Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 293
________________ २९० प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६०८ भावात्, तेभ्यो वेदनासमुद्घातेनासमवहताः असङ्ख्त्येयगुणाः, तेभ्योऽपि वैक्रियसमुद्घातेन समवहताः असङ्ख्येयगुणाः, प्रभूतानां वैक्रियलब्धेर्भावात्, तेभ्योऽपि मारणान्तिकसमुद्घातेन समवहता असत्येयगुणाः, सम्मूर्च्छिमजलचरस्थलचरखचराणामपि सर्वेषां वैक्रियलब्धिरहितानां प्रत्येकं पूर्वोक्तेभ्योऽसङ्घयेयगुणानां केषाञ्चित् गर्भजानामपि वैक्रियलब्धिरहितानां वैक्रियलब्धिमतां च मरणसमुद्घातसम्भवात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धताः असङ्घयेयगुणाः, म्रियमाणजीवराश्यपेक्षया अपि अम्रियमाणानामसङ्घत्येयगुणानां वेदनासमुद्घातभावात्, तेभ्यः कषायसमुद्घातेन समुद्धताः सङ्घयेयगुणाः, तेभ्योऽप्यसमवहताः सङ्घयेयगुणाः, अत्र भावना प्रागिव । मनुष्यसूत्रे सर्वस्तोका आहारकसमुद्घातेन समुद्धताः, अतिस्तोकानामेककालमाहारकशरीरप्रारम्भसंभवात्, तेभ्यः केवलिसमुद्घातेन समुद्धताः सङ्घयेयगुणाः, शतपृथकत्वसङ्ख्यया प्राप्यमाणत्वात्, तेभ्यस्तैजससमुद्घातेन समवहताः सङ्घयेयगुणाः, शतसहस्रसङ्घयया तेषां प्राप्य- माणत्वात्, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्धताः सङ्घत्येयगुणाः कोटीसङ्घययालभ्यमानत्वात, तेभ्योऽपि मारणान्तिकसमुद्घातेन समवहता असङ्घत्येयगुणाः सम्मूर्च्छिममनुष्याणामपि तद्भावात्, तेषां चासङ्घयेयत्वात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता असङ्घयेयगुणाः, म्रियमाणराश्यपेक्षया असङ्घयेयगुणानामम्रियमाणानां तद्भावसम्भवात्, तेभ्यः कषायसमुद्घातेन समुद्धताः सङ्घयेयगुणाः, प्रभूततया तेषां प्राप्यमाणत्वात्, तेभ्योऽप्यसमवहता असङ्घयेयगुणाः, सम्मूर्च्छिममनुष्याणामल्पकषायाणामुत्कटषायिभ्योऽसङ्घयेयगुणानां सदा लभ्यमानत्वात् । व्यन्तरज्योतिष्कवैमानिका यथा असुरकुमारास्तथा वक्तव्याः । तदेवमुक्तं समुद्धतासमुद्धतविषयमल्पबहुत्वं, अधुना कषायसमुद्घातगतां विशेषवक् तव्यतामभिधित्सुराह सू. (६०९) कति णं भंते! कसायसमुग्धाया पन्नत्ता ?, गो० ! चत्तारि कसायसमुग्धाया पं० तं० - कोहसमुग्धाते माणस० मायास० लोहसमुग्धाते !, नेरइयाणं भंते! कतिकसायसमुग्धाया पं० ?, गो० ! चत्तारि कसायसमुग्धाता पं० एवं जाव वेमाणियाणं, एगमेगस्स णं भंते! नेरइयस्स केवतिता कोहसमुग्धाता अतीता ?, गो० ! अनंता, केवतिता पुरे० ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्को० संखेज्जा वा असंखेज्जा वा अनंता वा, एवं जाव वेमाणियस्स, एवं जाव लोभसमुग्धाते एते चत्तारि दंडगा । नेरइयाणं भंते! केवइया कोहसमु० अतीता ?, गो० ! अनंता, के० पु० ?, गो० ! अनंता, एवं जाव वेमाणियाणं, एवं जाव लोभसमुग्धाए, एवं एएवि चत्तारि दंडगा । एगमेगस्स णं भंते! नेरइयस्स नेरइयत्ते केवइया कोहस० अतीता ?, गो० ! अनंता, एवं जहा वेदनासमुग्दायतो भणितो तहा कोहसमुग्धातोवि निरवसेसं जाव वेमाणियत्ते, माणसमुग्धाए मायासमुग्धातेवि निरवसेसं जहा मारणंतियसमुग्धाते लोहसमुग्धातो जहा कसायसमुग्धातो नवरं सव्वजीवा असुरिदिनेरइएस मोहकसाएणं एगुत्तरियाते नेतव्वा । नेरइयाणं भंते! नेरइयत्ते केवइया कोहसमु० अतीता ?, अनंता, के० पु० ?, गो० ! अनंता, एवं जाव वेमाणियत्ते, एवं सद्वाणपरट्ठाणेसु सव्वत्थ भाणियव्वा, सव्वजीवाणं चत्तारिवि समुग्धाया जाव लोभसमुग्धातो जाव वेमाणियाणं वेमाणियत्ते । वृ. 'कइ ण 'मित्यादि, इदं सामान्यतः कषायसमुद्घातविषयं चतुर्विंशतिदण्डकक्रमगतं For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342