Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-३६, उद्देशकः-, द्वार
३०५ तेणं भंते ! पोग्गला केवतिकालस्स निच्छुब्भति?, गो०! जह० अंतो० उक्को० अंतोमुहुत्तस्स, ते णं भंते ! पोग्गला निच्छूढा समाणा जातिं तत्थ पाणातिं भूयातिं जीवातिं सत्तातिं अभिहणंति जाव उद्दति, तेणंभंते! जीवे कतिकिरिए?, गो०! सियतिकि० सिय चउ० सिय पंचकिरिए,
तेणं भंते ! जीवाओ कतिकिरिया ?, गो० ! एवं चेव, सेणं भंते ! ते य जीवा अन्नेसिं जीवाणं परंपराघातेणंकतिकिरिया?, गो० ! तिकिरियाविचउकिरियावि पंचकि०, एवंमणूसेवि
वृ. 'जीवेणंभंते! वेउविए' इत्यादिप्राग्वत्, नवरमायामत उत्कर्षतः सङ्खयेयानियोजनानि, एतच्च वायुकायिकवर्जनैरयिकाद्यपेक्षया द्रष्टव्यं, ते हि वैक्रियसमुद्घातमारभमाणास्तथाविधप्रयत्नविशेषभावतः सङ्खयेयान्येव योजनान्युत्कर्षतोऽप्यात्मप्रदेशानां दण्डमारचयन्ति, नासङ्ख्येयानियोजनानि, वायुकायिकास्तुजघन्यतोवाउत्कर्षतोवाअङ्गुलासङ्खयेयभाग, तावत्प्रमाणं चोत्कर्षतो दण्डमारचयन्तस्तावति प्रदेशे तैजसादिशरीरपुद्गलान् आत्मप्रदेशेभ्यो विक्षिपन्ति, ततस्तैः पुद्गलैर्भूतं क्षेत्रमायामत उत्कर्षतोऽपि सङ्ख्येयान्येव योजनान्यवाप्यन्ते, एतच्चैवं क्षेत्रप्रमाणं केवलं वैक्रियसमुद्घातसमुद्भवं प्रयत्नमधिकृत्योक्तं, यदातुकोऽपिवैक्रियसमुद्घातमधिरूढो मरणमुपश्लिष्टः कथमप्युत्कृष्टदेशेन त्रिसामायिकेन विग्रहेणोत्पत्तिदेशमभिगच्छति तदा सङ्ख्यातीतान्यपियोजनानियावदायामक्षेत्रमवसेयं,तावप्रमाणक्षेत्रापूरणंमरणसमुद्घातप्रयत्नसमुद्भवमिति सदपि न विवक्षितं,
__ “एकदिसिंविदिसिंवा' इति, तत्जघन्यत उत्कर्षतो वायथोक्तप्रमाणमायामक्षेत्रमेकस्यां दिशि विदिशि वा द्रष्टव्यं, तत्र नैरयिकाणांपञ्चेन्द्रियतिरश्चां वायुकायिकानांच नियमादेकदिशि, नैरयिका हिपरवशाअल्पर्द्धयश्चतिर्यक्पञ्चेन्द्रियाश्वाल्पर्द्धयएव वायुकायिका विशिष्टचेतनाविकलास्ततस्तेषां वैक्रियसमुद्घातमारभमाणानां यदि परं तथास्वाभाव्यादेवात्मप्रदेशदण्डवनिनमस्तेभ्यश्चात्मप्रदेशेभ्यो विश्लिष्य पुद्गलानां च स्वभावतोऽनुश्रेणिगमनं न तु विश्रेणितः ततो दिश्येव नैरयिकतिर्यक्पञ्चेन्द्रियवायुकायिकानामायामतः क्षेत्रं द्रष्टव्यं, नतु विदिशि, ये तु भुवनपतिव्यन्तरज्योतिष्कवैमानिका मनुष्याश्च ते स्वेच्छाचारिणो विशिष्टलब्धिसम्पन्नाश्च भवन्ति ततस्ते कदाचिप्रयत्नविशेषतो विदिश्यप्यात्मप्रदेशानांदण्डं विक्षिपन्तस्तत्रतेभ्य आत्मप्रदेशेभ्यः पुद्गलान् विक्षिपन्तीति तेषामेकस्यां दिशि विदिशि वा प्रत्येतव्यं ।
वैक्रियसमुद्घातगतश्च कोऽपि कालमपि करोति विग्रहेण चोत्पत्तिदेशप्रभिसर्पति ततो विग्रहगतिमधिकृत्य कालनिरूपणार्थमाह-से णं भंते !' इत्यादि, तत् भदन्त ! क्षेत्रं विग्रहतिमधिकृत्योत्पत्तिदेशं यावत् 'केवइकालस्स'त्तितृतीयार्थेषष्ठी कियता कालेनापूर्ण कियताकालेन स्पृष्टं ?, भगवानाह-गौतम! एकसामयिकेन वा द्विसामयिकेन वा त्रिसामयिकेन वा विग्रहेण आपूर्ण स्पृष्टमिति गम्यते, किमुक्तं भवति?-विग्रहगतिमधिकृत्य मरणदशादारभ्य उत्पत्तिदेशं यावत् क्षेत्रस्यापूरणमुत्कर्षतः त्रिभिः समयैरवाप्यते न चतुर्थेनापि समयेन, वैक्रियसमुद्घातगतो हिवायुकायिकोऽपिप्रायस्त्रसनाड्यामेवोत्पद्यते, त्रसनाड्यांचविग्रह उत्कर्षतोऽपि त्रिसामयिक इति, उपसंहारमाह[11/2017
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342