________________
३१२
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-1६१७
-
ज्ञानस्य निरुपचरितात्मस्वभावत्वात्, तस्य च विनाशायोगाद्, अन्यथाऽऽत्मन एवाभावापत्तेः, नचात्मनोनिरन्वयो विनाशः, सतःसर्वथा विनाशायोगात्, 'नासतो विद्यते भावो, नाभावो विद्यते सत' इति न्यायात्, तथा जिना-जितरागादिशत्रवः, अनेन गोशालकमतापाकरणमाह, ते हि मुक्तिपदमध्यासीनमपि न तत्त्व तो वीतरागमपि मन्यन्ते, 'अवाप्तमुक्तिपदा अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात्, तत्त्वतो वीतरागस्य च पराभवबुद्धेरिहागमनस्य चासम्भवात्, पुनः कथंभूता इत्याह
'जरामरणविप्रमुक्ता' जराच मरणंचजरामरणे ताभ्यां विप्रमुक्ताजरामरणविप्रमुक्ताः, जरामरणग्रहणमुपलक्षणं तेन समस्तरोगशोकादिसांसारिकक्लेशविमुक्ता इति द्रष्टव्यं, एतेन एकान्ततोमोक्षसौख्यस्योपादेयतामाह, अन्यस्यैवंविधस्वरूपस्य स्थानस्यासम्भवात्, नहि संसारे प्रकर्षसुखप्राप्तमपि स्थानमेवंविधमस्ति, सर्वस्यापिमरणपर्यवसानत्वात्, सेधनं सिद्धिः-अशेषकमांशापगमेनात्मनः स्वरूपेऽवस्थानता वरा-सर्वगतीनामुत्तमा गम्यते इति गतिवरगतिस्तां वरगतिरूपामित्यर्थःगताः-प्राप्ताः,
मू. (६१८) कतिसमतिएणं भंते! आउञ्जीकरणे पं०?, गो०! असंखेजसमतिए अंतोमुहुत्तिए आउजीकरणे पं०।
वृ.इह सर्वोऽपि केवली केवलिसमुद्घातं गच्छन् प्रथमत आवर्जीकरणमुपगच्छति, तथा च केवलिसमुद्घातप्रक्रियां बिभणिषुः समुद्घातशब्दव्याख्यानपुरस्सरमाह भाष्यकार:॥१॥ "तत्थाउयअसंसाहियकम्मसमुग्घायणं समुग्घाओ।
तंगमंतमणा पुव्वं आउज्जीकरणं उवेइ॥" अथावर्जीकरणमिति कः शब्दार्थः?, उच्यते, आवर्जनमावर्जः-आत्मानं प्रतिमोक्षस्याभिमुखीकरणंआत्मनो मोक्षप्रत्युपयोजनमिति तात्पर्यार्थः, अथवा आवय॑ते-अभिमुखीक्रियते मोक्षोऽनेनेति आवर्जः-शुभमनोवाक्कायव्यापारविशेषः, उक्तं च–'आवजणमुवओगोवावारो वा' इति, तत उभयत्रापि अतस्य तस्य करणमिति विवक्षायां च्चिप्रत्ययः आवर्जीकरणं, अपरे आवर्जितकरणमित्याहुः, तत्रायंशब्दार्थः-आवर्जितो नाम अभिमुखीकृतःतथा च लोके वक्तारः "आवर्जितोऽयं मया, सम्मुखीकृत' इत्यर्थः ततश्चतथाभव्यत्वेनावर्जितस्य-मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं-क्रिया शुभयोगव्यापारणं आवर्जितकरणं,
अपरे ‘आउज्जियाकरण'मिति पठन्ति, तत्रैवंशब्दसंस्कारमाचक्षते-आयोजिकाकरणमिति, अयंचात्रान्वयार्थः-आङ्मर्यादायंआ-मर्यादयाकेवलिष्टयायोजनं-शुभानांयोगानांव्यापारकणमायोजिका, भावे वुञ्, तस्याःकरणमायोजिकाकरणः, अन्ये 'आउस्सियकरण मिति ब्रुवते, तत्राप्यमन्वर्थः-आवश्यकेन-अवश्यंभावेन करणमावश्यककरणं, तथाहि-समुद्घातं केचित्कुर्वन्ति केचिच्च न कुर्वन्ति इदं त्वावश्यककरणं सर्वेऽपि केवलिनः कुर्वन्तीति, सम्प्रतयस्यैवावर्जीकरणस्य कालप्रमाणनिरूपणार्थं प्रश्ननिर्वचनसूत्रे आह
मू. (६१९) कतिसमतिए णं भंते ! केवलिसमुग्घाए पं०?, गो० ! अट्ठसमतिते पं०, तं०-पढमे समए दंडं करेति बीए समए कवाडं करेति ततिए समए मंथं करेति चउत्थे समए लोगं पूरेतिपंचमेसमए लोयंपडिसाहरति छठे समए मंथं पडिसाहरति सत्तमएसमए कवाडंपडिसाहरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org