Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२६८
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३५/-//५९८
चतुर्विंशतिदण्डकक्रमेण प्रतिपादयति
'नेरइयाण' मित्यादि, द्विविधा हि नैरयिकाः- संज्ञिभूता असंज्ञिभूताश्च, तत्र ये ते संज्ञिभ्य उत्पन्नास्ते संज्ञिभूताः, ये त्वसंज्ञिभ्यस्तेऽसंज्ञिभूताः असंज्ञिनश्च पाश्चात्यं न किमपि जन्मान्तरकृतं शुभमशुभं वैरादिकं वा स्मरन्ति, स्मरणं हि तत्र प्रवर्तते यत्तीत्रेणाभिसन्धिना कृतं भवति, न चासंज्ञिभवे पाश्चात्ये तेषां तीव्राभिसन्धिरासीत्, मनोविकलत्वात्, ततो यामपि काञ्चिद्वेदनां नैरयिका वेदयन्ते तामनिदां, पाश्चात्यभवानुभूतिविषयस्मरणपटुचित्तासम्भवात्, संज्ञिभूतास्तु सर्वं पाश्चात्यमनुस्मरन्तीति ते निदां वेदनां वेदयन्ते इति,
एवमसुरकुमारादयः स्तनितकुमारपर्यवसाना भवनपतयो वक्तव्याः, तेषामपि संज्ञिभ्योऽसंज्ञिभ्यश्चोत्पादसम्भवात् पृथिव्यप्तेजोवायुवनस्पतिद्वितिर्चतुरिन्द्रियाः सम्मूर्च्छिमा इति मनोविकलत्वात् अनिदामेव वेदनां वेदयन्ते, 'पंचिंदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइया' इति, पञ्चेन्द्रियतिर्यग्योनिका मनुष्या व्यनतराश्च यथा नैरयिकास्तथा वक्तव्या इति शेषः, निदामपि वेदनां वेदयन्ति अनिदामपि वेदनां वेदयन्ते इति वक्तव्या इत्यर्थः कस्मादिति चेत्, उच्यते,
इह पञ्चेन्द्रियतिर्यग्योनिका मनुष्याश्च द्विधा भवन्ति, तद्यथा-सम्मूर्च्छिमा गर्भव्युत्क्रान्तिकाश्च तत्र येते सम्मूर्च्छिमास्ते मनोविकलत्वादनिदां वेदनां वेदयन्ते, ये तु गर्भव्युत्क्रान्तास्ते समनस्का इति निदां वेदनामनुभवन्ति, व्यन्तरास्तु संज्ञिभ्योऽपिउत्पद्यन्ते असंज्ञिभ्योऽपि ततस्तेऽपि नैरयिकवत् निदां चानिदां च वेदनां वेदयमाना भावनीयाः,
'जोइसिया ण' मित्यादि, ज्योतिष्कास्तु संज्ञिभ्य एवोत्पद्यन्ते, ततस्तेषु न नैरयिकोक्तेन प्रकारेण निदानिदे वेदने सम्भावनीये, किन्तु प्रकारान्तरेण, ततस्तमेव प्रकारं बुभुत्सुः प्रश्नसूत्रमाह'सेकेणणं भंते!' इत्यादि सुगमं, भगवानाह - 'गोयमे' त्यादि, ज्योतिष्का हि द्विविधाःमायिमिथ्याध्ष्टयुपपन्नकाः अमायिसम्यग्ध्ष्टयुपपन्नकाश्च,
तत्र मायानिर्वर्त्तितं यत्कर्म मिध्यात्वादिकं तदपि माया, कार्ये कारणोपचारात्, माया विद्यते येषां ते मायिनः, अत एव मिथ्यात्वोदयात् मिथ्या-विपर्यस्ता दृष्टिः - वस्तुतत्त्वप्रतिपत्तिर्येषां ते मिथ्याध्ष्टयो मायिनश्च ते मिथ्याध्ष्टयश्च मायिमिथ्यादृष्टयस्ते च ते उपपन्नकाश्च मायमिमिथ्याटयुपपन्नकाः तद्विपरीता अमायिसम्यग्ध्ष्टयुपपन्नकाः,
तत्र येते मायमिथ्याध्ष्टयुपपन्नकास्तेऽपि मिध्यादृष्टित्वादेव व्रतविराधनातोऽज्ञानतपोवशाद्वा वयमेवंविधा उत्पन्ना इति न जानते, ततः सम्यग्यथावस्थितपरिज्ञानाभावादनिदां वेदनां वेदयमानास्ते वेदितव्याः, ये त्वमायिसम्यग्दृष्टयुपपन्नास्त सम्यग्दृष्टित्वात् यथावस्थितं स्वरूपं जानन्ति ततो यां काञ्चन वेदनां वेदयन्ते तां सर्वामपि निदामिति,
'एवं चेव वेमाणियावि' इति एवं - ज्योतिष्कोक्तेन प्रकारेण वैमानिका अपि निदामनिदां च वेदनां वेदयमाना वेदितव्याः, तेषामपि मिथ्यादृष्टिसमष्टिभेदतो द्विविधत्वात् ॥ पदं - ३५ - समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे पञ्चत्रिशत्तमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5959f5341b7e6febb6a14fc481153e79878e635374cd264c43aad191aacc0242.jpg)
Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342