Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 274
________________ पदं - ३६, उद्देशक:-, द्वारं - हन्ति, एकमनन्तभागं मुञ्चति, अत्रापि प्रशस्तप्रकृत्यनुभागधातोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः, ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसङ्घयेयभागस्यानुभागस्य चानन्ततमभागस्य बुध्ध्या यथाक्रममसङ्घयेया अनन्ताश्च भागाः क्रियन्ते, ततश्चतुर्थसमये स्थितेरसङ्घयेयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्त्येकोऽवशिष्यते, प्रशस्तप्रकृत्यनुभाग- दातश्च पूर्ववदवसेयः, एवं च स्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतः केवलिनो वेदनीयादिकर्मत्रयस्थितिरायुषः सङ्घयेयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसङ्घयेयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्धया यथाक्रमं सङ्खयेया अनन्ताश्च भागाः क्रियन्ते, ततोऽवकाशान्तरसंहारसमये स्थितेः सङ्घयेयभागान् हन्ति, एकं सङ्घयेयभागं शेषीकरोति, अनुभागस्यानन्तान् भागान् हन्ति एकं मुञ्चति, एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्णं, समये २ स्थितिकण्डकानुभागकण्डघातनात्, अतः परं षष्ठसमयादारभ्य स्थितकण्डकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति, प्रयत्नमन्दीभावात्, षष्ठादिषु च समयेषु कण्डकस्य प्रतिसमयमेकैकं शकलं तावदुत्किरति यावदन्तर्मुहूर्तचरमसमये सकलमपि तत्कण्डकमुत्कीरणं भवति, एवमान्तर्मौहूर्तिकानि स्थितिकण्डककान्यनुभागकण्डकानि च घातयन् तावद्वेदितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसङ्घयेयान्यव - गन्तव्यानीति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र संग्रहणिगाथोक्तमर्थं स्पष्टयन् प्रथमतः समुद्घात - सङ्घयाविषयं प्रश्नसूत्रमाह २७१ मू. (६००) कति णं भंते! समुग्धाया पं० ?, गो० ! सत्त समुग्धाया पं०, तं० - वेदनासमुग्धाते १ कसायसमुग्घाते २ मारणंतियसमु० ३ वेउव्वियस० ४ तेयास० ५ आहारस० ६. केवलिसमुग्धाते ७ । " वेदनासमुग्धाए णं भंते! कतिसमइए पं० ?, गो० ! असंखेज्जसमइए अंतोमुहुत्तिते पं०, एवं जाव आहारसमुग्धाते, केवलिसमुग्धाए णं भंते! कतिसमइए पं० ?, गो० ! अट्ठसमए पं० नेरइयाणं भंते! कति समुग्धाया पं० ?, गो० ! चत्तारि समुग्धाया पं० तं० - वेदनासमुग्धाए कसायस० मारणंतियस० वेउव्वियस०, असुरकुमाराणं भंते! कति समुग्धाया पं० ?, गो० ! पंच समुग्धाया पं०, तं० - वेदणास० कसायस० मारणंतियस० वेउव्वियस० तेयासमुग्धाए, एवं जाव धणियकुमाराणं, पुढविकाइयाणं भंते! कति समुग्धाया पं० ?, गो० ! तिन्नि समुग्धाया पं०, तं०-वेदनास० कसायस० मारणंतियस०, एवं जाव चउरिंदियाणं, नवरं वाउकाइयाणं चत्तारि समुग्धाया पं०, तं० - वेदनास ०. कसायस० मारणंतियस० वेउव्वियस०, पंचिंदियतिरिकखजोणियाणं जाव वेमाणियाणं भंते! कति समुग्धाया पं० ?, गो० ! पंच समुग्धाया पं०, तं० - वेयणास० कसायस० मारणंतियस० वेउव्वियस० तेयास, नवरं मणूसाणं सत्तविहे समुग्धाए पं०, तं० - वेदनास० कसायस० मारणंतियस० वेउ० तेया० आहार० केवलिसमुग्घाते वृ. 'कइ 'मित्यादि, कति - किंतरिमाणा णमिति वाक्यालङ्कारे 'भदन्ते 'ति भगवतो वर्द्धमानस्वामिन आमन्त्रणं, भदन्तत्वं च भगवतः परमकल्याणयोगित्वात्, यदिवा भवान्तेति द्रष्टव्यं सकलसंसारपर्यन्तवर्त्तित्वात्, अथवा भयान्त ! इहपरलोकादिभेदभिन्नसप्तप्रकार For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342