Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 313
________________ ३१० प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६१५ ॥१॥ "विसमंस करेइ समंसमोहओ बंधणेहि ठिइए य। कम्मद्दव्वाइं बंधणाति कालो ठिई तेसिं॥" ततश्च तैर्बन्धनैः स्थितिभिश्च विषमं सत् वेदनीयादिकं समुद्घातविधिना सममायुषा सह करोति, स एवं खलु केवली बन्धनैः स्थितिभिश्च विषमस्य सतो वेदनीयादिकस्य कर्मणः 'समीकरणयाए' इति अत्र ताप्रत्ययः स्वार्थिकः, ततोऽयमर्थः-समकरणाय 'समोहन्नई' इति समवहन्ति-समुद्घातय प्रयतते, एवं खलु समुद्घातं गच्छति, उक्तं च॥१॥ "आयुषि समाप्यमाने शेषाणं कर्मणां च यदि समाप्तिः । न स्यात् स्थितिवैषम्यात् गच्छति स ततः समुद्घातम् ।। स्थित्या च बन्धनेन च समीक्रियार्थ हि कर्मणां तैषाम्। ___अन्तर्मुहूर्त्तशेषे तदायुषि समुजिघांसति सः॥" ननुप्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणार्थं समुद्घातभारभतेइति यदुक्तं तन्नोपपन्नं, कृतनाशादिदोषप्रसङ्गात्, तथाहि-प्रभूतकालोपभोग्यस्य वेदनीयादेरारत एवापगमसम्भवात् कृतनाशः, वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्य पुनर्नाशसम्भवान्मोक्षेऽप्यनाश्चसप्रसङ्गः, तदसत्, कृतनाशादिदोषाप्रसङ्गात्, तथाहि-इहयथाप्रतिदिवसंसेतिकापरिभोगेन वर्षशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यात् स्तोकजिवसैनिःशेषतः परिभोगान कृतनाशोपगमःतथा कर्मणोऽपि वेदनीयादेः तथाविधशुभागध्यवसायानुबन्धादुक्रमेण साकल्यतो भोगान्न कृतनाशरूपदोषप्रसङ्गः, द्विविधोहि कर्मणोऽनुभवः-प्रदेशतो विपाकतश्च, तत्र प्रदेशतः सकलमपि कर्मानुभूयते, न तदस्ति किञ्चित् कर्म यप्रदेशतोऽप्यननुभूतं सत् क्षयमुपयाति, ततः कथं कृतनाशदोषापत्तिः?, विपाकतस्तु किश्चिदनुभूयते किञ्चिन्न, अन्यथा मोक्षाभावप्रसङ्गात्, तथाहि-यदि विपाकानुभूतित एव सर्वं कर्म क्षपणीयमिति नियमः तमुसङ्ख्यातेषुभवेषु तथाविधविचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं तस्य नैरस्मिन् मनुष्यादावेव भवेऽनुभवः, स्वस्वभवनिबन्धनत्वात् तथाविधविपाकानुभवस्य, क्रमेण चस्वस्वभवानुघमनेन वेदने नारकादिभवेषुचारित्राभावनप्रभूततरकर्मसन्तानोपचयात्तस्यापि स्वस्वभवानुगमनेनानुभवोपगमात् कुतो मोक्षः?, तस्मात् सर्वं कर्म विपाकतो भाज्यं प्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यं, एवंच न कश्चिद्दोषः, नन्वेवमपि दीर्घकालभोग्यतया तद्वेदनीयादिकंकर्मोपचितंअथ च परिणामविशेषादुपक्रमेणारादेवतदनुभवतिततः कथं न कृतनाशदोषापत्तिः?, तदप्यसम्यक्, बन्धकाले तथाविधाध्यवसायवशादादावुपक्रमयोग्यस्यैव तेन बन्धनात्, अपिच-जिनवचनप्रामाण्यादपि वेदनीयादिकर्मणामुपक्रमो मन्तव्यः, यदाह भाष्यकृत्॥१॥ "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। ___दव्वाइं पंचगं पइ जुत्तमुवक्कमणमेत्तोवि॥" न चैवं मोक्षोपक्रमहेतुः कश्चिदस्ति येन तत्रानाश्वासप्रसङ्गः, यथा च न मोक्षोपक्रमहेतुः कश्चिदस्तितथाऽन्तिमसूत्रे भावयिष्यते, ततोयदुक्तं वेदनीयादिवञ्च कृतस्यापिकर्मक्षयस्ये' त्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342