________________
पदं - ३६, उद्देशक:-, द्वारं -
हन्ति, एकमनन्तभागं मुञ्चति, अत्रापि प्रशस्तप्रकृत्यनुभागधातोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः, ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसङ्घयेयभागस्यानुभागस्य चानन्ततमभागस्य बुध्ध्या यथाक्रममसङ्घयेया अनन्ताश्च भागाः क्रियन्ते, ततश्चतुर्थसमये स्थितेरसङ्घयेयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्त्येकोऽवशिष्यते, प्रशस्तप्रकृत्यनुभाग- दातश्च पूर्ववदवसेयः,
एवं च स्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतः केवलिनो वेदनीयादिकर्मत्रयस्थितिरायुषः सङ्घयेयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसङ्घयेयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्धया यथाक्रमं सङ्खयेया अनन्ताश्च भागाः क्रियन्ते, ततोऽवकाशान्तरसंहारसमये स्थितेः सङ्घयेयभागान् हन्ति, एकं सङ्घयेयभागं शेषीकरोति, अनुभागस्यानन्तान् भागान् हन्ति एकं मुञ्चति, एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्णं, समये २ स्थितिकण्डकानुभागकण्डघातनात्, अतः परं षष्ठसमयादारभ्य स्थितकण्डकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति, प्रयत्नमन्दीभावात्, षष्ठादिषु च समयेषु कण्डकस्य प्रतिसमयमेकैकं शकलं तावदुत्किरति यावदन्तर्मुहूर्तचरमसमये सकलमपि तत्कण्डकमुत्कीरणं भवति, एवमान्तर्मौहूर्तिकानि स्थितिकण्डककान्यनुभागकण्डकानि च घातयन् तावद्वेदितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसङ्घयेयान्यव - गन्तव्यानीति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र संग्रहणिगाथोक्तमर्थं स्पष्टयन् प्रथमतः समुद्घात - सङ्घयाविषयं प्रश्नसूत्रमाह
२७१
मू. (६००) कति णं भंते! समुग्धाया पं० ?, गो० ! सत्त समुग्धाया पं०, तं० - वेदनासमुग्धाते १ कसायसमुग्घाते २ मारणंतियसमु० ३ वेउव्वियस० ४ तेयास० ५ आहारस० ६. केवलिसमुग्धाते ७ ।
"
वेदनासमुग्धाए णं भंते! कतिसमइए पं० ?, गो० ! असंखेज्जसमइए अंतोमुहुत्तिते पं०, एवं जाव आहारसमुग्धाते, केवलिसमुग्धाए णं भंते! कतिसमइए पं० ?, गो० ! अट्ठसमए पं० नेरइयाणं भंते! कति समुग्धाया पं० ?, गो० ! चत्तारि समुग्धाया पं० तं० - वेदनासमुग्धाए कसायस० मारणंतियस० वेउव्वियस०, असुरकुमाराणं भंते! कति समुग्धाया पं० ?, गो० ! पंच समुग्धाया पं०, तं० - वेदणास० कसायस० मारणंतियस० वेउव्वियस० तेयासमुग्धाए, एवं जाव धणियकुमाराणं,
पुढविकाइयाणं भंते! कति समुग्धाया पं० ?, गो० ! तिन्नि समुग्धाया पं०, तं०-वेदनास० कसायस० मारणंतियस०, एवं जाव चउरिंदियाणं, नवरं वाउकाइयाणं चत्तारि समुग्धाया पं०, तं० - वेदनास ०. कसायस० मारणंतियस० वेउव्वियस०, पंचिंदियतिरिकखजोणियाणं जाव वेमाणियाणं भंते! कति समुग्धाया पं० ?, गो० ! पंच समुग्धाया पं०, तं० - वेयणास० कसायस० मारणंतियस० वेउव्वियस० तेयास, नवरं मणूसाणं सत्तविहे समुग्धाए पं०, तं० - वेदनास० कसायस० मारणंतियस० वेउ० तेया० आहार० केवलिसमुग्घाते
वृ. 'कइ 'मित्यादि, कति - किंतरिमाणा णमिति वाक्यालङ्कारे 'भदन्ते 'ति भगवतो वर्द्धमानस्वामिन आमन्त्रणं, भदन्तत्वं च भगवतः परमकल्याणयोगित्वात्, यदिवा भवान्तेति द्रष्टव्यं सकलसंसारपर्यन्तवर्त्तित्वात्, अथवा भयान्त ! इहपरलोकादिभेदभिन्नसप्तप्रकार
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org