SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः-, द्वारं - २६९ पदं - ३६ - “समुद्घातः" वृ. तदेवं व्याख्यातं पञ्चत्रिंशत्तमं पदं, सम्प्रति षट्त्रिंशत्तममारभ्यते, तस्य चायमभिसम्बन्धः- इहानन्तरपदे गतिपरिणामविशेषो वेदना प्रतिपादिता, इहापि गतिपरिणामविशेष एव समुद्घातश्चिन्त्यते, तत्र समुद्घातवक्तव्यताविषयए इयमादौ सङ्ग्रहणिगाथावेयणकसायमरणे वेउब्वियतेयए य आहारे । केवलिए चेव भवे जीवमणुस्साण सत्तेव ॥ मू. (५९९) वृ. 'वेयणे' त्यादि, इह समुद्घाताः सप्त भवन्ति, तद्यथा- 'वेयणकसायमरणे' इति, वेदनं कषायाश्च मरणं च वेदनकषायमरणं समाहारो द्वन्द्वस्तस्मिन् विषये त्रयः समुद्घाता भवन्ति, तद्यथा-वेदनासमुद्घाताः कषायसमुद्घातो मरणसमुद्घातश्च, 'वेउव्विय'त्ति वैक्रियविषयश्चतुर्थः समुद्घातः, तैजसः पञ्चमः समुद्घातः, षष्ठ आहार इति- आहारकशरीरविषयः, - सप्तमः केवलिकः - केवलिषु भवति, 'जीवमणुस्साण सत्तेवि' त्ति सामान्यतो जीवचिन्तायां मनुष्यद्वारचिन्तायां सप्तैव- सप्तपरिमाणाः समुद्घाता वक्तव्याः, न न्यूनाः, सप्तानामपि तत्र सम्भवात्, 'सत्तेव' त्ति एवकारोऽत्र परिमाणे, वर्त्तते च परिमाणे एवशब्दः, यदाह शाकटायनन्यासकृत् - 'एवोऽवधारणपृथकत्वपरिमाणेष्वि 'ति, शेषद्वारचिन्तायां तु यथासम्भवं वाच्याः, ते चाग्रे स्वयमेव सूत्रकृताऽभिधास्यन्ते इत्येष सङ्ग्रहणिगाथासङ्क्षेपार्थः । अथ समुद्घात इति कः शब्दार्थः ?, उच्यते, समित्येकीभावे उत्प्राबल्ये, एकीभावेन प्राबल्येन घातः समुद्घातः, केन सह एकीभावगमनमिति चेत्, उच्यते, अर्थाद्वेदनादिभिः तथाहियदाऽऽत्मा वेदनादिसमुद्घात गतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति, नान्यज्ञानपरिणतः, प्राबल्येन कथं घात इति चेत्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैस्सह सङ्किलष्टान् सातयतीति भावः, 'पुव्वकयकम्मसाडणं तु निजरा' इति वचनात्, तथाहि - वेदनासमुद्घातोऽसद्वेद्यकर्माश्रयः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातः अन्तर्मुहूर्त्तशेषायुः कर्माश्रयः, वैक्रिवकतैजसाहारकसमुद्घाता यथाक्रमं वैक्रियशरीरतैजसशरीराहारकशरीरनामकर्माश्रयाः, केवलिसमुद्घातः सदसद्वेद्यशुभाशुभनामोच्चनीयचैर्गोत्रकर्माश्रयः, तत्र वेदनासमुद्घातगत आत्मा असातावेदनीयकर्मपुद्गलपरिशातं करोति, तथाहिवेदनापीडितो जीवः स्वप्रदेशानन्तान्तकर्मस्कन्धवेष्टितान् शरीराद्वहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजठरादिरन्द्राणि कर्णस्कन्धाद्यपान्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त्त यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातावेदनीयकर्मपुद्गलपरिशातं करोति, कषायसमुद्घातसमुद्धतः कषायाख्यचारित्रमोहनीयकर्मपुद्गलपरिशातं विधत्ते, तथाहिकषायोदयसमाकुलो जीवः प्रदेशान् बहिर्विक्षिपति, तैः प्रदेशैर्वदनोदरादिरन्द्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च देहमात्रं क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूतान् कपायकर्म्मपुद्गलान् परिशातयति, एवं मरणसमुद्घातगत आयुःकर्मपुद्गलान् परिशातयति, नवरं मरणसमुद्घातगतो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy