Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 288
________________ २८५ पदं-३६, उद्देशकः-, द्वारंवेमाणिया, नवरंवणस्सइकाइयाणंमणूसत्ते अतीता नत्थि, पु० अनंता, मणूसाणंमणूसत्ते अतीता सिय अस्थि सिय नत्थि, जइ अस्थि जह० एक्को वा दो वा तिन्नि वा उक्को० सतपुहुत्तं, केवइया पुरे०?, गो० ! सिय संखेज्जा सिय असंखेजा, एवं एते चउव्वीसं चउब्बीसा दंडगा सव्वे पुच्छाए भाणितव्वा जाव वेमाणाणं वेमाणियत्ते । वृ. 'नेरइयाण'मित्यादि, नैरयिकाणां विवक्षितप्रश्नसमयभाविनां सर्वेषां भदन्त ! पूर्व सकलमतीतंकालमवधीकृत्य यथासम्भवं नैरयिकत्वे वृत्तानांसतांमसुदायेन सर्वसङ्ख्यया कियन्तो वेदनासमुद्घाता अतीताः?, भगवानाह- गौतम ! अनन्ताः, बहूनामनन्तकालमसंव्यवहारराशेरुवृत्तत्वात्, कियन्तः पुरस्कृताः?, एतच्च सूत्रं सूचामात्रं, परिपूर्णस्तु पाठ एवं ‘नेरइयाणंभंते! नेरइयत्ते केवइया वेयणासमुग्घायापुरेक्खडा?' इति भगवानाह-गौतम अनन्ताः, बहूनामनन्तशो भूयोऽपि नरकेष्वागमनसम्भवात्, “एव'मित्यादि, एवमुक्तेन प्रकारेणासुरकुमारत्वादिषु स्थानेषु क्रमेण तावद् वक्तव्यं यावद्वैमानिकत्वे-वैमानिकत्वविषयं सूत्रं, तच्चेदं- 'नेरइयाणं भंते! वेमाणियत्ते केवइया वेयणासमुग्घाया अतीता?, गो०! अनंता, केवइयापुरेक्खडा?,गो०! अनंता' इति, अत्रअतीताअनन्ताः सुप्रतीताः,सर्वसांव्यवहारिकजीवैः प्रायोऽनन्तशो वैमानिकत्वस्य प्राप्तत्वात्, पुरस्कृतास्त्वनन्ताः, प्रश्नसमयभाविनां नैरयिकाणां मध्ये बहुभिरनन्तशोवैमानिकत्वस्य प्राप्स्यमानत्वात्, एवमपान्तरालवतिष्वपिअसुरकुमारत्वादिषु स्थानेषुभावना भावनीया, यथा च नैरयिकाणांनैरयिकत्वादिषु चतुर्विंशतिदण्डकक्रमेणातीताः पुरस्कृताश्च वेदनासमुद्घाता भणिता एवं सर्वजीवनामसुरकुमारादीनां भणितव्याः, कियडूरं यावदित्याह-यावद्वैमानिकानांवमानिकत्वे-वैमानिकत्वविषयाः, ते चैवं 'वेमाणियाणं भंते ! वेमाणियत्ते केवइया वेयणासमुग्घाया अतीता?, गो० ! अनंता, केवइयापुरे०?,गो०! अनंता' इति, एवंकषायमरणवैक्रियतैजसमुद्घाताअपिनैरयिकादीनां वैमानिकपर्यवसानानां सर्वेषु नैरयिकत्वादिषुस्थानेषु चतुर्विंशतिदण्डकक्रमेण वक्तव्याः, तथा चाह-“एवंजावे'त्यादि, एवं-वेदनासमुद्घातगतेन प्रकारेण कषायादिसमुद्घाताअपितावद्वक्तव्याः यावतैजससमुद्घातः किमविशेषेण वक्तव्याः ?, नेत्याह-'नवर'मित्यादि, नवरमुपयुज्य-उपयोगं कृत्वा सर्वं सूत्रं बुद्धया नेतव्यं, किमुक्तंभवति?-ये यत्र समुद्घाताघटन्ते ते तत्रातीताः पुरस्कृताश्चानन्ता वक्तव्याः,शेषेषुचस्थानेषुप्रतिषेद्धव्याः एतदेव वैविक्त्येनाह-'जस्स अत्थी' त्यादि, यस्य जीवराशे रयिकादेरसुरकुमारादेश्च सन्ति वैक्रियतैसससमुद्घातास्ते तस्य वक्तव्याः,शेषेषुपृथिव्यादिषुस्थानेषुप्रतिषेद्धव्याइतिसामथ्यलभ्यं, कषायमारणान्तिकसमुद्घाताः पुनःसर्वत्रापिवेदनासमुद्घातवदविशेषेणातीताःपुरस्कृताश्चानन्तावक्तव्याःनतुकवपिनिषेद्धव्याः सम्प्रति आहारसमुद्घातविषयं सूत्रमाह-'नेरइयाण' मित्यादि आहारकसमुद्घातो ह्याहारकलब्धौ सत्यामाहारकशरीरप्रारकम्भकाले भवति, नान्यथा, आहारकलब्धिश्चोपजायते चतुर्दशपूर्वाधिगमे, तेषांचतुर्दशनानांपूर्वाणामधिगमोमनुष्यत्वावस्थायांनशेषायामवस्थायामति मनुष्यत्ववर्जासु शेषास्ववस्थास्वतीतानां पुरस्कृतानां चाहारकसमुद्घातानां प्रतिषेधः, मनुष्यत्वावस्थायामपिपूर्वमतीताअसङ्खयेयाः,प्रश्नसमयभाविनांनारकाणांमध्ये बहूनामसङ्खयेयानां नरकाणां पूर्वं तदा २ मनुष्यत्वमवाप्य अधिगतचतुर्दशपूर्वाणां प्रत्येकं सकृद् द्विःत्रि कृताहारकसमुद्घातत्वात्, पुरस्कृताअपिअसङ्खयेयाः, प्रश्नसमयभाविनांनारकाणांमध्ये बहुभिरJain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342