Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 311
________________ ३०८ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-1६१४ भगवानाह-गौतम ! नायमर्थः समर्थः उपपन्न इत्यर्थः, पुनर्गौतमः प्रश्नयति 'सेकेणटेणं भंते!' इत्यादि, उत्तानार्थ, भगवानाह-गौतम ! 'अयण्ण'मित्यादि, अयंप्रत्यक्षत उपलभ्यमानः, णमिति वाक्यालङ्कारे, अष्टयोजनोच्छ्रितयारत्नमय्याजम्ब्बा उपलक्षितो द्वीपोजम्बूद्वीपोद्वीपः, सर्वाभ्यन्तरक' इति सर्वेषामभ्यन्तरो-मध्यवर्तती सर्वाभ्यन्तरःसर्वाभ्यन्तर एव सर्वाभ्यन्तरकः “जातौ वा स्वार्थे क" इति प्राकृतलक्षणवशात्स्वार्थे कप्रत्ययः, केषां सर्वेषामभ्यन्तर इत्याह-सर्वद्वीपसमुद्राणां, तथाहि-सर्वे-अशषा द्वीपसमुद्रा जम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगणविस्तारा व्यवस्थिताः ततो भवति द्वीपसमुद्राणामेवजम्बूद्वीपोऽभ्यन्तरः, तथा सव्वखुड्डागे' इति सर्वेभ्योद्वीपसमुद्रेभ्यः क्षुल्लको-इस्वःसर्वक्षुल्लकः, तथाहि सर्वे लवणादयः समुद्राः सर्वेचधातकीखण्डादयो द्वीपाः अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणचक्रवालवितताःततःशेषद्वीपसमुद्रापेक्षयाऽयं सर्वलघुरिति, तथावृत्तो-वर्तुलो, यतस्तैलापूपसंस्थानसंस्थितः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव संस्थानसंस्थितः, तथा वृत्तोजम्बूद्वीपोद्वीपोयतोरथचक्रवालसंस्थानसंस्थितः, रथस्य-रथाङ्गस्य चक्रस्य चक्रवालं-मण्डलं तस्येवयत्संस्थानतेन संस्थितः, एवंसूत्रोक्तमन्यदपि पदद्वयंभावनीयं, 'आयामविक्खंभेणं तिआयामश्चविष्यकम्भश्चेति समाहारोद्वन्द्वः तेनआयामेन विष्कम्भेनच प्रत्येकमेकंयोजनशतसहस्रमित्यर्थः, परिधिपरिमाणानयनगणितंचजम्बूद्वीपप्रज्ञप्तयादावनेकशोभावितमिति ततोऽवधार्य 'देवेण'मित्यादि, देवश्च णमिति वाक्यालङ्कारे 'महर्द्धिक' इतिमहतीऋद्धी:-विमानपरिवारादिका यस्या सौ महर्द्धिकः ‘जाव महासोक्खे' इति यावत्शब्दकरणात् ‘महज्जुइए महाबले महायसे' इति द्रष्टव्यं,तत्र महती द्युतिः-शरीराभरणविषयायस्यसमहाद्युतिः, महद्वबां-शारीरः प्राणो यस्य स महाबलः महत् यशः-ख्यातिर्यस्य स महायशाः, तथा महत-प्रभूतं सौख्यं यस्य प्रभूतसवैद्यकर्मोदयभावादिति महासौख्यः, कवचित्-'महेसक्खे' इति पाठः, तत्र महान् ईश-ईश्वरइत्याख्या-शब्दप्रथा यस्य लोकेस महेशाख्यः,अथवा ईशनमीशो, भावेधप्रत्ययः, ऐश्वर्यमित्यर्थः ईशऐश्वर्ये' इति वचनात्, तत ईशं-ऐश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयतिप्रकाशयतितथापरिवारादिस्फीत्यावर्तते इतिईशाख्यःमहांश्वासावीशाख्यश्चमहेशाख्यः अन्यत्र 'महासक्खें इति वा पाठः, तत्रैवं वृद्धव्यख्या-आशुगमनादश्चं-मनः अक्षाणि-इन्द्रियाणि स्वस्व-विषयव्यापकत्वात, अक्षशब्दोहि प्रायेणाशुव्याप्तावित्यस्यवातोर्निष्पाद्यते, अश्वश्चाक्षाणि च अश्वाक्षाणि, महान्ति-स्फीतिमन्ति अश्वाक्षाणि यस्यासौ महाश्वाक्षः, स्फीतमनाः स्फूर्तिमचक्षुरादीन्द्रियश्चेत्यर्थः, एकंमहान्तं-अतिगुरुकमन्यथा स्तोकतया तद्वतैर्गन्धपुद्गलैः सकलस्य जम्बूद्वीपस्य व्याप्तुमशक्यत्वात्, 'सविलेवणमिति सह विशष्टं-अतिसूक्ष्मरंध्राणामपिस्थमनात्लेपनं लेपो-जत्वादिकृतं पिधानमुपरिवर्ततेयेन सतथातं, विशिष्टलेषप्रदानाबावेहि बहवः सूक्ष्मरन्त्रैर्गन्धपुद्गला निर्गच्छन्ति तत उद्घाटनवेलायां तेषां स्तोकीभावेन सकलजम्बूद्वीपापूरणं नोपपद्यते, ‘गंधसमुग्गयं'तिगन्धद्रव्यैरतिविशिष्टैः परिपूर्ण भृतः समुद्गको गन्धसमुद्गकस्तं 'अवदालेइ'त्ति अवदालयति उत्पाटतीत्यर्थः, 'इणामेवेतिएवमेवेत्यर्थः 'केवलकप्पं तिकेवलं केवलज्ञानंतत्कल्पंपरिपूर्णतया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342