SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६०९ नास्ति नैरयिकत्वभाविन एकोऽपि पुरस्कृतः क्रोधसमुद्घातः, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापिजघन्यतएको द्वौत्रयोवा, एतच्च क्षीणशेषायुषांतद्भावस्थानांभूयोनरकेषुउत्पद्यमानानां वेदितव्यं, भूयो नपरकेषूत्पत्तौ हि जघन्यपदेऽपि सङ्ख्येयाः प्राप्यन्ते, नैरयिकाणांक्रोधसमुद्घातप्रचुरत्वात्, उत्कर्षतःसङ्खयेयावाअसङ्ख्येयावाअनन्तावा, तत्रसकन्नरकेषुजघन्यस्थितिकेषूपत्स्यमानस्य सङ्खयेया अनेकशोयदिवा दीर्घस्थितिकेषुसकृदपि उत्पत्स्यमानस्यासङ्ख्येयाः अनन्तश उत्पत्स्यमानस्यानन्ताः, 'एव'मित्यादि, एवं-नैरयिकोक्तप्रकारेणासुरकुमारत्वेतदनन्तरंचतुर्विशतिदण्डकक्रमेण तावद् वक्तव्यं यावद्वैमानिकत्वविषयं सूत्रं, तच्चैवं-'एगमेगस्सणं भंते ! नेरइयस्स वेमाणियत्ते केवइया कोहसमुग्घाया अईया?, गो० ! अनंता, केवइया पुरे०?, गो० ! कस्सइ अस्थि क० नत्थि, जस्सस्थि जह० एक्को वा दो वा तिन्नि वा उक्को० संखेज्जा वा असं० अनंता वा,' अत्राप्ययं भावार्थ:-अतीतचिन्तायामनन्ताः,अनन्तशोवैमानिकत्वस्य प्राप्तत्वात्, पुरस्कृतचिन्तायां योऽनन्तरभवे नरकादुवृ त्तो मानुषत्वमवाप्य सेत्स्यति प्राप्तो वा परम्परया सकृद्वैमानिकभवं न क्रोधसमुद्घातं गन्ता तस्यैकोऽपि पुरस्कृतः क्रोधसमुद्घातो वैमानिकत्वे न विद्यते, यस्त्वसकृद्वैमानिकत्वं प्राप्तः सन् सकृदेव क्रोधसमुद्घातं याता तस्य जघन्यत एको द्वौ वा त्रयो वा, शेषस्य सङ्ख्यातान् वारान् वैमानिकत्वं प्राप्स्यतः सङ्ख्येयाः असङ्खयेयान् वारान् असङ्खयेयाः अनन्तान् वारान् अनन्ताः, “एगमेगस्स ण'मित्यादि प्रश्नसूत्रं सुगमं, 'गो० ! अनंता' इति, अनन्तशो नैरयिकत्वं प्राप्तस्य, एककैस्मिंश्च नैरयिकभवेजघन्यपदेऽपि सङ्ख्येयानांक्रोधसमुद्घातानाभावात्, पुरस्कृताः कस्यचित्सन्तिकस्यचिन्न सन्ति, किमुक्तं भवति?-योऽसुरकुमारभवादुवृत्तोन नरकंयास्यति किन्त्वनन्तरं परम्परया वामनुष्यभनवमवाप्य सेत्स्सयति तस्य नैरयिकावस्थाभाविनः पुरस्कृताः क्रोधसमुद्घातानसन्ति, नैरयिकत्वावस्थायाएवासम्भवात्, यस्तुतद्भवादूचंपारम्पर्येण नरकगामी तस्य सन्ति, तस्यापिकस्यचित् सङ्ख्येयाः कस्यचिदसङ्ख्येयाः कस्यचिदनन्ताः, तत्र यः सकृजधन्यस्थितिकेषु नरकमध्येषु समुत्पत्स्यतेतस्यजघन्यपदेऽपि सङ्कयेयाः दशवर्षसहस्रप्रमाणायामपि स्थितौ सङ्घयेयानां क्रोधसमुद्घातानां भावात्, क्रोधबहुलत्वान्नारकाणां, असकृत् दीर्घस्थितिषु सकृद्वा गमनेऽसङ्खयेयाः अनन्तशो नरकगमनेऽननताः, तथा एकैकस्य भदन् ! असुरकुमारस्य असुरकुमारत्वे स्थितस्य सतः सकलमतीतकालमधिकृत्य कियन्तःक्रोधसमुद्घाताअतीताः?, भगवानाह-अनन्ताःअनन्तशोऽसुरकुमारभावस्य प्राप्तत्वात्, प्रतिभवं च क्रोधसमुद्घातस्य प्रायो भावात्, पुरस्कृतचिन्तायां कस्यापि सन्ति, यस्य प्रश्नकालादूध्व असुरकुमारत्वेऽपि वर्तमानस्य न भावी क्रोधसमुद्घातो नापि तत उद्वत्तो भूयोऽप्यसुरकुमारत्वं यातातस्य न सन्ति, यस्तु सकृदसुरकुमारत्वमागामीतस्य जघन्यपदे एको वा द्वौ वा त्रयो वा उत्कर्षतः सङ्खयेया असङ्खयेया अनन्ता वा, सङ्ख्येयान् वारान् आगामिनः सङ्खयेया असङ्ख्येयान् वारान् असङ्खयेयाः अनन्तान्वारान् अनन्ताः, एवं चतुर्विंशतिदण्डकक्रमेण नागकुमारत्वादिषु स्थानेषु असुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चाह __“एवं नागकुमारत्तेऽवी'त्यादि, तदेवमसुरकुमारेषु क्रोधसमुद्घातश्चिन्तितः, सम्प्रति नागकुमारादिष्वतिदेशमाह-'एव'मित्यादि, एवमुक्तेनाभिलापगतेन प्रकारेण यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy