धिं वरगतिं गता। वृ. 'अगंतूणसमुग्घाय'मित्यादि, अगत्वा समुद्घातं केवलिसमुद्घातं सिद्धिं' चरमगतिं गता इति सम्बन्धः, कियत्सङ्ख्याका इत्याह-अनन्ताः-अनन्तसङ्ख्याकाः केवलिनः केवलज्ञानदर्शनोपेताः, अनेन ये नवानामात्मगुणानामत्यन्तोच्छेदो मोक्ष इति प्रतिपन्नास्तेऽपास्ता द्रष्टव्याः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy