________________
२७४
प्रज्ञापनाउपाङ्गसूत्रम् -२- ३६/-// ६०१
वाच्या, अतीता अपि चत्वारः पुरस्कृता अपि चत्वार उत्कर्षतो वाच्या इत्यर्थः, सूत्रपाठश्चैवम्'एगमेगस्स णं मणूसस्स भंते! केवइया आहारसमुग्धाया अतीता ?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, केवइया पुरेक्खडा गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अत्थि जहन्नेणं एक्को दो वा तिन्नि वा उक्कोसेणं चत्तारि ' अत्र भावना-इह यश्चतुर्थवेलमाहारकशरीरंकरोति स नियमात्त तद्भव एव मुक्तिमासा दयति, न गत्यन्तरं कथमैतदवसीयते इति चेत् ?, उच्यते, सूत्रपौर्वापर्यपर्या लोचनात् तथाहि - यदि चतुर्थवेलमप्याहारकशरीरं कृत्वा गत्यन्तरं संक्रामेत ततो नैरयिकादावन्यतरस्यां गतौ उत्कर्षतश्चत्वारोऽप्याहारकस्य समुद्घाता उच्यरेन, न चोच्यन्ते, ततोऽवसीयते - चतुर्थवेलमाहारकशरीरं कृत्वा नियमात् तद्मव एव मुक्तो भवति न गत्यन्तरगामी,
तत्र यः प्रागाहारकशरीरं कदाचनापि न कृतवान् तस्यातीत आहारकसमुद्घातो नास्ति, ततस्तदपेक्षयोक्तं 'कस्सइ नत्थि 'त्ति, यस्यापि सन्ति सोऽपि यदि पूर्वमेकवारमाहारकशरीरं कृतवान् तस्यैकोऽतीत आहारकस्य समुद्घातः द्वौ वारौ कृतवतो द्वौ त्रीन् वारान् कृतवस्त्रयो यश्चतुर्थवेलमाहारकशरीरं कृत्वा आहारकसमुद्घाताच्चतुर्थाव्प्रतिनिवृत्तो वर्त्तते न चाद्यापि मनुजभवंविजहाति तस्य चत्वारः, पुरस्कृता अपि समुद्घाताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र यश्चतुर्थवेलमाहारकशरीरं कृत्वा आहारकसमुद्घातात् प्रतिनिवृत्तो यदिवा पूर्वमकृताहारकशरीरोऽप्यथवा एकावरकृताहारकशरीरोऽपि यदिवा द्विकृत्वः कृताहारकशरीरोऽपि यदिवा त्रिकृत्वः कृताहारकशरीरोऽपि तथाविधसामग्र्यभावात् उत्तरकालमाहारकशरीरमकृत्वैव मुक्तिमवाप्स्यति तस्य पुरस्कृता आहारकसमुद्घाता न सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, तत्र एकादिसम्भवः पूर्वोक्तभावनानुसारेण स्वयं भावनीयंः यस्तु पूर्वकालमेकवारमपि आहारकशरीरं न कृतवान् अथ चोत्तरकालं तथाविधसामग्रीभावतो यावत्सम्भवमाहारकशरीरकर्त्ता तस्य चत्वारो न शेषस्य ।
सम्प्रति केवलि समुद्घातविषयं दण्डकसूत्रमाह-'एगमेगस्स ण' मित्यादि, एकैकस्य भदन्त नैरयिकस्य निरवधिकमतीतं कालधिकृत्य कियन्तः केवलिसमुद्घाता अतीताः ?, भगवानाह –'नत्थि’'त्ति नास्त्यतीत एकोऽपि केवलिसमुद्घातः, केवलिसमुद्घातानन्तरं ह्यन्तर्मुहूर्तेन नियमतो जीवाः परमपदमश्नुवते, ततो यद्यभविष्यत्वेवलिंसमुद्घातस्तर्हि नरकमेव नागमिष्यद्, अथ च सम्प्रति नरकगामिनो वर्त्तन्ते तस्मान्नास्त्येकस्याप्यतीतः केवलिसमुद्घातः 'केवइया पुरेक्खड' त्ति कियन्तः पुरस्कृताः केवलिसमुद्घाता इति प्रश्नः, भगवानाह - 'गोतम ! कस्सइ अस्थि कस्सइ नत्थि 'त्ति, इह केवलिसमुद्घात एकस्य प्राणिन आकालम क एव भवति, न द्वित्राः, ततोऽस्तीति निपातोऽत्र एकवचनान्तो वेदितव्यः, ततश्चायमर्थः - कस्यापि केवलिस-मुद्घातः पुरस्कृतोऽस्ति, यो दीर्घतरेणापि कालेन मुक्तिपदप्राप्तयवसरे विषमस्थितिकर्मा इति, कस्यापि नास्ति, यो मुक्तिपदमवाप्युमयोग्यो योग्यो वा केवलिसमुद्धागतमन्तरेणैव मुक्तिपदं गन्ता, तथा च वक्ष्यति
119 11
“अगंतूण समुग्धायमनंता केवलीजिना । जरमरणविप्पमुक्का, सिद्धिं वरगई गया ।" इति,
इह अस्तीति निपातः सर्वलिङ्गवचन इत्यविदितसिद्धान्तस्य बहुत्वाशङ्कापि कस्यचित्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International