SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २९३ पदं-३६, उद्देशकः-, द्वारचतुर्विंशतिदण्डकक्रमेण असुरकुमारो नैरयिकादिषु वैमानिकपर्यवसानेषु भणित; तथा नागकुमारादयः समस्तेषु स्वस्थानपरस्थानेषु भणितव्याः यावद्वैमानिकस्य वैमानिकत्वे आलापकः, एवमेतानि नैरयिकचतुर्विंशतिदण्डकादिसूत्राणि वैमानिकचतुर्विंशतिदण्डकपर्यवसानानि चतुर्विंशतिःसूत्राणि वेदितव्यानि। तदेवं चतुर्विंशतिदण्डसूत्रैः क्रोधसमुद्घातश्चिन्तितः, सम्प्रति चतुर्विंशत्यैव चतुर्विंशतिदण्डकसूत्रैर्मानसमुद्घातंमायासमुद्घातंचाभिधित्सुरतिदेशमाह-'मानसमुग्घाए मायासमुग्घाए निरवसेसंजहा मारणंतियसमुग्धाए' इति, यथा-प्राकमारणान्तिकसमुद्घातेऽभिहितं सूत्रंतथा मानसमुद्घाते मायासमुद्घाते च निरवशेषमभिधातव्यं, तच्चैवं 'एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्त केवइया मानसमुग्धाया अईया ? गोयमा ! अनंता, केवइया पुरेक्खडा?, गो०! कस्सइ अत्यिकस्सइ नत्थि, जस्स अस्थि जहन्नेणं एक्कोवा दोवा तिन्निवा उक्कोसेणंसंखेज्जा वाअसंखेज्जा वाअनंता वा, एवमसुरकुमारत्तेजाव वेमाणियत्ते, एगमेगस्सणं भंते! असुरकुमारस्सनेरइयत्ते केवइया मानसमुग्धायाअतीता? गोयमा अनंता, केवइया पुरेक्खडा?, गो० ! कस्सइ अत्थि कस्सइनस्थि, जस्सत्थि जहन्नेणं एको वा दो वा तिनि वा उक्को० संखेज्जा वा असंखेज्जावा अनंता वा, एवं नागकुमारत्तेजाव वेमाणियत्ते, एवं जहा असुरकुमारे नेरइया वेमाणियपज्जवसाणेसु भणिया तहा नागकुमाराइया सट्टाणपरहाणेसु भाणियव्वाजाववेमाणियस्स वेमाणियत्ते' अस्यायमर्थः-अतीतेषुसूत्रेषुसर्वत्राप्यनन्तत्वंसुप्रतीतं, नैरयिककत्वादिस्थानानि प्रत्येकमनन्तशः,प्राप्तत्वात, पुरस्कृतचिन्तायांत्वेवंनैरयिकस्य नैरयिकत्वे भावना-यो नैरयिकः प्रश्नकालादूर्ध्वं मानसमुद्गातमन्तरेण कालं कृत्वा नरकादुवृत्तोऽनन्तरं पारम्पर्येण वा मनुष्यभवमवाप्य सेत्स्यति न भूयो नरकमागन्ता तस्य न सन्ति पुरस्कृता मानसमुद्घाताः, यः पुनस्तद्मवेवर्तमानो भूयो वा नरकमागत्यैकं वारंमानसमुद्घातं गत्वा कालकरणेन नरकादुवृत्तः सेत्स्यति तस्यैकः पुरस्कृतो मानसमुद्घातः, एवमेव कस्यापि द्वौ कस्यापि त्रयः सङ्ख्येयान् वारान् नरकमागन्तुः सङ्खयेयाः असङ्खयेयान् वारान् असङ्खयेयाः अनन्तान् वारान् अनन्ताः, नैरयिकस्यैवासुरकुमारत्वे पुरस्कृतचिन्तायामियं भावना यो नरकादुवृत्तो असुरकुमारत्वं न यास्यति तस्य न सन्ति पुरस्कृता मानसमुद्घाताः, यस्त्वेकं वारं गन्ता तस्य एको द्वौ त्र्यादयो वा सङ्खयेयान् वारान् गन्तुः सङ्खयेयाः असङ्खयेयान् वारान् असङ्खयेयाः अनन्तान् वारान् अनन्ता, एवं तावद् भणनीयं यावत् तिर्यक्पञ्चेन्द्रियत्वे पुरस्कृतचिन्ता, मनुष्यचिन्तायां चैवं भावना-यो नरकादुद्वृत्तो मनुष्यभवं प्राप्य मानसमुद्घातगत्वा सेत्स्यति तस्य नास्त्येकोऽपिपुरस्कृतोमानसमुद्घातो, यस्तुमनुष्यत्वंगतः सन्नेकवारंमानसमुद्घातं गन्ता तस्यैकोऽपरस्य द्वावन्यस्य त्र्यादयः सङ्खयेयान्वारान् गन्तुः सङ्खयेयाः असङ्खयेयान्वारान् असङ्ख्येयाः अनन्तान्वारान्अनन्ता;, व्यन्तरज्योतिष्कवैमानिकत्वेषु भावना यथाअसुरकुमारत्वे यथा च नैरयिकस्य नैरयिकत्वादिषुचतुर्विंशतिस्थानेषुभावना कृता तथा असरुकुमारादीनामपि वैमानिकपर्यवसानानां चतुर्विंशतिदण्डकक्रमेणकर्वया, यथाचमानसमुद्घातस्य चतुर्विंशतिः सूत्राणि चतुर्विंशतिदण्डकक्रमेणोक्तानि तथा मायासमुद्घातस्यापि चतुर्विंशतिसूत्राणि चतुर्विंशतिदण्डकक्रमेण वक्तव्यानि, तुल्यगमकत्वात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy