Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-३६, उद्देशकः-, द्वार
२८३ नैरयिकादिषु चतुर्विंशतिस्थानेषु चिन्ता कृता तथाऽसुरकुमारादीनां वैमानिकपर्यवसानानां चतुर्विंशतिदण्डकक्रमेण कर्त्तव्या, तदेवमन्यान्यपिचतुर्विंशतिर्दण्डकसूत्राणिभवन्ति, तथा चाह_ “एवं एए चउवीसं चउवीसा दंडगा भाणियव्वा' इति, उक्तो मारणान्तिकसमुद्घातश्चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रैः, साम्प्रतमेतावत्सङ्ख्यायकैरेव सूत्रैक्रियसमुद्घातं विवक्षुराह
_ 'वेउव्विए'इत्यादि, वैक्रियसमुद्घातो यथा कषायसमुद्घातः प्राक् प्रतिपादित; तथा निरवशेषोभणितव्यः, केवलं यस्य वैक्रियसमुद्घातोनास्ति वैक्रियलब्धेरैवासम्भवात्तस्य नोच्यते, शेषस्य उच्यते, स चैवं
___'एगमेगस्सणं भंते ! नेरइयस्स नेरइयत्ते केवइया वेउब्वियसमुग्घायाअतीता?, गो० ! अनंता, केवइया पुरेक्खडा?, गो०! कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि जहन्नेणं एक्को वा दोवा तिन्नि वा उक्कोसेणं सिय संखेज्जा वा सिय असंखेज्जा वा सियअनंता वा । एगमेगस्सणंभंते नेरइयस्सअसुरकुमारत्ते केवइया केउब्वियसमुग्घायाअतीता?, गो०! अनंता, केवइयापुरेक्खडा?, गो०! कस्सइअस्थि कस्सइ नत्थि, जस्सत्थि सिय संखिज्जा सियअसंखिज्जा सिय अनंता वा, एवं नेरइयस्स जाव थणियकुमारत्ते।।
एगमेगस्स णं भंते ! नेरइयस्स पुढविकाइयत्ते केवइया वेउव्वियसमुग्घाया अतीता?, गो० ! नत्थि, केवइया पुरेक्खडा?, गो० ! नत्थि, एवं जाव तेउक्काइयत्ते, एगमेगस्स णं भंते ! नेरइयस्सवाउकाइयपत्ते केवइयावेउब्वियसमुग्धायाअतीता?,गो०!,अनंता, केवइयापुरेक्खडा गो०! कस्सइ अस्थि कस्सइनस्थि, जस्सस्थि जहन्नेणंएको वा दो वा तिन्निवा उक्को० संखेज्जा वा असं० अनंता वा, वणस्सइकाइयत्ते जाव चउरिदियत्ते जहा पुढविकाइत्ते, तिरिक्खपंचिंदियत्ते मणुसत्ते जहा वाउकाइयत्ते, वाणमंतरजोइसियवेमाणियत्तेसु जहा असुरकुमारत्ते' इह यत्र वैक्रियमसमुद्घातसम्भवस्तत्र भावना कषायसमुद्घातवद्भावनीया, अन्यत्रतुप्रतिषेधः सुप्रतीतो, वैक्रियलब्धिरेवासम्भवात्,
___ यथा च नैरयिकस्य चतुर्विंशदण्डकक्रमेण सूत्रमुपदर्शितमेवमसुरकुमारादीनामपि चतुर्विंशतिदण्डकक्रमेण प्रत्येकं सूत्रमवगन्तव्यं, नवरमसुरकुमारादिषुस्तनितकुमारपर्यवसानेषु व्यन्तरादिषु च परस्परं स्वस्थाने एकोत्तरिका परस्थाने सङ्खयेयादयो वक्तव्याः, वायुकायिकतिर्यक्पञ्चेन्द्रियमनुष्येषु तु परस्परं स्वस्थाने परस्थानवा एकोत्तरिकाः, शेषं तथैव, एवमेतान्यपि चतुर्विंशतिश्चतुर्विशतिदण्डकसूत्राणि भवन्ति, तथा चाह-“एवमेते चउवीसं चउवीसगा दंडगा भाणितव्वा'
एवं-उपदर्शितेन प्रकारेण अत्रापि-वैक्रियसमुद्घातविषयेऽपि चतुर्विंशतिःचतुर्विंशतिसङ्ख्ययाः 'चउवीसा' इति चतुर्विंशतिः-चतुर्विंशतिस्थानपरिमाणा दंडका-दण्डकसूत्राणि भणितव्यः । सम्प्रति तैजसमुद्घातमतिदेशत आह-'तेयगे'त्यादि, तैजसमुद्घातो यथा मारणान्तिकसमुद्घातस्तथा वक्तव्यः, किमुक्तं भवति?-स्वस्थाने परस्थाने च एकोत्तरिकया सवक्तव्या इति, नवरंयस्य नास्ति-नसम्भवति तैजसमुद्घातस्तस्य नवक्तव्यः, तत्र नैरयिकपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रिययेषु न सम्भवतीति न वक्तव्यः, शेषेषु तु वक्तव्यः, स चैवम्
“एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया तेउसमुग्धाया अतीता ?, गो० !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d0541c77c16ee981bb36f5372343cc99418f492c3f21a4ded40bdd7b408f14ce.jpg)
Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342