Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 300
________________ पदं-३६, उद्देशकः-, द्वारं २९७ पुरस्कृताः?, गौतम! अनन्ताः, प्रश्नसमयभाविनांमध्ये बहूनामनन्तशो नैरयिकत्वंप्राप्तुकामत्वात् "एव'मित्यादि, __ एवं-नैरयिकगतेनाभिलापप्रकाकेण चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रैर्निरन्तरं तावद्वक्तव्यं यावद्वैमानिकस्य वैमानिकत्वे-वैमानिकविषयं सूत्र, तचैवं-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया कोहसमुग्घाया अतीता?, गो० ! अनंता, केवइया पुरेक्खडा ?, गो० ! अनंता' भावना प्राग्वत्, यथा च क्रोधसमुद्घाताः सर्वेषु जीवेषु स्वस्थाने परस्थाने चातीताः पुरस्कृताश्चानन्तत्वेनाभिहिताः तथा मानादिसमुद्घाताअपि वाच्याः, तथा चाह-“एव'मित्यादि, एवं-क्रोधसमुद्घातगतेनप्रकारेण चत्वारोऽपि समुद्घाताः सर्वत्रापि स्वस्थानपरस्थानेषुवाच्याः, यावल्लोभसमुद्घातो वैमानिकत्वविषय उक्तो भवति, स चैवं-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया लोभसमुग्धाया अतीता?, गो०! अनंता, केवइया पुरेक्खडा?, गो० ! अनंता' सुगम। तदेवं नैरयिकादिबहुत्वविषया अपि क्रोधादिसमुद्घाताः प्रत्येकं चुतर्विंशत्या चतुर्विंशतिदण्डकसूत्रैश्चिन्तिताः, सम्प्रति क्रोधादिसमुद्घातैः शेषसमुद्घातैश्च समवहतानामसमवहतानां च परस्परमल्पबहुत्वभिधित्सुः प्रथमतः समामान्यतो जीवविषयं तावदाह मू. (६१०) एतेसिणं भंते! जीवाणं कोहसमुग्घातेणं माणसमुग्घातेणं मायासमुग्घातेणं लोभसमुग्घातेण य समोहयाणं अकसायसमुग्घातेणं समोहयाणं असमोहयाण य कयरे२हितो अप्पा वा ४?, गो०! सव्वत्थोवा जीवा अकसायसमुग्घाएणं समो०, माणसमुग्घाएणं समोहया अनंत०, कोहस० समो० विसेसाहिया मायासमुग्घाएणंस० विसे० लोभसमु० स० वि० असमोहया संखेजगुणा, . एतेसिणंभंते! नेरइयाणंकोहस० मानस० मायास० लोभस० समोहयाणं असभोहयाण यकयरेशहिंतो अप्पा वा ४?, गो०! सव्वत्थोवा नेरइया लोभसमुग्घाएणं समोहया मायास० स० संखेज० माणस० स० संखे० कोहस० संखे० असमोहया संखे०, असुरकुमाराणं पुच्छा, गो० ! सव्वत्थोवा असुरकुमाराणं कोहस० समो० मानसमुग्धाएणं स० संखे० मायास० स० सं० लोभस० समो० संखे० असमोहया सखेज्जगुणा, एवं सव्वदेवा जाव वेमाणिया, पुढविकाइयाणं पुच्छा, गो० ! सव्वत्थोवा पुढविकाइया मानसमुग्धाएणं समोहया कोहसमु० स० विसे० मायासमु० स० विसे० लोभस० स० विसे० असमो० संखे, एवंजाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरंमानसमु० स० असं० वृ. “एएसि ण'मित्यादि, एतेषां भदन्त ! जीवानां क्रोधसमुद्घातेन मानसमुद्घातेन मायासमुद्घातेन लोभसमुद्घातेन च समवहतानां _ 'अकषायेणेति कषायव्यतिरेकेण शेषेण समुद्घातेनसमवहतानामसमवहतानांच कतरे कतरेभ्यः अल्प वा बहवो वा ‘अर्थवशाद्विभक्तिपरिणाम' इति न्यायात् पञ्चम्याः स्थाने तृतीयापरिणामनात्तुकतरैः कतरैस्तुल्यावा, तथा कतरेरभ्यो विशेषाधिकाः, एवं गौतमेन पृष्टे भगवानाहगौतम! सर्वस्तोकाजीवाअकषायसमुद्घातेन कषायव्यतिरिक्तेन शेषवेदनादिवसमुद्घातषट्केन समवहताः, कषायव्यतिरिक्तसमुद्घातसमुद्घताहिक्कचित्कदाचित् केचिदेवप्रतिनियतालभ्यन्ते, ते चोत्कर्षपदेऽपि कषायसमुद्घातसमवहतापेक्षया अनन्तभागे वर्तन्ते, ततःस्तोकाः, तेभ्यो मानसमुद्घातसमवहता अनन्तगुणाः, अनन्तानां वनस्पतिजीवानां पूर्वभवसंस्कारानुवृत्तितो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342