SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः-, द्वारं २९१ च सूत्रसुप्रतीतं, सम्प्रत्येकैकस्य नैरयिकादेश्चतुर्विंशतिदण्डकक्रमेणवैमानिकपर्यवसानस्य तद्वक्तव्यतामाह-एगमेगस्स णं भंते !' इत्यादि, अत्रातीतसूत्रं सुप्रतीतं, पुरस्कृतसूत्रे 'कस्सइ अस्थि कस्सइनस्थितियो नरकभवप्रान्तेवर्तमानः स्वभावत एवाल्पकषायः कषायसमुद्घातमन्तरेण कालं कृत्वा नरकादुद्वृत्तो मनुष्यभवं प्राप्य कषायसमुद्घातमगत एव सेत्स्यति तस्य नास्ति पुरस्कृत एकोऽपि कषायसमुद्घातो, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ त्रयो वा, तेच प्रागुक्तस्वरूपस्य सकृत्कषायसमुद्घातगामिनोवेदितव्याः, उत्कर्षतः सङ्खयेयाअसङ्ख्येयाअनन्ता वा, तत्र सङ्ख्येयंकालंसंसारावस्थायिनः सङ्ख्येयाःअसङ्खयेयंकालमसङ्खयेयाःअनन्तकालमनन्ताः, एवमसुर-कुमारादिक्रमेण तावद् वाच्यं यावद्वैमानिकस्य, ___“एव'मित्यादि, एवं-चतुर्विंशतिदण्डकक्रमेण मानादिकषायसमुद्घातसमुद्धतास्तावद्वक्तव्याःयावल्लोभसमुद्घातः, एवमेते चत्वारः चतुर्विंशतिदण्डका भवन्ति, एतेचैकैकनैरयिकादिविषया उक्ताः, सम्प्रत्येतानेव चतुश्चतुर्विंशतिदण्डकान् सकलनारकादिविषयानाह'नेरइयाण मित्यादि, अतीतसूत्रं सुप्रतीतं, पुरस्कृताअनन्ताः, प्रश्नसमयभाविनांनारकाणांमध्ये बहूनामनन्तकालमवस्थायित्वात्, एवं-नैरयिकोक्तेन प्रकारेण तावद्वक्तव्यं यावद्वैमानिकानां यथा चैषः क्रोधसमुद्घातश्चतुर्विंशतिदण्डकक्रमेणोक्तः एवं मानादिसमुद्घाता अपि तावद्वक्तव्यायावल्लोभसमुद्घातः। एवमेतेऽपिसकलनारकादिविषयाश्चत्वारश्चतुर्विंशतिदण्डका भवन्ति, साम्प्रतमेकैकस्यनैरयिकादेनॆरयिकादिषुभावेषुवर्तमानस्यकतिक्रोधसमुद्घाताअतीताः कति भाविन इति निरूपयितुकाम आह– “एगमेगस्सण'मित्यादि, एकैकस्य भदन्त ! नैरयिकस्य विवक्षितप्रश्नसमयकालात् पूर्वं सकलमतीतं कालमवधीकृत्य तदा तदाऽस्य नैरयिकत्वं प्राप्तस्य सतः सर्वसङ्घययाकियन्तः क्रोधसमुद्घाताअतीताः?,भगवानाह-गौतम! अनन्ताः नरकगतेरनन्तशःप्राप्तत्वात्, एकैकस्मिंश्च नरकभवेजघन्यपदेऽपि सङ्खयेयानांक्रोधसमुद्घातानां भावात्, ___ एवंजहे' त्यादि, एवमुपर्शितेनप्रकारेणयथावेदनासमुद्घातः प्राग्भणितःतथाक्रोधसमुद्घातोऽपि भणितव्यः, कथं भणितव्य इत्याह-निरवशेषंक्रियविशेषणमेतत्, सामस्त्येनेत्यर्थः, कियडूरंयावत् भणितव्यमित्याह-याववैमानिकत्वे, वैमानिकस्य वैमानिकत्वइत्यालापकंयावदित्यर्थः, सचैवं-'केवइयापुरेक्खडा?,गोयमा! कस्सइअस्थि कस्सइनत्थि,जस्सत्यि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा, एवमसुरकुमारत्तेजाव वेमाणियत्ते,' 'एगमेगस्सणं भंते ! असुरकुमारस्स नेरइयत्ते केवइया कोहसमुग्घाया अईया?, गो० ! अनंता, केवइया पुरेक्खडा?, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स सिय संखेज्जा सिय असं० सिय अनंता, एगमेगस्स णं भंते ! असुरकुमारस्स असुरकुमारत्ते केवइया कोहसमुग्धायाअतीता?, गो०! अनंता, केव० पुरे०?, गो०!क० अस्थिक० नत्थि, जस्सस्थि जह० एक्को वा दो वा तिन्नि वा उक्को० संखेज्जा वा असंखेज्जा वा अनंता वा, एवं नागकुमारत्ते जाव वेमाणियत्ते, एवं जहाअसुरकुमारेसुनेरइया वेमाणियपज्जवसाणेसुभणिया तहा नागकुमारादिया सट्ठाणपरट्ठाणेसु भणियव्वा जाव वेमाणियत्ते' इति, अस्यार्थः-कियन्तो भदन्त ! एकैकस्य नारकस्यासंसारमोक्षमनन्तं कालं मर्यादीकृत्य नैरयिकत्वे भाविनः सतः सर्वसङ्ख्यया पुरस्कृताः क्रोधसमुद्घाताः?, भगवानाह-'कस्सइअस्थि' इत्यादि, य आसन्नमरणः क्रोसमुद्घातमनासाद्यात्यन्तिकमरणेन नरकादुवृत्तः सेत्स्यति तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy