________________
प्रज्ञापनाउपाङ्गसूत्रम् - २ - ३६/-//५९९ विक्षिप्तस्वप्रदेशो वदनोदरादिरन्ध्राणि स्कन्धाद्यपान्तरालानि चापूर्य विष्कम्भबाहल्याभ्यां स्वशरीरप्रमाणमायामत्; स्वशरीरातिरेकतो जघन्यतोऽङ्गुलासङ्घयेयभागं उत्कर्षतो सङ्घयेयानि योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्त्तत इति वक्तव्यं,
वैक्रियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान् शरीराद्बहिर्निष्काश्य शरीरविष्कम्भबाहल्यमानमायामतः सङ्घयेययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गान् प्राग्वत् शातयति, तथा चोक्तम्- 'वेउव्वियसमुग्धाएणं समोहणइ संमोहणित्ता संखिज्जाई जोयणाई दंड निसिर, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ' इति,
एवं तैससाहारसमुद्घातावपि भावनीयौ, नवरं तैजसमुद्घातस्तेजोलेश्याविनिर्गमकाले तैजसनामकर्मपुद्गलपरिशातहेतुः, आहारकसमुद्घातगतस्त्वाहारशरीरनामकर्मपुद्गलान् परिशातयतीति,
केवलिसमुद्घातगतः केवली सदसद्वेद्यादिकर्मपुद्गलपरिशातं करोति, स च यथा कुरुते तथा विनेयजनानुग्रहाय भाव्यते इति, केवलिसमुद्घातोऽष्टसामयिकः, तं च कुर्वन् केवली प्रथमसमये बाहल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तं आत्मप्रदेशानां दण्डमारचयति, द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाटं तृतीये मन्थानं चतुर्थेऽवकाशान्तराणां पूरणं पञ्चमेऽवकाशान्तराणां संहारं षष्ठेः मथः सप्तमे कपाटस्य अष्टमे स्वशरीरस्थो भवति, वक्ष्यति च - "पढमे समये दंड करेई, बीए कवाडं करेइ" इत्यादि, तत्र दण्डसमयात् प्राक् या पल्योपमासङ्घयेयभागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत् तस्या बुद्धया असङ्घयेयभागाः, क्रियन्ते, ततो दण्डसमये दण्डं कुर्वन् असङ्खयेयान् भागान् हन्ति, एकोऽसङ्घयेयो भागोऽवतिष्ठते, यश्च प्राक्कर्मत्रयस्यापि रसस्तस्याप्यनन्ता भागाः क्रियन्ते,
२७०
ततस्तस्मिन् दण्डसमये असातवेदनीय १ प्रथमवर्जससंस्थान ६ संहननपञ्चका ११ प्रशस्तंवर्णादिचतुष्टयो १५ पघाता १६ प्रशस्तविहायोगति १७ दुःस्वर १८ दुर्भगा १९ स्थिरा २० पर्याप्तका २१ शुभा २२ नादेया २३ यशः कीर्त्ति २४ नीचैर्गोत्ररूपाणां २५ पञ्चविंशतिप्रकृतीनामनन्तान् भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते,
तस्मिन्नेव च समये सातवेदनीय १ देवगति २ मनुष्यगति ३ देवानुपूर्वी ४ मनुष्यापूर्वी ५ पञ्चेन्द्रियजाति ६ शरीरपञ्चको ११ पाङ्गत्रय १४ प्रथमसंस्थान १५ संहनन १६ प्रशस्तवर्णादिचतुष्टया २० गुरुलघु २१ पराघातो २२ च्छ्वास १३ प्रशस्तविहायोगति २४ त्रस २५ बादर २६ पर्याप्त २७ प्रत्येकातपो २९ द्योत ३० स्थिर ३१ शुभ ३२ सुभग ३३ सुस्वरा ३४ देय ३५ यशः कीर्त्ति ३६ निर्माण ३७ तीर्थकरो३७ मैर्गोत्ररूपाणा ३९ मेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनोनोपहन्यते,
समुद्घातमाहात्म्यमेतत् तस्य चोद्धरितस्य स्थितेरसङ्घयेयभागस्यानुभागस्य चानन्तभागस्य पुनर्यथाक्रमं असङ्घयेया अनन्ताश्च भागाः क्रियन्ते, द्वितीये कपाटसमये स्थितेरससङ्घयेयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् भागान् हन्ति एकं मुञ्चति, अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागधातो द्रष्टव्यः, पुनरप्येतत्समयेऽवशिष्टस्य स्थितेरसङ्घत्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुध्द्या यथाक्रममसङ्घयेया अनन्ताश्च भागाः क्रियन्ते ततस्तृतीये समये स्थितेरसङ्घयेयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चानन्तान् भागान्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International