Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 277
________________ २७४ प्रज्ञापनाउपाङ्गसूत्रम् -२- ३६/-// ६०१ वाच्या, अतीता अपि चत्वारः पुरस्कृता अपि चत्वार उत्कर्षतो वाच्या इत्यर्थः, सूत्रपाठश्चैवम्'एगमेगस्स णं मणूसस्स भंते! केवइया आहारसमुग्धाया अतीता ?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, केवइया पुरेक्खडा गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अत्थि जहन्नेणं एक्को दो वा तिन्नि वा उक्कोसेणं चत्तारि ' अत्र भावना-इह यश्चतुर्थवेलमाहारकशरीरंकरोति स नियमात्त तद्भव एव मुक्तिमासा दयति, न गत्यन्तरं कथमैतदवसीयते इति चेत् ?, उच्यते, सूत्रपौर्वापर्यपर्या लोचनात् तथाहि - यदि चतुर्थवेलमप्याहारकशरीरं कृत्वा गत्यन्तरं संक्रामेत ततो नैरयिकादावन्यतरस्यां गतौ उत्कर्षतश्चत्वारोऽप्याहारकस्य समुद्घाता उच्यरेन, न चोच्यन्ते, ततोऽवसीयते - चतुर्थवेलमाहारकशरीरं कृत्वा नियमात् तद्मव एव मुक्तो भवति न गत्यन्तरगामी, तत्र यः प्रागाहारकशरीरं कदाचनापि न कृतवान् तस्यातीत आहारकसमुद्घातो नास्ति, ततस्तदपेक्षयोक्तं 'कस्सइ नत्थि 'त्ति, यस्यापि सन्ति सोऽपि यदि पूर्वमेकवारमाहारकशरीरं कृतवान् तस्यैकोऽतीत आहारकस्य समुद्घातः द्वौ वारौ कृतवतो द्वौ त्रीन् वारान् कृतवस्त्रयो यश्चतुर्थवेलमाहारकशरीरं कृत्वा आहारकसमुद्घाताच्चतुर्थाव्प्रतिनिवृत्तो वर्त्तते न चाद्यापि मनुजभवंविजहाति तस्य चत्वारः, पुरस्कृता अपि समुद्घाताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र यश्चतुर्थवेलमाहारकशरीरं कृत्वा आहारकसमुद्घातात् प्रतिनिवृत्तो यदिवा पूर्वमकृताहारकशरीरोऽप्यथवा एकावरकृताहारकशरीरोऽपि यदिवा द्विकृत्वः कृताहारकशरीरोऽपि यदिवा त्रिकृत्वः कृताहारकशरीरोऽपि तथाविधसामग्र्यभावात् उत्तरकालमाहारकशरीरमकृत्वैव मुक्तिमवाप्स्यति तस्य पुरस्कृता आहारकसमुद्घाता न सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, तत्र एकादिसम्भवः पूर्वोक्तभावनानुसारेण स्वयं भावनीयंः यस्तु पूर्वकालमेकवारमपि आहारकशरीरं न कृतवान् अथ चोत्तरकालं तथाविधसामग्रीभावतो यावत्सम्भवमाहारकशरीरकर्त्ता तस्य चत्वारो न शेषस्य । सम्प्रति केवलि समुद्घातविषयं दण्डकसूत्रमाह-'एगमेगस्स ण' मित्यादि, एकैकस्य भदन्त नैरयिकस्य निरवधिकमतीतं कालधिकृत्य कियन्तः केवलिसमुद्घाता अतीताः ?, भगवानाह –'नत्थि’'त्ति नास्त्यतीत एकोऽपि केवलिसमुद्घातः, केवलिसमुद्घातानन्तरं ह्यन्तर्मुहूर्तेन नियमतो जीवाः परमपदमश्नुवते, ततो यद्यभविष्यत्वेवलिंसमुद्घातस्तर्हि नरकमेव नागमिष्यद्, अथ च सम्प्रति नरकगामिनो वर्त्तन्ते तस्मान्नास्त्येकस्याप्यतीतः केवलिसमुद्घातः 'केवइया पुरेक्खड' त्ति कियन्तः पुरस्कृताः केवलिसमुद्घाता इति प्रश्नः, भगवानाह - 'गोतम ! कस्सइ अस्थि कस्सइ नत्थि 'त्ति, इह केवलिसमुद्घात एकस्य प्राणिन आकालम क एव भवति, न द्वित्राः, ततोऽस्तीति निपातोऽत्र एकवचनान्तो वेदितव्यः, ततश्चायमर्थः - कस्यापि केवलिस-मुद्घातः पुरस्कृतोऽस्ति, यो दीर्घतरेणापि कालेन मुक्तिपदप्राप्तयवसरे विषमस्थितिकर्मा इति, कस्यापि नास्ति, यो मुक्तिपदमवाप्युमयोग्यो योग्यो वा केवलिसमुद्धागतमन्तरेणैव मुक्तिपदं गन्ता, तथा च वक्ष्यति 119 11 “अगंतूण समुग्धायमनंता केवलीजिना । जरमरणविप्पमुक्का, सिद्धिं वरगई गया ।" इति, इह अस्तीति निपातः सर्वलिङ्गवचन इत्यविदितसिद्धान्तस्य बहुत्वाशङ्कापि कस्यचित् For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342