________________
२९०
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६०८
भावात्, तेभ्यो वेदनासमुद्घातेनासमवहताः असङ्ख्त्येयगुणाः, तेभ्योऽपि वैक्रियसमुद्घातेन समवहताः असङ्ख्येयगुणाः, प्रभूतानां वैक्रियलब्धेर्भावात्, तेभ्योऽपि मारणान्तिकसमुद्घातेन समवहता असत्येयगुणाः, सम्मूर्च्छिमजलचरस्थलचरखचराणामपि सर्वेषां वैक्रियलब्धिरहितानां प्रत्येकं पूर्वोक्तेभ्योऽसङ्घयेयगुणानां केषाञ्चित् गर्भजानामपि वैक्रियलब्धिरहितानां वैक्रियलब्धिमतां च मरणसमुद्घातसम्भवात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धताः असङ्घयेयगुणाः, म्रियमाणजीवराश्यपेक्षया अपि अम्रियमाणानामसङ्घत्येयगुणानां वेदनासमुद्घातभावात्, तेभ्यः कषायसमुद्घातेन समुद्धताः सङ्घयेयगुणाः, तेभ्योऽप्यसमवहताः सङ्घयेयगुणाः, अत्र भावना प्रागिव ।
मनुष्यसूत्रे सर्वस्तोका आहारकसमुद्घातेन समुद्धताः, अतिस्तोकानामेककालमाहारकशरीरप्रारम्भसंभवात्, तेभ्यः केवलिसमुद्घातेन समुद्धताः सङ्घयेयगुणाः, शतपृथकत्वसङ्ख्यया प्राप्यमाणत्वात्, तेभ्यस्तैजससमुद्घातेन समवहताः सङ्घयेयगुणाः, शतसहस्रसङ्घयया तेषां प्राप्य- माणत्वात्, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्धताः सङ्घत्येयगुणाः कोटीसङ्घययालभ्यमानत्वात, तेभ्योऽपि मारणान्तिकसमुद्घातेन समवहता असङ्घत्येयगुणाः सम्मूर्च्छिममनुष्याणामपि तद्भावात्, तेषां चासङ्घयेयत्वात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता असङ्घयेयगुणाः, म्रियमाणराश्यपेक्षया असङ्घयेयगुणानामम्रियमाणानां तद्भावसम्भवात्, तेभ्यः कषायसमुद्घातेन समुद्धताः सङ्घयेयगुणाः, प्रभूततया तेषां प्राप्यमाणत्वात्, तेभ्योऽप्यसमवहता असङ्घयेयगुणाः, सम्मूर्च्छिममनुष्याणामल्पकषायाणामुत्कटषायिभ्योऽसङ्घयेयगुणानां सदा लभ्यमानत्वात् । व्यन्तरज्योतिष्कवैमानिका यथा असुरकुमारास्तथा वक्तव्याः । तदेवमुक्तं समुद्धतासमुद्धतविषयमल्पबहुत्वं, अधुना कषायसमुद्घातगतां विशेषवक् तव्यतामभिधित्सुराह
सू. (६०९) कति णं भंते! कसायसमुग्धाया पन्नत्ता ?, गो० ! चत्तारि कसायसमुग्धाया पं० तं० - कोहसमुग्धाते माणस० मायास० लोहसमुग्धाते !,
नेरइयाणं भंते! कतिकसायसमुग्धाया पं० ?, गो० ! चत्तारि कसायसमुग्धाता पं० एवं जाव वेमाणियाणं, एगमेगस्स णं भंते! नेरइयस्स केवतिता कोहसमुग्धाता अतीता ?, गो० ! अनंता, केवतिता पुरे० ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्को० संखेज्जा वा असंखेज्जा वा अनंता वा, एवं जाव वेमाणियस्स, एवं जाव लोभसमुग्धाते एते चत्तारि दंडगा ।
नेरइयाणं भंते! केवइया कोहसमु० अतीता ?, गो० ! अनंता, के० पु० ?, गो० ! अनंता, एवं जाव वेमाणियाणं, एवं जाव लोभसमुग्धाए, एवं एएवि चत्तारि दंडगा ।
एगमेगस्स णं भंते! नेरइयस्स नेरइयत्ते केवइया कोहस० अतीता ?, गो० ! अनंता, एवं जहा वेदनासमुग्दायतो भणितो तहा कोहसमुग्धातोवि निरवसेसं जाव वेमाणियत्ते, माणसमुग्धाए मायासमुग्धातेवि निरवसेसं जहा मारणंतियसमुग्धाते लोहसमुग्धातो जहा कसायसमुग्धातो नवरं सव्वजीवा असुरिदिनेरइएस मोहकसाएणं एगुत्तरियाते नेतव्वा ।
नेरइयाणं भंते! नेरइयत्ते केवइया कोहसमु० अतीता ?, अनंता, के० पु० ?, गो० ! अनंता, एवं जाव वेमाणियत्ते, एवं सद्वाणपरट्ठाणेसु सव्वत्थ भाणियव्वा, सव्वजीवाणं चत्तारिवि समुग्धाया जाव लोभसमुग्धातो जाव वेमाणियाणं वेमाणियत्ते ।
वृ. 'कइ ण 'मित्यादि, इदं सामान्यतः कषायसमुद्घातविषयं चतुर्विंशतिदण्डकक्रमगतं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org